Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं

Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.१३. त्रयोदशोऽध्यायः ।

शिवपार्वतीसंवादः ।

भवान्युवाच ।

किमुक्तं गिरिराजाय त्वया योगिंस्तपस्विना ।

तदुत्तरं श‍ृणु विभो मत्तो ज्ञानिविशारद ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 2

तपःशक्त्यान्वितः शम्भो करोषि विपुलं तपः ।

तव बुद्धिरियं जाता तपस्तप्तुं महात्मनः ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 3

सा शक्तिः प्रकृतिर्ज्ञेया सर्वेषामपि कर्मणाम् ।

तया विरच्यते सर्वं पाल्यते च विनाश्यते ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 4

कस्त्वं का प्रकृतिःसूक्ष्मा भगवंस्तद्विमृश्यताम् ।

विना प्रकृत्या च कथं लिङ्गरूपी महेश्वरः ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 5

अर्चनीयोऽसि वन्द्योऽसि ध्येयोऽसि प्राणिनां सदा ।

प्रकृत्या च विचार्येति हृदा सर्वं तदुच्यताम् ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 6

ब्रह्मोवाच ।

पार्वत्यास्तद्वचः श्रुत्वा महोतिकरणे रतः ।

सुविहस्य प्रसन्नात्मा महेशो वाक्यमब्रवीत् ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 7

महेश्वर उवाच ।

तपसा परमेणैव प्रकृतिं नाशयाम्यहम् ।

प्रकृत्या रहितः शम्भुरहं तिष्ठामि तत्त्वतः ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 8

तस्माच्च प्रकृतेः सद्भिर्न कार्यः सङ्ग्रहः क्वचित् ।

स्थातव्यं निर्विकारैश्च लोकाचारविवर्जितैः ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 9

ब्रह्मोवाच ।

इत्युक्ता शम्भुना तात लौकिकव्यवहारतः ।

सुविहस्य हृदा काली जगाद मधुरं वचः ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 10

काल्युवाच ।

यदुक्तं भवता योगिन्वचनं शङ्कर प्रभो ।

सा च किं प्रकृतिर्न स्यादतीतस्तां भवान्कथम् ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 11

एतद्विचार्य वक्तव्यं तत्त्वतो हि यथातथम् ।

प्रकृत्या सर्वमेतच्च बद्धमस्ति निरन्तरम् ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 12

तस्मात्त्वया न वक्तव्यं न कार्यं किञ्चिदेव हि ।

वचनं रचनं सर्वं प्राकृतं विद्धि चेतसा ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 13

यच्छृणोषि यदश्नासि यत्पश्यसि करोषि यत् ।

तत्सर्वं प्रकृतेः कार्यं मिथ्यावादो निरर्थकः ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 14

प्रकृतेः परमश्चेत्त्वं किमर्थं तप्यसे तपः ।

त्वया शम्भोऽधुना ह्यस्मिन्गिरौ हिमवति प्रभो ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 15

प्रकृत्या गिलितोऽसि त्वं न जानासि निजं हर ।

निजं जानासि चेदीश किमर्थं तप्यसे तपः ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 16

वाग्वादेन च किं कार्यं मम योगिंस्त्वया सह ।

प्रत्यक्षे ह्यनुमानस्य न प्रमाणं विदुर्बुधाः ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 17

इन्द्रियाणां गोचरत्वं यावद्भवति देहिनाम् ।

तावत्सर्वं विमन्तव्यं प्राकृतं ज्ञानिभिर्धिया ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 18

किं बहूक्तेन योगीश श‍ृणु मद्वचनं परम् ।

सा चाहं पुरुषोऽसि त्वं सत्यं सत्यं न संशयः ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 19

मदनुग्रहतस्त्वं हि सगुणो रूपवान्मतः ।

मां विना त्वं निरीहोऽसि न किञ्चित्कर्तुमर्हसि ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 20

पराधीनःसदा त्वं हि नानाकर्मकरो वशी ।

निर्विकारी कथं त्वं हि न लिप्तश्च मया कथम् ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 21

प्रकृतेः परमोऽसि त्वं यदि सत्यं वचस्तव ।

तर्हि त्वया न भेतव्यं समीपे मम शङ्कर ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 22

ब्रह्मोवाच ।

इत्याकर्ण्य वचस्तस्याः साङ्ख्यशास्त्रोदितं शिवः ।

वेदान्तमतसंस्थो हि वाक्यमूचे शिवां प्रति ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 23

श्रीशिव उवाच ।

इत्येवं त्वं यदि ब्रूषे गिरिजे साङ्ख्यधारिणी ।

प्रत्यहं कुरु मे सेवामनिषिद्धां सुभाषिणि ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 24

यद्यहं ब्रह्म निर्लिप्तो मायया परमेश्वरः ।

वेदान्तवेद्यो मायेशस्त्वं करिष्यसि किं तदा ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 25

ब्रह्मोवाच ।

इत्येवमुक्त्वा गिरिजां वाक्यमूचे गिरिं प्रभुः ।

भक्तानुरञ्जनकरो भक्तानुग्रहकारकः ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 26

श्रीशिव उवाच ।

अत्रैव सोऽहं तपसा परेण गिरे तव प्रस्थवरेऽतिरम्ये ।

चरामि भूमौ परमार्थभाव- स्वरूपमानन्दमयं सुलोचयन् ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 10: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं, Verse 27

तपस्तप्तुमनुज्ञा मे दातव्या पर्वताधिप ।

अनुज्ञया विना किञ्चित्तपः कर्तुं न शक्यते ॥ २७॥