२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 11: रुद्रसंहितायां तृतीये पार्वतीखण्डे तारकोत्पत्तौ वज्राङ्गोत्पत्तितपोवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.१४. चतुर्दशोऽध्यायः ।
तारकवज्राङ्गयोरुपत्तिस्तत्तपोवर्णनञ्च ।
नारद उवाच ।
विष्णुशिष्य महाशैव सम्यगुक्तं त्वया विधे ।
चरितं परमं ह्येतच्छिवायाश्च शिवस्य च ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
कस्तारकासुरो ब्रह्मन्येन देवाः प्रपीडिताः ।
कस्य पुत्रस्य वै ब्रूहि तत्कथां च शिवाश्रयाम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
भस्मीचकार स कथं शङ्करश्च स्मरं वशी ।
तदपि ब्रूहि सुप्रीत्याऽद्भुतं तच्चरितं विभोः ॥ ३॥
कथं शिवा तपोऽत्युग्रं चकार सुखहेतवे ।
कथं प्राप पतिं शम्भुमादिशक्तिर्जगत्परा ॥ ४॥
एतत्सर्वमशेषेण विशेषेण महाबुध ।
ब्रूहि मे श्रद्दधानाय स्वपुत्राय शिवात्मने ॥ ५॥
ब्रह्मोवाच पुत्रवर्य महाप्राज्ञ सुरर्षे शंसितव्रत ।
वच्म्यहं शङ्करं स्मृत्वा सर्वं तच्चरितं शृणु ॥ ६॥
प्रथमं तारकस्यैव भवं संशृणु नारद ।
यद्वधार्थं महायत्नः कृतो देवैः शिवाश्रयैः ॥ ७॥
मम पुत्रो मरीचिर्यः कश्यपस्तस्य चात्मजः ।
त्रयोदशमितास्तस्य स्त्रियो दक्षसुताश्च याः ॥ ८॥
दितिर्ज्येष्ठा च तत्स्त्री हि सुषुवे सा सुतद्वयम् ।
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः ॥ ९॥
तौ हतौ विष्णुना दैत्यौ नृसिंहक्रोडरूपतः ।
सुदुःखदौ ततो देवाः सुखमापुश्च निर्भयाः ॥ १०॥
दितिश्च दुःखितासीत्सा कश्यपं शरणं गता ।
पुनःसंसेव्य तं भक्त्या गर्भमाधत्त सुव्रता ॥ ११॥
तद्विज्ञाय महेन्द्रोऽपि लब्धच्छिद्रो महोद्यमी ।
तद्गर्भं व्यच्छिनत्तत्र प्रविश्य पविना मुहुः ॥ १२॥
तद्व्रतस्य प्रभावेण न तद्गर्भो ममार ह ।
स्वपन्त्या दैवयोगेन सप्त सप्ताभवन्सुताः ॥ १३॥
देवा आसन्सुतास्ते च नामतो मरुतोऽखिलाः ।
स्वर्गं ययुस्तदेन्द्रेण देवराजात्मसात्कृताः ॥ १४॥
पुनर्दितिः पतिं भेजेऽनुतप्ता निजकर्मतः ।
चकार सुप्रसन्नं तं मुनिं परमसेवया ॥ १५॥
कश्यप उवाच तपः कुरु शुचिर्भूत्वा ब्रह्मणश्चायुतं समाः ।
चेद्भविष्यति तत्पूर्वं भविता ते सुतस्तदा ॥ १६॥
तथा दित्या कृतं पूर्णं तत्तपः श्रद्धया मुने ।
ततः पत्युः प्राप्य गर्भं सुषुवे तादृशं सुतम् ॥ १७॥
वज्राङ्गनामा सोऽभूद्वै दितिपुत्रोऽमरोपमः ।
नामतुल्यतनुर्वीरः सुप्रताप्युद्भवाद्बली ॥ १८॥
जननीशासनात्सद्यः स सुतो निर्जराधिपम् ।
बलाद्धृत्वा ददौ दण्डं विविधं निर्जरानपि ॥ १९॥
दितिः सुखमतीवाप दृष्ट्वा शक्रादिदुर्दशाम् ।
अमरा अपि शक्राद्या जग्मुर्दुःखं स्वकर्मतः ॥ २०॥
तदाहं कश्यपेनाशु तत्रागत्य सुसामगीः ।
देवानत्याजयंस्तस्मात्सदा देवहिते रतः ॥ २१॥
देवान्मुक्त्वा स वज्राङ्गस्ततः प्रोवाच सादरम् ।
शिवभक्तोऽतिशुद्धात्मा निर्विकारः प्रसन्नधीः ॥ २२॥
वज्राङ्ग उवाच इन्द्रो दुष्टः प्रजाघाती मातुर्मे स्वार्थसाधकः ।
स फलं प्राप्तवानद्य स्वराज्यं हि करोतु सः ॥ २३॥
मातुराज्ञावशाद्ब्रह्मन्कृतमेतन्मयाखिलम् ।
न मे भोगाभिलाषो वै कस्यचिद्भुवनस्य हि ॥ २४॥
तत्त्वसारं विधे ब्रूहि मह्यं वेदविदांवर ।
येन स्यां सुसुखी नित्यं निर्विकारः प्रसन्नधीः ॥ २५॥
तच्छ्रुत्वाहं मुनेऽवोचं सात्त्विको भाव उच्यते ।
तत्त्वसार इति प्रीत्या सृजाम्येकां वरां स्त्रियम् ॥ २६॥
वराङ्गीं नाम तां दत्त्वा तस्मै दितिसुताय वै ।
अयां स्वधाम सुप्रीतः कश्यपस्तत्पितापि च ॥ २७॥