२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 8: रुद्रसंहितायां तृतीये पार्वतीखण्डे भौमोत्पत्तिशिवलीलावर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.१०. दशमोऽध्यायः ।
भौमोत्पत्तिस्तस्य शिवकृपया ग्रहत्वप्राप्तिश्च ।
नारद उवाच ।
विष्णुशिष्य महाभाग विधे शैववर प्रभो ।
शिवलीलामिमां व्यासात्प्रीत्या मे वक्तुमर्हसि ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
सतीविरहयुक्शम्भुः किं चक्रे चरितं तथा ।
तपः कर्तुं कदायातो हिमवत्प्रस्थमुत्तमम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
शिवाशिवविवादोऽभूत्कथं कामक्षयश्च मे ।
तपः कृत्वा कथं प्राप शिवं शम्भुं च पार्वती ॥ ३॥
तत्सर्वमपरं चापि शिवसच्चरितं परम् ।
वक्तुमर्हसि मे ब्रह्मन्महानन्दकरं शुभम् ॥ ४॥
ब्रह्मोवाच ।
देवर्षे शैववर्याद्य तद्यशः शृणु चादरात् ।
पावनं मङ्गलकरं भक्तिवर्धनमुत्तमम् ॥ ६॥
गणानाभाष्य शोचंस्तां तद्गुणान्प्रेमवर्धनान् ।
वर्णयामास सुप्रीत्या दर्शयँल्लौकिकीं गतिम् ॥ ६॥
आगत्य स्वगिरिं शम्भुः प्रियाविरहकातरः ।
सस्मार स्वप्रियां देवीं सतीं प्राणाधिकां हृदा ॥ ७॥
सूत उवाच ।
इति श्रुत्वा नारदस्य प्रश्नं लोकाधिपोत्तमः ।
विधिः प्रोवाच सुप्रीत्या स्मृत्वा शिवपदाम्बुजम् ॥ ९॥
दिगम्बरो बभूवाथ त्यक्त्वा गार्हस्थ्यसद्गतिम् ।
पुनर्बभ्राम लोकान्वै सर्वान् लीलाविशारदः ॥ ९॥
न प्राप दर्शनं क्वापि सतीविरहदुःखितः ।
पुनश्च गिरिमायातः शङ्करो भक्तशङ्करः ॥ १०॥
समाधाय मनो यत्नात्समाधिं दुःखनाशनम् ।
चकार च ददर्शासौ स्वरूपं निजमव्ययम् ॥ ११॥
इत्थं चिरतरं स्थाणुस्तस्थौ ध्वस्तगुणत्रयः ।
निर्विकारी परं ब्रह्म मायाधीशः स्वयं प्रभुः ॥ १२॥
ततः समाधिं तत्याज व्यतीयुर्ह्यमिताः समाः ।
यदा तदा बभूवाशु चरितं तद्वदामि वः ॥ १३॥
प्रभोर्ललाटदेशात्तु यत्पृषच्छ्रमसम्भवम् ।
पपात धरणौ तत्र स बभूव शिशुर्द्रुतम् ॥ १४॥
चतुर्भुजोऽरुणाकारो रमणीयाकृतिर्मुने ।
अलौकिकद्युतिः श्रीमाँस्तेजस्वी परदुस्सहः ॥ १५॥
रुरोद स शिशुस्तस्य पुरो हि परमेशितुः ।
प्राकृतात्मजवत्तत्र भवाचाररतस्य हि ॥ १६॥
तदा विचार्य सुधिया धृत्वा सुस्त्रीतनुं क्षितिः ।
आविर्बभूव तत्रैव भयमानीय शङ्करात् ॥ १७॥
तं बलं द्रुतमुत्थाय क्रोडायां निदधे वरम् ।
स्तन्यं सापाययत्प्रीत्या दुग्धं चोपरिसम्भवम् ॥ १८॥
चुचुम्ब तन्मुखं स्नेहात्स्मित्वा क्रीडयदात्मजम् ।
सत्यभावात्स्वयं माता परमेशहितावहा ॥ १९॥
तद् दृष्ट्वा चरितं शम्भुः कौतुकी सूतिकृत्कृती ।
अन्तर्यामी विहस्याथोवाच ज्ञात्वा रसां हरः ॥ २०॥
धन्या त्वं धरणि प्रीत्या पालयैतं सुतं मम ।
त्वय्युद्भूतं श्रमजलान्महातेजस्विनो वरम् ॥ २१॥
मम श्रमकभूर्बालो यद्यपि प्रियकृत्क्षिते ।
त्वन्नाम्ना स्याद्भवेत्ख्यातस्त्रितापरहितः सदा ॥ २२॥
असौ बालः कुदाता हि भविष्यति गुणी तव ।
ममापि सुखदाता हि गृहाणैनं यथारुचि ॥ २३॥
ब्रह्मोवाच ।
इत्युक्त्वा विररामाथ किञ्चिद्विरहमुक्तधीः ।
लोकाचारकरो रुद्रो निर्विकारी सतां प्रियः ॥ २४॥
अपि क्षितिर्जगामाशु शिवाज्ञामधिगम्य सा ।
स्वस्थानं ससुता प्राप सुखमात्यन्तिकं च वै ॥ २५॥
स बालो भौम इत्याख्यां प्राप्य भूत्वा युवा द्रुतम् ।
तस्यां काश्यां चिरं कालं सिषेवे शङ्करं प्रभुम् ॥ २६॥
विश्वेश्वरप्रसादेन ग्रहत्वं प्राप्य भूमिजः ।
दिव्यं लोकं जगामाशु शुक्रलोकात्परं वरम् ॥ २७॥