२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 20: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाजटिलसंवादो, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.२६. षड्विंशोऽध्यायः ।
पार्वती-जटिलसंवादः ।
ब्रह्मोवाच ।
गतेषु तेषु मुनिषु स्वं लोकं शङ्करः स्वयम् ।
परीक्षितुं तपो देव्या ऐच्छत्सूतिकरः प्रभुः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
परीक्षाछद्मना शम्भुर्द्रष्टुं तां तुष्टमानसः ।
जटिलं रूपमास्थाय स ययौ पार्वतीवनम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
अतीव स्थविरो विप्रदेहधारी स्वतेजसा ।
प्रज्वलन्मनसा हृष्टो दण्डी छत्री बभूव सः ॥ ३॥
तत्रापश्यत्स्थितां देवीं सखीभिः परिवारिताम् ।
वेदिकोपरि शुद्धां तां शिवामिव विधोः कलाम् ॥ ४॥
शम्भुर्निरीक्ष्य तां देवीं ब्रह्मचारिस्वरूपवान् ।
उपकण्ठं ययौ प्रीत्या तदासौ भक्तवत्सलः ॥ ५॥
आगतं तं तदा दृष्ट्वा ब्राह्मणं तेजसाद्भुतम् ।
अपूजयच्छिवा देवी सर्वपूजोपहारकैः ॥ ६॥
सुसत्कृतं संविधाभिः पूजितं परया मुदा ।
पार्वती कुशलं प्रीत्या पप्रच्छ द्विजमादरात् ॥ ७॥
पार्वत्युवाच ।
ब्रह्मचारिस्वरूपेण कस्त्वं हि कुत आगतः ।
इदं वनं भासयसे वद वेदविदां वर ॥ ८॥
विप्र उवाच ।
अहमिच्छाभिगामी च वृद्धो विप्रतनुः सुधीः ।
तपस्वी सुखदोऽन्येषामुपकारी न संशयः ॥ ९॥
का त्वं कस्यासि तनया किमर्थं विजने वने ।
तपश्चरसि दुर्धर्षं मुनिभिः प्रपदैरपि ॥ १०॥
न बाला न च वृद्धासि तरुणी भासि शोभना ।
कथं पतिं विना तीक्ष्णं तपश्चरसि वै वने ॥ ११॥
किं त्वं तपस्विनी भद्रे कस्यचित्सहचारिणी ।
तपस्वी स न पुष्णाति देवि त्वां च गतोऽन्यतः ॥ १२॥
वद कस्य कुले जाता कः पिता तव काभिधा ।
महासौभाग्यरूपा त्वं वृथा तव तपोरतिः ॥ १३॥
किं त्वं वेदप्रसूर्लक्ष्मीः किं सुरूपा सरस्वती ।
एतासु मध्ये का वा त्वं नाहं तर्कितुमुत्सहे ॥ १४॥
पार्वत्युवाच ।
नाहं वेदप्रसूर्विप्र न लक्ष्मीश्च सरस्वती ।
अहं हिमाचलसुता साम्प्रतं नाम पार्वती ॥ १५॥
पुरा दक्षसुता जाता सती नामान्यजन्मनि ।
योगेन त्यक्तदेहाहं यत्पित्रा निन्दितः पतिः ॥ १६॥
अत्र जन्मनि सम्प्राप्तः शिवोऽपि विधिवैभवात् ।
मां त्यक्त्वा भस्मसात्कृत्य मन्मथं स जगाम ह ॥ १७॥
प्रयाते शङ्करे तापोद्विजिताहं पितुर्गृहात् ।
आगता तपसे विप्र सुदृढा स्वर्णदीतटे ॥ १८॥
कृत्वा तपः कठोरं च सुचिरं प्राणवल्लभम् ।
न प्राप्याग्नौ विविक्षन्ती त्वां दृष्ट्वा संस्थिता क्षणम् ॥ १९॥
गच्छ त्वं प्रविशाम्यग्नौ शिवेनाङ्गीकृता न हि ।
यत्र यत्र जनुर्लप्स्ये वरिष्यामि शिवं वरम् ॥ २०॥
ब्रह्मोवाच ।
इत्युक्त्वा पार्वती वह्नौ तत्पुरः प्रविवेश सा ।
निषिध्यमाना पुरतो ब्राह्मणेन पुनः पुनः ॥ २१॥
वह्निप्रवेशं कुर्वत्याः पार्वत्यास्तत्प्रभावतः ।
बभूव तत्क्षणं सद्यो वह्निश्चन्दनपङ्कवत् ॥ २२॥
क्षणं तदन्तरे स्थित्वा ह्युत्पतन्तीं दिवं द्विजः ।
पुनः पप्रच्छ सहसा विहसन्सुतनुं शिवः ॥ २३॥
द्विज उवाच ।
अहो तपस्ते किं भद्रे न बुद्धं किञ्चिदेव हि ।
न दग्धो वह्निना देहो न च प्राप्तं मनीषितम् ॥ २४॥
अतः सत्यं निकामं वै वद देवि मनोरथम् ।
ममाग्रे विप्रवर्यस्य सर्वानन्दप्रदस्य हि ॥ २५॥
यथाविधि त्वया देवि कीर्त्यतां सर्वथात्मना ।
तस्मान्मैत्री च सञ्जाता कार्यं गोप्यं त्वया न हि ॥ २६॥
किमिच्छसि वरं देवि प्रष्टुमिच्छाम्यतः परम् ।
त्वय्येव तदसौ देवि फलं सर्वं प्रदृश्यते ॥ २७॥