Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं

Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 1

विद्येश्वरसंहिता १.१०. दशमोऽध्यायः ।

ब्रह्मविष्णुभ्यां पञ्चकृत्यमोङ्कारमन्त्रं चोपदिश्य शिवस्यान्तर्धानम् ।

ब्रह्मविष्णू ऊचतुः सर्गादिपञ्चकृत्यस्य लक्षणं ब्रूहि नौ प्रभो ।

शिव उवाच ।

मत्कृत्यबोधनं गुह्यं कृपया प्रब्रवीमि वाम् ॥ १॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 2

सृष्टिः स्थितिश्च संहारस्तिरोभावोऽप्यनुग्रहः ।

पञ्चैव मे जगत्कृत्यं नित्यसिद्धमजाच्युतौ ॥ २॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 3

सर्गः संसारसंरम्भस्तत्प्रतिष्ठा स्थितिर्मता ।

संहारो मर्दनं तस्य तिरोभावस्तदुत्क्रमः ॥ ३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 4

तन्मोक्षोऽनुग्रहस्तन्मे कृत्यमेवं हि पञ्चकम् ।

कृत्यमेतद्वहत्यन्यस्तूष्णीं गोपुरबिम्बवत् ॥ ४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 5

सर्गादि यच्चतुःकृत्यं संसारपरिजृम्भणम् ।

पञ्चमं मुक्तिहेतुर्वै नित्यं मयि च सुस्थिरम् ॥ ५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 6

तदिदं पञ्चभूतेषु दृश्यते मामकैर्जनैः ।

सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा ॥ ६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 7

तिरोभावोऽनिले तद्वदनुग्रह इहाम्बरे ।

सृज्यते धरया सर्वमद्भिः सर्वं प्रवर्धते ॥ ७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 8

अर्द्यते तेजसा सर्वं वायुना चापनीयते ।

व्योम्नानुगृह्यते सर्वं ज्ञेयमेवं हि सूरिभिः ॥ ८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 9

पञ्चकृत्यमिदं वोढुं ममास्ति मुखपञ्चकम् ।

चतुर्दिक्षु चतुर्वक्त्रं तन्मध्ये पञ्चमं मुखम् ॥ ९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 10

युवाभ्यां तपसा लब्धमेतत्कृत्यद्वयं सुतौ ।

सृष्टिस्थित्यभिधं भाग्यं मत्तः प्रीतादतिप्रियम् ॥ १०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 11

तथा रुद्रमहेशाभ्यामन्यत्कृत्यद्वयं परम् ।

अनुग्रहाख्यं केनापि लब्धुं नैव हि शक्यते ॥ ११॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 12

तत्सर्वं पौर्विकं कर्म युवाभ्यां कालविस्मृतम् ।

न तद् रुद्रमहेशाभ्यां विस्मृतं कर्म तादृशम् ॥ १२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 13

रूपे वेषे च कृत्ये च वाहने चासने तथा ।

आयुधादौ च मत्साम्यमस्माभिस्तत्कृते कृतम् ॥ १३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 14

मद्ध्यानविरहाद्वत्सौ मौढ्यं वामेवमागतम् ।

मज्ज्ञाने सति मैवं स्यान्मानं रूपं महेशवत् ॥ १४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 15

तस्मान्मज्ज्ञानसिद्ध्यर्थं मन्त्रमोङ्कारनामकम् ।

इतः परं प्रजपतं मामकं मानभञ्जनम् ॥ १५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 16

उपादिशं निजं मन्त्रमोङ्कारमुरुमङ्गलम् ।

ऊँकारो मन्मुखाज्जज्ञे प्रथमं मत्प्रबोधकः ॥ १६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 17

वाचकोऽयमहं वाच्यो मन्त्रोऽयं हि मदात्मकः ।

तदनुस्मरणं नित्यं ममानुस्मरणं भवेत् ॥ १७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 18

अकार उत्तरात् पूर्वमुकारः पश्चिमाननात् ।

मकारो दक्षिणमुखाद् बिन्दुः प्राङ्मुखतस्तथा ॥ १८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 19

नादो मध्यमुखादेवं पञ्चधासौ विजृम्भितः ।

एकीभूतः पुनस्तद्वदोमित्येकाक्षरोऽभवत् ॥ १९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 20

नामरूपात्मकं सर्वं वेदभूतकुलद्वयम् ।

व्याप्तमेतेन मन्त्रेण शिवशक्त्योश्च बोधकः ॥ २०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 21

अस्मात् पञ्चाक्षरं जज्ञे बोधकं सकलस्य तत् ।

अकारादिक्रमेणैव नकारादि यथाक्रमम् ॥ २१॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 22

अस्मात् पञ्चाक्षराज्जाता मातृकाः पञ्चभेदतः ।

तस्माच्छिरश्चतुर्वक्त्रात्त्रिपाद्गायत्रिरेव हि ॥ २२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 23

वेदः सर्वस्ततो जज्ञे ततो वै मन्त्रकोटयः ।

तत्तन्मन्त्रेण तत्सिद्धिः सर्वसिद्धिरितो भवेत् ॥ २३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 24

अनेन मन्त्रकन्देन भोगो मोक्षश्च सिद्ध्यति ।

सकला मन्त्रराजानः साक्षाद्भोगप्रदाः शुभाः ॥ २४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 25

नन्दिकेश्वर उवाच ।

पुनस्तयोस्तत्र तिरः पटं गुरुः प्रकल्प्य मन्त्रं च समादिशत् परम् ।

निधाय तच्छीर्ष्णि कराम्बुजं शनै- रुदङ्मुखं संस्थितयोः सहाम्बिकः ॥ २५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 26

त्रिरुच्चार्याग्रहीन्मन्त्रं यन्त्रतन्त्रोक्तिपूर्वकम् ।

शिष्यौ च तौ दक्षिणायामात्मानं च समार्पयत् ॥ २६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 27

प्रबद्धहस्तौ किल तौ तदन्तिके तमूचतुर्देववरं जगद्गुरुम् ॥ २७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 8: विद्येश्वरसंहितायामोङ्कारोपदेशवर्णनं, Verse 28

ब्रह्माच्युतावूचतुः नमो निष्कलरूपाय नमो निष्कलतेजसे ।

नमः सकलनाथाय नमस्ते सकलात्मने ॥ २८॥