२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 9: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवहिमाचलसंवादवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 86 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.११. एकादशोऽध्यायः ।
शिवहिमवत्समागमः ।
ब्रह्मोवाच ।
वर्धमाना गिरेः पुत्री सा शक्तिर्लोकपूजिता ।
अष्टवर्षा यदा जाता हिमालयगृहे सती ॥ १॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.१२. द्वादशोऽध्यायः ।
शिवहिमवत्संवादः ।
ब्रह्मोवाच ।
अथ शैलपतिर्हृष्टः सत्पुष्पफलसञ्चयम् ।
समादाय स्वतनयासहितोऽगाद्धरान्तिकम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
तज्जन्म गिरिशो ज्ञात्वा सतीविरहकातरः ।
कृत्वा तमद्भुतामन्तर्मुमोदातीव नारद ॥ २॥
स गत्वा त्रिजगन्नाथं प्रणम्य ध्यानतत्परम् ।
अर्पयामास तनयां कालीं तस्मै हृदाद्भुताम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
तस्मिन्नेवान्तरे शम्भुर्लौकिकीं गतिमाश्रितः ।
समाधातुं मनःसम्यक्तपः कर्तुं समैच्छत ॥ ३॥
फलपुष्पादिकं सर्वं तत्तदग्रे निधाय सः ।
अग्रे कृत्वा सुतां शम्भुमिदमाह च शैलराट् ॥ ३॥
कांश्चिद्गणवरान् शान्तान् नन्द्यादीनवगृह्य च ।
गङ्गावतारमगमद्धिमवत्प्रस्थमुत्तमम् ॥ ४॥
हिमगिरिरुवाच ।
भगवंस्तनया मे त्वां सेवितुं चन्द्रशेखरम् ।
समुत्सुका समानीता त्वदाराधनकाङ्क्षया ॥ ४॥
यत्र गङ्गा निपतिता पुरा ब्रह्मपुरात्स्रुता ।
सर्वाघौघविनाशाय पावनी परमा मुने ॥ ५॥
सखीभ्यां सह नित्यं त्वां सेवतामेव शङ्करम् ।
अनुजानीहि तां नाथ मयि ते यद्यनुग्रहः ॥ ५॥
तपःप्रारम्भमकरोत्स्थित्वा तत्र वशी हरः ।
एकाग्रं चिन्तयामास स्वमात्मानमतन्द्रितः ॥ ६॥
हरे ध्यानपरे तस्मिन्प्रमथा ध्यानतत्पराः ।
अभवन्केचिदपरे नन्दिभृङ्ग्यादयो गणाः ॥ ६॥
ब्रह्मोवाच ।
अथ तां शङ्करोऽपश्यत्प्रथमारूढयौवनाम् ।
फुल्लेन्दीवरपत्राभां पूर्णचन्द्रनिभाननाम् ॥ ६॥
चेतो ज्ञानभवं नित्यं ज्योतीरूपं निरामयम् ।
जगन्मयं चिदानन्दं द्वैतहीनं निराश्रयम् ॥ ७॥
समस्तलीलासंस्थानशुभवेषविजृम्भिताम् ।
कम्बुग्रीवां विशालाक्षीं चारुकर्णयुगोज्ज्वलाम् ॥ ७॥
मृणालायतपर्यन्तबाहुयुग्ममनोहराम् ।
राजीवकुड्मलप्रख्यौ घनपीनौदृढौस्तनौ ॥ ८॥
सेवां चक्रुस्तदा केचिद्गणाः शम्भोः परात्मनः ।
नैवाकूजंस्तु मौना हि द्वारपाः केचनाभवन् ॥ ९॥
बिभ्रतीं क्षीणमध्यां च त्रिवलीमध्यराजिताम् ।
स्थलपद्मप्रतीकाशपादयुग्मविराजिताम् ॥ ९॥
एतस्मिन्नन्तरे तत्र जगाम हिमभूधरः ।
शङ्करस्यौषधिप्रस्थे श्रुत्वागमनमादरात् ॥ १०॥
ध्यानपञ्जरनिर्बद्धमुनिमानसमप्यलम् ।
दर्शनाद्भ्रंशने शक्तां योषिद्गणशिरोमणिम् ॥ १०॥
प्रणनाम प्रभुं रुद्रं सगणो भूधरेश्वरः ।
समानर्च च सुप्रीतस्तुष्टाव स कृताञ्जलिः ॥ ११॥
दृष्ट्वा तां तादृशीं तात ध्यानिनां च मनोहराम् ।
विग्रहे तन्त्रमन्त्राणां वर्धिनीं कामरूपिणीम् ॥ ११॥
हिमालय उवाच ।
देवदेव महादेव कपर्दिच्छङ्कर प्रभो ।
त्वयैव लोकनाथेन पालितं भुवनत्रयम् ॥ १२॥
न्यमीलयदृशौ शीघ्रं दध्यौ स्वं रूपमुत्तमम् ।
परतत्त्वं महायोगी त्रिगुणात्परमव्ययम् ॥ १२॥
नमस्ते देवदेवेश योगिरूपधराय च ।
निर्गुणाय नमस्तुभ्यं सगुणाय विहारिणे ॥ १३॥
कैलासवासिने शम्भो सर्वलोकाटनाय च ।
नमस्ते परमेशाय लीलाकाराय शूलिने ॥ १४॥
ववन्द शीर्ष्णा च पुनर्हिमाचलः स संशयं प्रापददीनसत्त्वः ।
उवाच वाक्यं जगदेकबन्धुं गिरीश्वरो वाक्यविदां वरिष्ठः ॥ १४॥