२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 7: रुद्रसंहितायां तृतीये पार्वतीखण्डे स्वप्नवर्णनपूर्वकं सङ्क्षेपशिवचरितवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 99 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.८. अष्टमोऽध्यायः ।
नारदहिमालयसंवादः ।
ब्रह्मोवाच ।
एकदा त्वं शिवज्ञानी शिवलीलाविदां वरः ।
हिमाचलगृहं प्रीत्यागमस्त्वं शिवप्रेरितः ॥ १॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.९. नवमोऽध्यायः ।
पित्रोः पार्वत्यै शिवाराधानोपदेशः तस्याः स्वप्ने शिवस्याविर्भावश्च ।
नारद उवाच ।
विधे तात त्वया शैववर प्राज्ञाद्भुता कथा ।
वर्णिता करुणां कृत्वा प्रीतिर्मे वर्धिताधिका ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
दृष्ट्वा मुने गिरीशस्त्वां नत्वानर्च स नारद ।
आहूय च स्वतनयां त्वदङ्घ्र्योस्तामपातयत् ॥ २॥
विधे गते स्वकं धाम मयि वै दिव्यदर्शने ।
ततः किमभवत्तात कृपया तद्वदाधुना ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
पुनर्नत्वा मुनीश त्वामुवाच हिमभूधरः ।
साञ्जलिः स्वविधिं मत्वा बहुसन्नतमस्तकः ॥ ३॥
ब्रह्मोवाच गते त्वयि मुने स्वर्गे कियत्काले गते सति ।
मेना प्राप्यैकदा शैलनिकटं प्रणनाम सा ॥ ३॥
हिमालय उवाच ।
हे मुने नारद ज्ञानिन्ब्रह्मपुत्रवर प्रभो ।
सर्वज्ञस्त्वं सकरुणः परोपकरणे रतः ॥ ४॥
स्थित्वा सविनयं प्राह स्वनाथं गिरिकामिनी ।
तत्र शैलाधिनाथं सा प्राणप्रियसुता सती ॥ ४॥
मत्सुताजातकं ब्रूहि गुणदोषसमुद्भवम् ।
कस्य प्रिया भाग्यवती भविष्यति सुता मम ॥ ५॥
मेनोवाच मुनिवाक्यं न बुद्धं मे सम्यङ्नारीस्वभावतः ।
विवाहं कुरु कन्यायाःसुन्दरेण वरेण ह ॥ ५॥
ब्रह्मोवाच ।
इत्युक्तो मुनिवर्य त्वं गिरीशेन हिमाद्रिणा ।
विलोक्य कालिकाहस्तं सर्वाङ्गं च विशेषतः ॥ ६॥
सर्वथा हि भवेत्तत्रोद्वाहोऽपूर्वसुखावहः ।
वरश्च गिरिजायास्तु सुलक्षणकुलोद्भवः ॥ ६॥
अवोचस्त्वं गिरिं तात कौतुकी वाग्विशारदः ।
ज्ञानी विदितवृत्तान्तो नारदः प्रीतमानसः ॥ ७॥
प्राणप्रिया सुता मे हि सुखिता स्याद्यथा प्रिया ।
सद्वरं प्राप्य सुप्रीता तथा कुरु नमोऽस्तु ते ॥ ७॥
नारद उवाच ।
एषा ते तनया मेने सुधांशोरिव वर्धिता ।
आद्या कला शैलराज सर्वलक्षणशालिनी ॥ ८॥
ब्रह्मोवाच इत्युक्त्वाश्रुमुखी मेना पत्यङ्घ्र्योः पतिता तदा ।
तामुत्थाप्य गिरिः प्राह यथावत्प्राज्ञसत्तमः ॥ ८॥
स्वपतेः सुखदात्यन्तं पित्रोः कीर्तिविवर्धिनी ।
महासाध्वी च सर्वासु महानन्दकरी सदा ॥ ९॥
हिमालय उवाच ।
शृणु त्वं मेनके देवि यथार्थं वच्मि तत्त्वतः ।
भ्रमं त्यज मुनेर्वाक्यं वितथं न कदाचन ॥ ९॥
सुलक्षणानि सर्वाणि त्वत्सुतायाः करे गिरे ।
एका विलक्षणा रेखा तत्फलं शृणु तत्त्वतः ॥ १०॥
यदि स्नेहः सुतायास्ते सुतां शिक्षय सादरम् ।
तपः कुर्याच्छङ्करस्य सा भक्त्या स्थिरचेतसा ॥ १०॥
योगी नग्नोऽगुणोऽकामी मातृतातविवर्जितः ।
अमानोऽशिववेषश्च पतिरस्याः किलेदृशः ॥ ११॥
चेत्प्रसन्नः शिवः काल्याः पाणिं गृह्णाति मेनके ।
सर्वं भूयाच्छुभं नश्येन्नारदोक्तममङ्गलम् ॥ ११॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्ते हि सत्यं मत्वा च दम्पती ।
मेना हिमाचलश्चापि दुःखितौ तौ बभूवतुः ॥ १२॥
अमङ्गलानि सर्वाणि मङ्गलानि सदा शिवे ।
तस्मात्सुतां शिवप्राप्त्यै तपसे शिक्षय द्रुतम् ॥ १२॥
शिवाकर्ण्यवचस्ते हि तादृशं जगदम्बिका ।
लक्षणैस्तं शिवं मत्वा जहर्षाति मुने हृदि ॥ १३॥
ब्रह्मोवाच ।
इत्याकर्ण्य गिरेर्वाक्यं मेना प्रीततराभवत् ।
सुतोपकण्ठमगमदुपदेष्टुं तपोरुचिम् ॥ १३॥
न मृषा नारदवचस्त्विति सञ्चिन्त्य सा शिवा ।
स्नेहं शिवपदद्वन्द्वे चकाराति हृदा तदा ॥ १४॥