Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं

Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.१७. सप्तदशोऽध्यायः ।

इन्द्रकामदेवसंवादः ।

ब्रह्मोवाच ।

गतेषु तेषु देवेषु शक्रः सस्मार वै स्मरम् ।

पीडितस्तारकेनाति दैत्येन च दुरात्मना ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 2

आगतस्तत्क्षणात्कामः सवसन्तो रतिप्रियः ।

सावलेपो युतो रत्या त्रैलोक्यविजयी प्रभुः ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 3

प्रणामं च ततः कृत्वा स्थित्वा तत्पुरतः स्मरः ।

महोन्नतमनास्तात साञ्जलिः शक्रमब्रवीत् ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 4

काम उवाच ।

किं कार्यं ते समुत्पन्नं स्मृतोऽहं केन हेतुना ।

तत् त्वं कथय देवेश तत्कर्तुं समुपागतः ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 5

ब्रह्मोवाच ।

तच्छ्रुत्वा वचनं तस्य कन्दर्पस्य सुरेश्वरः ।

उवाच वचनं प्रीत्या युक्तं युक्तमिति स्तुवन् ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 6

शक्र उवाच ।

तव साधु समारम्भो यन्मे कार्यमुपस्थितम् ।

तत्कतुर्मुद्यतोऽसि त्वं धन्योऽसि मकरध्वज ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 7

प्रस्तुतं श‍ृणु मद्वाक्यं कथयामि तवाग्रतः ।

मदीयं चैव यत्कार्यं त्वदीयं तन्न चान्यथा ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 8

मित्राणि मम सन्त्येव बहूनि सुमहान्ति च ।

परं तु स्मर सन्मित्रं त्वत्तुल्यं न हि कुत्रचित् ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 9

जयार्थं मे द्वयं तात निर्मितं वज्रमुत्तमम् ।

वज्रं च निष्फलं स्याद्वै त्वं तु नैव कदाचन ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 10

यतो हितं प्रजायेत ततः को नु प्रियः परः ।

तस्मान्मित्रवरस्त्वं हि मत्कार्यं कर्तुमर्हसि ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 11

मम दुःखं समुत्पन्नमसाध्यं चापि कालजम् ।

केनापि नैव तच्छक्यं दूरीकर्तुं त्वया विना ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 12

दातुः परीक्षा दुर्भिक्षे रणे शूरस्य जायते ।

आपत्काले तु मित्रस्याशक्तौ स्त्रीणां कुलस्य हि ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 13

विनये सङ्कटे प्राप्तेऽवितथस्य परोक्षतः ।

सुस्नेहस्य तथा तात नान्यथा सत्यमीरितम् ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 14

प्राप्तायां वै ममापत्ताववार्यायां परेण हि ।

परीक्षा च त्वदीयाद्या मित्रवर्य भविष्यति ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 15

न केवलं मदीयं च कार्यमस्ति सुखावहम् ।

किं तु सर्वसुरादीनां कार्यमेतन्न संशयः ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 16

ब्रह्मोवाच ।

इत्येतन्मघवद्वाक्यं श्रुत्वा तु मकरध्वजाः ।

उवाच प्रेमगम्भीरं वाक्यं सुस्मितपूर्वकम् ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 17

काम उवाच ।

किमर्थमित्थं वदसि नोत्तरं वच्म्यहं तव ।

उपकृत्कृत्रिमं लोके दृश्यते कथ्यते न च ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 18

सङ्कटे बहु यो ब्रूते स किं कार्यं करिष्यति ।

तथापि च महाराज कथयामि श‍ृणु प्रभो ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 19

पदं ते कर्षितुं यो वै तपस्तपति दारुणम् ।

पातयिष्याम्यहं तं च शत्रुं ते मित्र सर्वथा ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 20

क्षणेन भ्रंशयिष्यामि कटाक्षेण वरस्त्रियाः ।

देवर्षिदानवादींश्च नराणां गणना न मे ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 21

वज्रं तिष्ठतु दूरे वै शस्त्राण्यन्यान्यनेकशः ।

किं ते कार्यं करिष्यन्ति मयि मित्र उपस्थिते ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 22

ब्रह्माणं वा हरिं वापि भ्रष्टं कुर्यां न संशयः ।

अन्येषां गणना नास्ति पातयेयं हरं त्वपि ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 23

पञ्चैव मृदवो बाणास्ते च पुष्पमया मम ।

चापस्त्रिधा पुष्पमयश्शिञ्जिनी भ्रमरार्जिता ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 24

बलं सुदयिता मे हि वसन्तः सचिवः स्मृतः ।

अहं पञ्चबलो देव मित्रं मम सुधानिधिः । २४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 25

सेनाधिपश्च श‍ृङ्गारो हावभावाश्च सैनिकाः ।

सर्वे मे मृदवः शक्र अहं चापि तथाविधः ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 26

यद्येन पूर्यते कार्यं धीमांस्तत्तेन योजयेत् ।

मम योग्यं तु यत्कार्यं सर्वं तन्मे नियोजय ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 14: रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं, Verse 27

ब्रह्मोवाच ।

इत्येवं तु वचस्तस्य श्रुत्वा शक्रः सुहर्षितः ।

उवाच प्रणमन्वाचा कामं कान्तासुखावहम् ॥ २७॥