२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 13: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवसान्त्वनवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.१६. षोडशोऽध्यायः ।
तारकासुरभीतानां देवानां कृते शिवेन सान्त्वनादानम् ।
ब्रह्मोवाच ।
अथ ते निर्जराः सर्वे सुप्रणम्य प्रजेश्वरम् ।
तुष्टुवुः परया भक्त्या तारकेण प्रपीडिताः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
अहं श्रुत्वामरनुतिं यथार्थां हृदयङ्गमाम् ।
सुप्रसन्नतरो भूत्वा प्रत्यवोचं दिवौकसः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
स्वागतं स्वाधिकारा वै निर्विघ्नाः सन्ति वः सुराः ।
किमर्थमागता यूयमत्र सर्वे वदन्तु मे ॥ ३॥
इति श्रुत्वा वचो मे ते नत्वा सर्वे दिवौकसः ।
मामूचुर्नतका दीनास्तारकेण प्रपीडिताः ॥ ४॥
देवा ऊचुः ।
लोकेश तारको दैत्यो वरेण तव दर्पितः ।
निरस्यास्मान्हठात्स्थानान्यग्रहीन्नो बलात् स्वयम् ॥ ५॥
भवतः किमु न ज्ञातं दुःखं यन्नः उपस्थितम् ।
तद्दुःखं नाशय क्षिप्रं वयं ते शरणं गताः ॥ ६॥
अहर्निशं बाधतेऽस्मान् यत्र तत्रास्थितान्स वै ।
पलायमानाः पश्यामो यत्र तत्रापि तारकम् ॥ ७॥
तारकान्नश्च यद्दुःखं सम्भूतं सकलेश्वर ।
तेन सर्वे वयं तात पीडिता विकला अति ॥ ८॥
अग्निर्यमोऽथ वरुणो निरृतिर्वायुरेव च ।
अन्ये दिक्पतयश्चापि सर्वे यद्वशगामिनः ॥ ९॥
सर्वे मनुष्यधर्माणःसर्वैः परिकरैर्युताः ।
सेवन्ते तं महादैत्यं न स्वतन्त्राः कदाचन ॥ १०॥
एवं तेनार्दिता देवा वशगास्तस्य सर्वदा ।
तदिच्छाकार्यनिरताः सर्वे तस्यानुजीविनः ॥ ११॥
यावत्यो वनिताः सर्वा ये चाप्यप्सरसां गणाः ।
सर्वांस्तानग्रहीद्दैत्यस्तारकोऽसौ महाबली ॥ १२॥
न यज्ञाःसम्प्रवर्तन्ते न तपस्यन्ति तापसाः ।
दानधर्मादिकं किञ्चिन्न लोकेषु प्रवर्त्तते ॥ १३॥
तस्य सेनापतिः क्रौञ्चो महापाप्यस्ति दानवः ।
स पातालतलं गत्वा बाधते त्वनिशं प्रजाः ॥ १४॥
तेन नस्तारकेणेदं सकलं भुवनत्रयम् ।
हृतं हठाज्जगद्धातः पापेनाकरुणात्मना ॥ १५॥
वयं च तत्र यास्यामो यत्स्थानं त्वं विनिर्दिशेः ।
स्वस्थास्तद्वारितास्तेन लोकनाथ सुरारिणा ॥ १६॥
त्वं नो गतिश्च शास्ता च धाता त्राता त्वमेव हि ।
वयं सर्वे तारकाख्यवह्नौ दग्धाः सुविह्वलाः ॥ १७॥
तेन क्रूरा उपाय नः सर्वे हतबलाः कृताः ।
विकारे सान्निपाते वा वीर्यवन्त्यौषधानि च ॥ १८॥
यत्रास्माकं जयाशा हि हरिचक्रे सुदर्शने ।
तत्कुण्ठितमभूत्तस्य कण्ठे पुष्पमिवार्पितम् ॥ १९॥
ब्रह्मोवाच इत्येतद्वचनं श्रुत्वा निर्जराणामहं मुने ।
प्रत्यवोचं सुरान्सर्वांस्तत्कालसदृशं वचः ॥ २०॥
ब्रह्मोवाच ममैव वचसा दैत्यस्तारकाख्यः समेधितः ।
न मत्तस्तस्य हननं युज्यते हि दिवौकसः ॥ २१॥
ततो नैव वधो योग्यो यतो वृद्धिमुपागतः ।
विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ २२॥
युष्माकं चाखिलं कार्यं कर्तुं योग्यो हि शङ्करः ।
किन्तु स्वयं न शक्तो हि प्रतिकर्तुं प्रचोदितः ॥ २३॥
तारकाख्यस्तु पापेन स्वयमेष्यति सङ्क्षयम् ।
यथा यूयं संविदध्वमुपदेशकरस्त्वहम् ॥ २४॥
न मया तारको वध्यो हरिणापि हरेण च ।
नान्येनापि सुरैर्वापि मद्वरात्सत्यमुच्यते ॥ २५॥
शिववीर्यसमुत्पन्नो यदि स्यात्तनयः सुराः ।
स एव तारकाख्यस्य हन्ता दैत्यस्य नापरः ॥ २६॥
यमुपायमहं वच्मि तं कुरुध्वं सुरोत्तमाः ।
महादेवप्रसादेन सिद्धिमेष्यति स ध्रुवम् ॥ २७॥