२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 12: रुद्रसंहितायां तृतीये पार्वतीखण्डे तारकासुरतपोराज्यवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.१५. पञ्चदशोऽध्यायः ।
तारकासुरतपोराज्यम् ।
ब्रह्मोवाच ।
अथ सा गर्भमाधत्त वराङ्गी तत्पुरादरात् ।
स ववर्धाभ्यन्तरे हि बहुवर्षैः सुतेजसा ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
ततः सा समये पूर्णे वराङ्गी सुषुवे सुतम् ।
महाकायं महावीर्यं प्रज्वलन्तं दिशो दश ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
तदैव च महोत्पाता बभूवुर्दुःखहेतवः ।
जायमाने सुते तस्मिन्वराङ्ग्याः सुरदुःखदे ॥ ३॥
दिवि भुव्यन्तरिक्षे च सर्वलोकभयङ्कराः ।
अनर्थसूचकास्तात त्रिविधाः तान्ब्रवीम्यहम् ॥ ४॥
सोल्काश्चाशनयः पेतुर्महाशब्दा भयङ्कराः ।
उदयं चक्रुरुत्कृष्टाः केतवो दुःखदायकाः ॥ ५॥
चचाल वसुधा साद्रिर्जज्वलुः सकला दिशः ।
चुक्षुभुः सरितः सर्वाः सागराश्च विशेषतः ॥ ६॥
हूत्कारानीरयन् घोरान्खरस्पर्शो मरुद्ववौ ।
उन्मूलयन्महावृक्षान्वात्यानीको रजोध्वजः ॥ ७॥
सराह्वोःसूर्यविध्वोस्तु मुहुः परिधयोऽभवन् ।
महाभयस्य विप्रेन्द्र सूचकाःसुखहारकाः ॥ ८॥
महीध्रविवरेभ्यश्च निर्घाता भयसूचकाः ।
रथनिर्ह्रादतुल्याश्च जज्ञिरेऽवसरे ततः ॥ ९॥
सृगालोलूकटङ्कारैर्वमन्त्यो मुखतोऽनलम् ।
अन्तर्ग्रामेषु विकटं प्रणेदुरशिवाः शिवाः ॥ १०॥
यतस्ततो ग्रामसिंहा उन्नमय्य शिरोधराम् ।
सङ्गीतवद्रोदनवद्व्यमुञ्चन्विविधान्रवान् ॥ ११॥
खार्काररभसा मत्ताः खुरैर्घ्नन्तो रसां खराः ।
वरूथशः तदा तात पर्यधावन्नितस्ततः ॥ १२॥
खगा उदपतन्नीडाद्रासभत्रस्तमानसाः ।
क्रोशन्तो व्यग्रचित्ताश्च स्थितिमापुर्न कुत्रचित् ॥ १३॥
शकृन्मूत्रमकार्षुश्च गोष्ठेऽरण्ये भयाकुलाः ।
बभ्रमुः स्थितिमापुर्नो पशवस्ताडिता इव ॥ १४॥
गावोऽत्रसन्नसृग्दोहा बाष्पनेत्रा भयाकुलाः ।
तोयदा अभवंस्तत्र भयदाः पूयवर्षिणः ॥ १५॥
व्यरुदन्प्रतिमास्तत्र देवानामुत्पतिष्णवः ।
विनानिलं द्रुमाः पेतुर्ग्रहयुद्धं बभूव खे ॥ १६॥
इत्यादिका बहूत्पाता जज्ञिरे मुनिसत्तम ।
अज्ञानिनो जनास्तत्र मेनिरे विश्वसम्प्लवम् ॥ १७॥
अथ प्रजापतिर्नामाकरोत्तस्यासुरस्य वै ।
तारकेति विचार्यैव कश्यपो हि महौजसः ॥ १८॥
महावीरः स सहसा व्यज्यमानात्मपौरुषः ।
ववृधेऽत्यश्मसारेण कायेनाद्रिपतिर्यथा ॥ १९॥
अथो स तारको दैत्यो महाबलपराक्रमः ।
तपः कर्तुं जनन्याश्चाज्ञां ययाचे महामनाः ॥ २०॥
प्राप्ताज्ञः स महामायी मायिनामपि मोहकः ।
सर्वदेवजयं कर्तुं तपोऽर्थं मन आदधे ॥ २१॥
मधोर्वनमुपागम्य गुर्वाज्ञाप्रतिपालकः ।
विधिमुद्दिश्य विधिवत्तपस्तेपे सुदारुणम् ॥ २२॥
ऊर्ध्वबाहुश्चैकपादो रविं पश्यन्स चक्षुषा ।
शतवर्षं तपश्चक्रे दृढचित्तो दृढव्रतः ॥ २३॥
अङ्गुष्ठेन भुवं स्पृष्ट्वा शतवर्षं च तादृशः ।
तेपे तपो दृढात्मा स तारकोऽसुरराट् प्रभुः ॥ २४॥
शतवर्षं जलं प्राश्नन् शतवर्षं च वायुभुक् ।
शतवर्षं जले तिष्ठञ्च्छतं च स्थण्डिलेऽतपत् ॥ २५॥
शतवर्षं तथा चाग्नौ शतवर्षमधोमुखः ।
शतवर्षं तु हस्तस्य तलेन च भुवं स्थितः ॥ २६॥
शतवर्षं तु वृक्षस्य शाखामालम्ब्य वै मुने ।
पादाभ्यां शुचिधूमं हि पिबंश्चाधोमुखस्तथा ॥ २७॥