२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 23: रुद्रसंहितायां तृतीये पार्वतीखण्डे गिरिसान्त्वनो, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 67 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.३३. त्रयस्त्रिंशोऽध्यायः ।
गिरिसान्त्वनम् ।
ऋषय ऊचुः ।
जगत्पिता शिवः प्रोक्तो जगन्माता शिवा मता ।
तस्माद्देया त्वया कन्या शङ्कराय महात्मने ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
एवं कृत्वा हिमगिरे सार्थकं ते भवेज्जनुः ।
जगद्गुरोर्गुरुस्त्वं हि भविष्यसि न संशयः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
ब्रह्मोवाच ।
एवं वचनमाकर्ण्य सप्तर्षीणां मुनीश्वर ।
प्रणम्य तान्करौ बद्ध्वा गिरिराजोऽब्रवीदिदम् ॥ ३॥
हिमालय उवाच ।
सप्तर्षयो महाभागा भवद्भिर्यदुदीरितम् ।
तत्प्रमाणीकृतं मे हि पुरैव गिरिशेच्छया ॥ ४॥
इदानीमेक आगत्य विप्रो वैष्णवधर्मवान् ।
शिवमुद्दिश्य सुप्रीत्या विपरीतं वचोऽब्रवीत् ॥ ५॥
तदारभ्य शिवामाता ज्ञानभ्रष्टा बभूव ह ।
सुताविवाहं रुद्रेण योगिना तेन नेच्छति ॥ ६॥
कोपागारमगात्सा हि सुतप्ता मलिनाम्बरा ।
कृत्वा महाहठं विप्रा बोध्यमानापि नाबुधत् ॥ ७॥
अहं च ज्ञानविभ्रष्टो जातोऽहं सत्यमीर्यते ।
दातुं सुतां महेशाय नेच्छामि भिक्षुरूपिणे ॥
ब्रह्मोवाच ।
इत्युक्त्वा शैलराजस्तु शिवमायाविमोहितः ।
तूष्णीं बभूव तत्रस्थो मुनीनां मध्यतो मुने ॥ ९॥
सर्वे सप्तर्षयस्ते हि शिवमायां प्रशस्य वै ।
प्रेषयामासुरथ तां मेनकां प्रत्यरुन्धतीम् ॥ १०॥
अथ पत्युः समादाय निदेशं ज्ञानदा हि सा ।
जगामारुन्धती तूर्णं यत्र मेना च पार्वती ॥ ११॥
गत्वा ददर्श मेनां तां शयानां शोकमूर्च्छिताम् ।
उवाच मधुरं साध्वी सावधाना हितं वचः ॥ १२॥
अरुन्धत्युवाच ।
उत्तिष्ठ मेनके साध्वि त्वद्गृहेऽहमरुन्धती ।
आगता मुनयश्चापि सप्तायाताः कृपालवः ॥ १३॥
ब्रह्मोवाच ।
अरुन्धतीस्वरं श्रुत्वा शीघ्रमुत्थाय मेनका ।
उवाच शिरसा नत्वा तां पद्मामिव तेजसा ॥ १४॥
मेनोवाच ।
अहोऽद्य किमिदं पुण्यमस्माकं पुण्यजन्मनाम् ।
वधूर्जगद्विधेः पत्नी वसिष्ठस्यागतेह वै ॥ १५॥
किमर्थमागता देवि तन्मे ब्रूहि विशेषतः ।
अहं दासीसमा ते हि ससुता करुणां कुरु ॥ १६॥
ब्रह्मोवाच ।
इत्युक्त्वा मेनका साध्वी बोधयित्वा च तां बहु ।
तत्रागता च सुप्रीत्या यत्र सप्तर्षयोऽपि ते ॥ १७॥
अथ शैलेश्वरं ते च बोधयामासुरादरात् ।
स्मृत्वा शिवपदद्वन्द्वं सर्वे वाक्यविशारदाः ॥ १८॥
ऋषय ऊचुः ।
शैलेन्द्र श्रूयतां वाक्यमस्माकं शुभकारणम् ।
शिवाय पार्वतीं देहि संहर्तुः श्वशुरो भव ॥ १९॥
अयाचितारं सर्वेशं प्रार्थयामास यत्नतः ।
तारकस्य विनाशाय ब्रह्मा सम्बन्धकर्मणि ॥ २०॥
नोत्सुको दारसंयोगे शङ्करो योगिनां वरः ।
विधेः प्रार्थनया देवस्तव कन्यां ग्रहीष्यति ॥ २१॥
दुहितुस्ते तपस्तप्तं प्रतिज्ञानं चकार सा ।
हेतुद्वयेन योगीन्द्रो विवाहं च करिष्यति ॥ २२॥
ब्रह्मोवाच ।
ऋषीणां वचनं श्रुत्वा प्रहस्य स हिमालयः ।
उवाच किञ्चिद्भीतस्तु परं विनयपूर्वकम् ॥ २३॥
हिमालय उवाच ।
शिवस्य राजसामग्रीं न हि पश्यामि काञ्चन ।
कञ्चिदाश्रयमैश्वर्यं कं वा स्वजनबान्धवम् ॥ २४॥
नेच्छाम्यति विनिर्लिप्तयोगिने स्वां सुतामहम् ।
यूयं वेदविधातुश्च पुत्रा वदत निश्चितम् ॥ २५॥
वरायाननुरूपाय पिता कन्यां ददाति चेत् ।
कामान्मोहाद्भयाल्लोभात्स नष्टो नरकं व्रजेत् ॥ २६॥
न हि दास्याम्यहं कन्यामिच्छया शूलपाणये ।
यद्विधानं भवेद्योग्यमृषयस्तद्विधीयताम् ॥ २७॥