Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं

Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.३४. चतुस्त्रिंशोऽध्यायः ।

अनरण्यचरितवर्णनम् ।

वसिष्ठ उवाच ।

मनोर्वंशोद्भवो राजा सोऽनरण्यो नृपेश्वरः ।

इन्द्रसावर्णिसंज्ञस्य चतुर्दशमितस्य हि ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 2

अनरण्यो नृपश्रेष्ठः सप्तद्वीपमहीपतिः ।

शम्भुभक्तो विशेषेण मङ्गलारण्यजो बली ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 3

भृगुं पुरोधसं कृत्वा शतं यज्ञांश्चकार सः ।

न स्वीचकार शक्रत्वं दीयमानं सुरैरपि ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 4

बभूवुः शतपुत्राश्च राज्ञस्तस्य हिमालय ।

कन्यैका सुन्दरी नाम्ना पद्मा पद्मालया समा ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 5

यः स्नेहः पुत्रशतके कन्यायाञ्च ततोऽधिकः ।

नृपस्य तस्य तस्यां हि बभूव नगसत्तम ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 6

प्राणाधिका प्रियतमा महिष्यः सर्वयोषितः ।

नृपस्य पत्न्यः पञ्चासन् सर्वाः सौभाग्यसंयुताः ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 7

सा कन्या यौवनस्था च बभूव स्वपितुर्गृहे ।

पत्रं प्रस्थापयामास सुवरानयनाय सः ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 8

एकदा पिप्पलादर्षिर्गन्तुं स्वाश्रममुत्सुकः ।

तपःस्थाने निर्जने च गन्धर्वं स ददर्श ह ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 9

स्त्रीयुतं मग्नचित्तं च श‍ृङ्गारे रससागरे ।

विहरन्तं महाप्रेम्णा कामशास्त्रविशारदम् ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 10

दृष्ट्वा तं मुनिशार्दूलः सकामः सम्बभूव सः ।

तपःस्वदत्तचित्तश्चाचिन्तयद्दारसङ्ग्रहम् ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 11

एवंवृत्तस्य तस्यैव पिप्पलादस्य सन्मुनेः ।

कियत्कालो गतस्तत्र कामोन्मथितचेतसः ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 12

एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ।

ददर्श पद्मां युवतीं पद्मामिव मनोरमाम् ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 13

केयं कन्येति पप्रच्छ समीपस्थाञ्जनान्मुनिः ।

जना निवेदयाञ्चक्रुर्नत्वा शापनियन्त्रिताः ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 14

जना ऊचुः ।

अनरण्यसुतेयं वै पद्मा नाम रमापरा ।

वरारोहा प्रार्थ्यमाना नृपश्रेष्ठैर्गुणालया ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 15

ब्रह्मोवाच ।

तच्छ्रुत्वा स मुनिर्वाक्यं जनानां तथ्यवादिनाम् ।

चुक्षोभातीव मनसि तल्लिप्सुरभवच्च सः ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 16

मुनिः स्नात्वाभीष्टदेवं सम्पूज्य विधिवच्छिवम् ।

जगाम कामी भिक्षार्थमनरण्यसभां गिरे ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 17

राजा शीघ्रं मुनिं दृष्ट्वा प्रणनाम भयाकुलः ।

मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 18

कामात्सर्वं गृहीत्वा च ययाचे कन्यकां मुनिः ।

मौनी बभूव नृपतिः किञ्चिन्निर्वक्तुमक्षमः ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 19

मुनिर्ययाचे कन्यां स तां देहीति नृपेश्वर ।

अन्यथा भस्मसात्सर्वं करिष्यामि क्षणेन च ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 20

सर्वे बभूवुराच्छन्ना गणास्तत्तेजसा मुने ।

रुदोद राजा सगणो दृष्ट्वा विप्रं जरातुरम् ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 21

महिष्यो रुरुदुस्सर्वा इतिकर्तव्यताक्षमाः ।

मूर्च्छामाप महाराज्ञी कन्यामाता शुचाकुला ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 22

बभूवुस्तनयाः सर्वे शोकाकुलितमानसाः ।

सर्वं शोकाकुलं जातं नृपसम्बन्धि शैलप ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 23

एतस्मिन्नन्तरे प्राज्ञो द्विजो गुरुरनुत्तमः ।

पुरोहितश्च मतिमान् आगतो नृपसन्निधिम् ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 24

राजा प्रणम्य सम्पूज्य रुदोद च तयोः पुरः ।

सर्वं निवेदयाञ्चक्रे पप्रच्छोचितमाशु तत् ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 25

अथ राज्ञो गुरुर्विप्रः पण्डितश्च पुरोहितः ।

अपि द्वौ शास्त्रनीतिज्ञौ बोधयामासतुर्नृपम् ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 26

शोकाकुलांश्च महिषीर्नृपबालांश्च कन्यकाम् ।

उत्तमां नीतिमादृत्य सर्वेषां हितकारिणीम् ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 24: रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं, Verse 27

गुरुपुरोधसावूचतुः श‍ृणु राजन्महाप्राज्ञ वचो नौ सद्धितावहम् ।

मा शुचः सपरीवारः शास्त्रे कुरु मतिं सतीम् ॥ २७॥