Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं

Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.२३. त्रयोविंशोऽध्यायः ।

शिवेन पार्वतीसान्त्वनम् ।

ब्रह्मोवाच ।

एवं तपत्यां पार्वत्यां शिवप्राप्तौ मुनीश्वर ।

चिरकालो व्यतीयाय प्रादुर्भूतो हरो न हि ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 2

हिमालयस्तदागत्य पार्वतीं कृतनिश्चयाम् ।

सभार्यः ससुतामात्य उवाच परमेश्वरीम् ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 3

हिमालय उवाच ।

मा खिद्यतां महाभागे तपसानेन पार्वती ।

रुद्रो न दृश्यते बाले विरक्तो नात्र संशयः ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 4

त्वं तन्वी सुकुमाराङ्गी तपसा च विमोहिता ।

भविष्यसि न सन्देहः सत्यं सत्यं वदामि ते ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 5

तस्मादुत्तिष्ठ चैहि त्वं स्वगृहं वरवर्णिनि ।

किं तेन तव रुद्रेण येन दग्धः पुरा स्मरः ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 6

अतो हि निर्विकारत्वात्त्वामादातुं वरां हरः ।

नागमिष्यति देवेशि तं कथं प्रार्थयिष्यसि ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 7

गगनस्थो यथा चन्द्रो ग्रहीतुं न हि शक्यते ।

तथैव दुर्गमं शम्भुं जानीहि त्वमिहानघे ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 8

ब्रह्मोवाच ।

तथैव मेनया चोक्ता तथा सह्याद्रिणा सती ।

मेरुणा मन्दरेणैव मैनाकेन तथैव सा ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 9

एवमन्यैः क्षितिध्रैश्च क्रौञ्चादिभिरनातुरा ।

तथैव गिरिजा प्रोक्ता नानावादविधायिभिः ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 10

एवं प्रोक्ता यदा तन्वी सा सर्वैः तपसि स्थिता ।

उवाच प्रहसन्त्येव हिमवन्तं शुचिस्मिता ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 11

पार्वत्युवाच ।

पुरा प्रोक्तं मया तात मातः किं विस्मृतं त्वया ।

अधुनापि प्रतिज्ञां च श‍ृणुध्वं मम बान्धवाः ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 12

विरक्तोऽसौ महादेवो येन दग्धो रुषा स्मरः ।

तं तोषयामि तपसा शङ्करं भक्तवत्सलम् ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 13

सर्वे भवन्तो गच्छन्तु स्वं स्वं धाम प्रहर्षिताः ।

भविष्यत्येव तुष्टोऽसौ नात्र कार्या विचारणा ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 14

दग्धो हि मदनो येन येन दग्धं गिरेर्वनम् ।

तमानयिष्ये चात्रैव तपसा केवलेन हि ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 15

तपोबलेन महता सुसेव्यो हि सदाशिवः ।

जानीध्वं हि महाभागाः सत्यं सत्यं वदामि वः ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 16

आभाष्य चैवं गिरिजा च मेनकां मैनाकबन्धुं पितरं हिमालयम् ।

तूष्णीं बभूवाशु सुभाषिणी शिवा समन्दरं पर्वतराजबालिका ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 17

जग्मुस्तथोक्ताः शिवया हि पर्वता यथागतेनापि विचक्षणास्ते ।

प्रशंसमाना गिरिजां मुहुर्मुहुः सुविस्मिता हेमनगेश्वराद्याः ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 18

गतेषु तेषु सूर्वेषु सखीभिः परिवारिता ।

तपस्तेपे तदधिकं परमार्थसुनिश्चया ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 19

तपसा महता तेन तप्तमासीच्चराचरम् ।

त्रैलोक्यं हि मुनिश्रेष्ठ सदेवासुरमानुषम् ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 20

तदा सुरासुराः सर्वे यक्षकिन्नरचारणाः ।

सिद्धाःसाध्याश्च मुनयो विद्याधरमहोरगाः ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 21

सप्रजापतयश्चैव गुह्यकाश्च तथापरे ।

कष्टात् कष्टतरं प्राप्ताः कारणं न विदुः स्म तत् ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 22

सर्वे मिलित्वा शक्राद्या गुरुमामन्त्र्य विह्वलाः ।

सुमेरौ तप्तसर्वाङ्गा विधिं मां शरणं ययुः ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 23

तत्र गत्वा प्रणम्याशु विह्वला नष्टसुत्विषः ।

ऊचुःसर्वे च संस्तूय ह्यैकपद्येन मां हि ते ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 24

देवा ऊचुः ।

त्वया सृष्टमिदं सर्वं जगदेतच्चराचरम् ।

सन्तप्तमति कस्माद्वै न ज्ञातं कारणं विभो ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 25

तद् ब्रूहि कारणं ब्रह्मन् ज्ञातुमर्हसि नः प्रभो ।

दग्धीभूततनून्देवान् त्वत्तो नान्योऽस्ति रक्षकः ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 26

ब्रह्मोवाच ।

इत्याकर्ण्य वचस्तेषामहं स्मृत्वा शिवं हृदा ।

विचार्य मनसा सर्वं गिरिजायास्तपः फलम् ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 17: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं, Verse 27

दग्धं विश्वमिति ज्ञात्वा तैः सर्वैरिह सादरात् ।

हरये तत्कथयितुं क्षीराब्धिमगमं द्रुतम् ॥ २७॥