२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 25: रुद्रसंहितायां तृतीये पार्वतीखण्डे पद्मापिप्पलादचरितवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.३५. पञ्चत्रिंशोऽध्यायः ।
पद्मापिप्पलादचरितवर्णनम् ।
नारद उवाच ।
अनरण्यस्य चरितं सुतादानसमन्वितम् ।
श्रुत्वा गिरिवरस्तात किं चकार च तद्वद ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
ब्रह्मोवाच ।
अनरण्यस्य चरितं कन्यादानसमन्वितम् ।
श्रुत्वा पप्रच्छ शैलेशो वसिष्ठं साञ्जलिः पुनः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
शैलेश उवाच ।
वसिष्ठ मुनिशार्दूल ब्रह्मपुत्र कृपानिधे ।
अनरण्यचरित्रन्ते कथितं परमाद्भुतम् ॥ ३॥
अनरण्यसुता यस्मात् पिप्पलादं मुनिं पतिम् ।
सम्प्राप्य किमकार्षीत्सा तच्चरित्रं मुदावहम् ॥ ४॥
वसिष्ठ उवाच ।
पिप्पलादो मुनिवरो वयसा जर्जरोऽधिकः ।
गत्वा निजाश्रमं नार्यानरण्यसुतया तया ॥ ५॥
उवास तत्र सुप्रीत्या तपस्वी नातिलम्पटः ।
तत्रारण्ये गिरिवरे स नित्यं निजधर्मकृत् ॥ ६॥
अथानरण्यकन्या सा सिषेवे भक्तितो मुनिम् ।
कर्मणा मनसा वाचा लक्ष्मीर्नारायणं यथा ॥ ७॥
एकदा स्वर्णदीं स्नातुं गच्छन्तीं सुस्मितां च ताम् ।
ददर्श पथि धर्मश्च मायया नृपरूपधृक् ॥ ८॥
चारुरत्नरथस्थश्च नानालङ्कारभूषितः ।
नवीनयौवनश्श्रीमान्कामदेवसमप्रभः ॥ ९॥
दृष्ट्वा तां सुन्दरीं पद्मामुवाच स वृषो विभुः ।
विज्ञातुं भावमन्तःस्थं तस्याश्च मुनियोषितः ॥ १०॥
धर्म उवाच ।
अयि सुन्दरि लक्ष्मीर्वै राजयोग्ये मनोहरे ।
अतीव यौवनस्थे च कामिनि स्थिरयौवने ॥ ११॥
जरातुरस्य वृद्धस्य पिप्पलादस्य वै मुनेः ।
सत्यं वदामि तन्वङ्गि समीपे नैव राजसे ॥ १२॥
विप्रं तपस्सु निरतं निर्घृणं मरणोन्मुखम् ।
त्यक्त्वा मां पश्य राजेन्द्रं रतिशूरं स्मरातुरम् ॥ १३॥
प्राप्नोति सुन्दरी पुण्यात्सौन्दर्यं पूर्वजन्मनः ।
सफलं तद्भवेत्सर्वं रसिकालिङ्गनेन च ॥ १४॥
सहस्रसुन्दरीकान्तं कामशास्त्रविशारदम् ।
किङ्करं कुरु मां कान्ते सम्परित्यज्य तं पतिम् ॥ १५॥
निर्जने कानने रम्ये शैले शैले नदीतटे ।
विहरस्व मया सार्धं जन्मेदं सफलं कुरु ॥ १६॥
वसिष्ठ उवाच ।
इत्येवमुक्तवन्तं सा स्वरथादवरुह्य च ।
ग्रहीतुमुत्सुकं हस्ते तमुवाच पतिव्रता ॥ १७॥
पद्मोवाच ।
गच्छ दूरं गच्छ दूरं पापिष्ठस्त्वं नराधिप ।
मां चेत्पश्यसि कामेन सद्यो नष्टो भविष्यसि ॥ १८॥
पिप्पलादं मुनिश्रेष्ठं तपसा पूतविग्रहम् ।
त्यक्त्वा कथं भजेयं त्वां स्त्रीजितं रतिलम्पटम् ॥ १९॥
स्त्रीजितस्पर्शमात्रेण सर्वं पुण्यं प्रणश्यति ।
स्त्रीजितः परपापी च तद्दर्शनमघावहम् ॥ २०॥
सत्क्रियो ह्यशुचिर्नित्यं स पुमान् यः स्त्रिया जितः ।
निन्दन्ति पितरो देवा मानवाः सकलाश्च तम् ॥ २१॥
तस्य किं ज्ञान सुतपोजपहोमप्रपूजनैः ।
विद्यया दानतः किं वा स्त्रीभिर्यस्य मनो हृतम् ॥ २२॥
मातरं मां स्त्रियो भावं कृत्वा येन ब्रवीषि ह ।
भविष्यति क्षयस्तेन कालेन मम शापतः ॥ २३॥
वसिष्ठ उवाच ।
श्रुत्वा धर्मः सतीशापं नृपमूर्तिं विहाय च ।
धृत्वा स्वमूर्तिं देवेशः कम्पमान उवाच सः ॥ २४॥
धर्म उवाच ।
मातर्जानीहि मां धर्मं ज्ञानिनां च गुरोर्गुरुम् ।
परस्त्रीमातृबुद्धिं च कुर्वन्तं सततं सति ॥ २५॥
अहं तवान्तरं ज्ञातुमागतस्तव सन्निधिम् ।
तवाहञ्च मनो जाने तथापि विधिनोदितः ॥ २६॥
कृतं मे दमनं साध्वि न विरुद्धं यथोचितम् ।
शास्तिः समुत्पथस्थानामीश्वरेण विनिर्मिता ॥ २७॥