२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 18: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीविवाहस्वीकारो, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 81 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
स्तुत्याय भूरिभासाय त्रिनेत्राय नमो नमः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
शिपिविष्टाय भीमाय भीमाक्षाय नमोनमः ।
महादेवाय प्रभवे त्रिविष्टपतये नमः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
त्वं नाथः सर्वलोकानां पिता माता त्वमीश्वरः ।
शम्भुरीशः शङ्करोऽसि दयालुस्त्वं विशेषतः ॥ ३॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.२४. चतुर्विंशोऽध्यायः ।
शिवकृता पार्वतीविवाहस्वीकृतिः ।
देवा ऊचुः ।
नमो रुद्राय देवाय मदनान्तकराय च ॥
त्वं धाता सर्वजगतां त्रातुमर्हसि नः प्रभो ।
त्वां विना कः समर्थोऽस्ति दुःखनाशे महेश्वर ॥ ४॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तेषां सुराणां नन्दिकेश्वरः ।
कृपया परया युक्तो विज्ञप्तुं शम्भुमारभत् ॥ ५॥
नन्दिकेश्वर उवाच ।
विष्ण्वादयः सुरगणा मुनिसिद्धसङ्घा- स्त्वां द्रष्टुमेव सुरवर्य विशेषयन्ति ।
कार्यार्थिनोऽसुरवरैः परिभर्त्स्यमानाः सम्यक् पराभवपदं परमं प्रपन्नाः ॥ ६॥
तस्मात्त्वया हि सर्वेश त्रातव्या मुनयः सुराः ।
दीनबन्धुर्विशेषेण त्वमुक्तो भक्तवत्सलः ॥ ७॥
ब्रह्मोवाच ।
एवं दयावता शम्भुर्विज्ञप्तो नन्दिना भृशम् ।
शनैः शनैरुपरमद्ध्यानादुन्मील्य चाक्षिणी ॥ ८॥
ईशोऽथोपरतः शम्भुस्तदा परमकोविदः ।
समाधेः परमात्मासौ सुरान्सर्वानुवाच ह ॥ ९॥
शम्भुरुवाच ।
कस्माद्यूयं समायाता मत्समीपं सुरेश्वराः ।
हरिब्रह्मादयः सर्वे ब्रूत कारणमाशु तत् ॥ १०॥
ब्रह्मोवाच ।
इति श्रुत्वा वचः शम्भोः सर्वे देवा मुदान्विताः ।
विष्णोर्विलोकयामासुर्मुखं विज्ञप्तिहेतवे ॥ ११॥
अथ विष्णुर्महाभक्तो देवानां हितकारकः ।
मदीरितमुवाचेदं सुरकार्यं महत्तमम् ॥ १२॥
तारकेण कृतं शम्भो देवानां परमाद्भुतम् ।
कष्टात्कष्टतरं देवा विज्ञप्तुं सर्व आगताः ॥ १३॥
हे शम्भो तव पुत्रेणौरसेन हि भविष्यति ।
निहतस्तारको दैत्यो नान्यथा मम भाषितम् ॥ १४॥
विचार्येत्थं महादेव कृपां कुरु नमोऽस्तु ते ।
देवान्समुद्धर स्वामिन् कष्टात्तारकनिर्मितात् ॥ १५॥
तस्मात्त्वया गिरिजा देव शम्भो ग्रहीतव्या पाणिना दक्षिणेन ।
पाणिग्रहेणैव महानुभावां दत्तां गिरीन्द्रेण च तां कुरुष्व ॥ १६॥
विष्णोस्तद्वचनं श्रुत्वा प्रसन्नो ह्यब्रवीच्छिवः ।
दर्शयन् सद्गतिं तेषां सर्वेषां योगतत्परः ॥ १७॥
शिव उवाच ।
यदा मे स्वीकृता देवी गिरिजा सर्वसुन्दरी ।
तदा सर्वे सुरेन्द्राश्च मुनयो ऋषयस्तदा ॥ १८॥
सकामाश्च भविष्यन्ति न क्षमाश्च परे पथि ।
जीवयिष्यति दुर्गा सा पाणिग्रहणतः स्मरम् ॥ १९॥
मदनो हि मया दग्धः सर्वेषां कार्यसिद्धये ।
ब्रह्मणो वचनाद्विष्णो नात्र कार्या विचारणा ॥ २०॥
एवं विमृश्य मनसा कार्याकार्यव्यवस्थितौ ।
सुधीः सर्वैश्च देवेन्द्र हठं नो कर्तुमर्हसि ॥ २१॥
दग्धे कामे मया विष्णो सुरकार्यं महत् कृतम् ।
सर्वे तिष्ठन्तु निष्कामा मया सह सुनिश्चितम् ॥ २२॥
यथाहं च सुराः सर्वे तथा यूयमयत्नतः ।
तपः परमसंयुक्ताः करिष्यध्वं सुदुष्करम् ॥ २३॥
यूयं समाधिना तेन मदनेन विना सुराः ।
परमानन्दसंयुक्ता निर्विकारा भवन्तु वै ॥ २४॥
पुरावृत्तं स्मरकृतं विस्मृतं यद् विधे हरे ।
महेन्द्र मुनयो देवा यत्तत्सर्वं विमृश्यताम् ॥ २५॥
महाधनुर्धरेणैव मदनेन हठात्सुराः ।
सर्वेषां ध्यानविध्वंसः कृतस्तेन पुरामराः ॥ २६॥