Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं

Containing 76 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.२५. पञ्चविंशोऽध्यायः ।

सप्तर्षिकृता पार्वतीपरीक्षा ।

नारद उवाच ।

गतेषु तेषु देवेषु विधिविष्ण्वादिकेषु च ।

सर्वेषु मुनिषु प्रीत्या किं बभूव ततः परम् ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 2

किं कृतं शम्भुना तात वरं दातुं समागतः ।

कियत्कालेन च कथं तद्वद प्रीतिमावह ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 3

ब्रह्मोवाच ।

गतेषु तेषु देवेषु ब्रह्मादिषु निजाश्रमम् ।

तत्तपः सुपरीक्षार्थं समाधिस्थोऽभवद्भवः ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 4

स्वात्मानमात्मना कृत्वा स्वात्मन्येव व्यचिन्तयत् ।

परात्परतरं स्वस्थं निर्मायं निरवग्रहम् ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 5

तद्वस्तुभूतो भगवानीश्वरो वृषभध्वजः ।

अविज्ञातगतिःसूतिःस हरः परमेश्वरः ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 6

ब्रह्मोवाच ।

गिरिजा हि तदा तात तताप परमं तपः ।

तपसा तेन रुद्रोऽपि परं विस्मयमागतः ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 7

समाधेश्चलितस्सोऽभूद्भक्ताधीनोऽपि नान्यथा ।

वसिष्ठादीन्मुनीन्सप्त सस्मार सूतिकृद्धरः ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 8

सप्तापि मुनयः शीघ्रमाययुः स्मृतिमात्रतः ।

प्रसन्नवदनाः सर्वे वर्णयन्तो विधिं बहु ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 9

प्रणम्य तं महेशानं तुष्टुवुर्हर्षनिर्भराः ।

वाण्या गद्गदया बद्धकरा विनतकन्धराः ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 10

सप्तर्षय ऊचुः ।

देवदेव महादेव करुणासागर प्रभो ।

जाता वयं सुधन्या हि त्वया यदधुना स्मृताः ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 11

किमर्थं संस्मृता नाथ शासनं देहि तद्धि नः ।

स्वदाससदृशीं स्वामिन्कृपां कुरु नमोऽस्तु ते ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 12

ब्रह्मोवाच ।

इत्याकर्ण्य मुनीनां तु विज्ञप्तिं करुणानिधिः ।

प्रोवाच विहसन्प्रीत्या प्रोत्फुल्लनयनाम्बुजः ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 13

महेश्वर उवाच ।

हे सप्तमुनयस्ताताः श‍ृणुतारं वचो मम ।

अस्मद्धितकरा यूयं सर्वज्ञानविचक्षणाः ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 14

तपश्चरति देवेशी पार्वती गिरिजाधुना ।

गौरीशिखरसंज्ञे हि पर्वते दृढमानसा ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 15

मां पतिं प्राप्तुकामा हि सा सखीसेविता द्विजाः ।

सर्वान्कामान्विहायान्यान्परं निश्चयमागता ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 16

तत्र गच्छत यूयं मच्छासनान्मुनिसत्तमाः ।

परीक्षां दृढतायास्तत्कुरुत प्रेमचेतसः ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 17

सर्वथा छलसंयुक्तं वचनीयं वचश्च वः ।

न संशयः प्रकर्तव्यः शासनान्मम सुव्रताः ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 18

ब्रह्मोवाच ।

इत्याज्ञप्ताश्च मुनयो जग्मुस्तत्र द्रुतं हि ते ।

यत्र राजति सा दीप्ता जगन्माता नगात्मजा ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 19

तत्र दृष्ट्वा शिवा साक्षात्तपःसिद्धिरिवापरा ।

मूर्ता परमतेजस्का विलसन्ती सुतेजसा ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 20

हृदा प्रणम्य तां ते तु ऋषयस्सप्त सुव्रताः ।

सन्नता वचनं प्रोचुः पूजिताश्च विशेषतः ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 21

ऋषय ऊचुः ।

श‍ृणु शैलसुते देवि किमर्थं तप्यते तपः ।

इच्छसि त्वं सुरं कं च किं फलं तद्वदाधुना ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 22

ब्रह्मोवाच ।

इत्युक्ता सा शिवा देवी गिरीन्द्रतनया द्विजैः ।

प्रत्युवाच वचः सत्यं सुगूढमपि तत्पुरः ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 23

पार्वत्युवाच ।

मुनीश्वराःसंश‍ृणुत मद्वाक्यं प्रीतितो हृदा ।

ब्रवीमि स्वविचारं वै चिन्तितो यो धिया स्वया ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 24

करिष्यथ प्रहासं मे श्रुत्वा वाचो ह्यसम्भवाः ।

सङ्कोचो वर्णनाद्विप्रा भवत्येव करोमि किम् ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 25

इदं मनो हि सुदृढमवशं परकर्मकृत् ।

जलोपरि महाभित्तिं चिकीर्षति महोन्नताम् ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 26

सुरर्षेः शासनं प्राप्य करोमि सुदृढं तपः ।

रुद्रः पतिर्भवेन्मे हि विधायेति मनोरथम् ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 19: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं, Verse 27

अपक्षो मन्मनः पक्षी व्योम्नि उड्डीयते हठात् ।

तदाशां शङ्करः स्वामी पिपर्त्तु करुणानिधिः ॥ २७॥