Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.७. सप्तमोऽध्यायः ।

पार्वत्या बाललीला ।

ब्रह्मोवाच ।

ततो मेनापुरः सा वै सुता भूत्वा महाद्युतिः ।

चकार रोदनं तत्र लौकिकीं गतिमाश्रिता ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 2

अरिष्टशय्यां परितः सद्विसारिसुतेजसा ।

निशीथदीपा विहतत्विष आसन्नरं मुने ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 3

श्रुत्वा तद् रोदनं रम्यं गृहस्थाः सर्वयोषितः ।

जहृषुः सम्भ्रमात्तत्रागताः प्रीतिपुरस्सराः ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 4

तच्छुद्धान्तचरः शीघ्रं शशंस भूभृते तदा ।

पार्वतीजन्म सुखदं देवकार्यकरं शुभम् ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 5

तच्छुद्धान्तःचरायाशु पुत्रीजन्म सुशंसते ।

सितातपत्रं नादेयमासीत्तस्य महीभृतः ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 6

गतस्तत्र गिरिः प्रीत्या सपुरोहितसद्विजः ।

ददर्श तनयां तां तु शोभमानां सुभाससा ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 7

नीलोत्पलदलश्यामां सुद्युतिं सुमनोरमाम् ।

दृष्ट्वा च तादृशीं कन्यां मुमोदाति गिरीश्वरः ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 8

सर्वे च मुमुदुस्तत्र पौराश्च पुरुषाः स्त्रियः ।

तदोत्सवो महानासीन्नेदुर्वाद्यानि भूरिशः ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 9

बभूव मङ्गलं गानं ननृतुर्वारयोषितः ।

दानं ददौ द्विजातिभ्यो जातकर्म विधाय च ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 10

अथ द्वारं समागत्य चकार सुमहोत्सवम् ।

हिमाचलः प्रसन्नात्मा भिक्षुभ्यो द्रविणं ददौ ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 11

अथो शुभमुहूर्तेऽस्मिन् हिमवान्मुनिभिः सह ।

नामाकरोत्सुतायास्तु कालीत्यादि सुखप्रदम् ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 12

दानं ददौ तदा प्रीत्या द्विजेभ्यो बहु सादरम् ।

उत्सवं कारयामास विविधं गानपूर्वकम् ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 13

इत्थं कृत्वोत्सवं भूरि कालीं पश्यन्मुहुर्मुहुः ।

लेभे मुदं सपत्नीको बहुपुत्रोऽपि भूधरः ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 14

तत्र सा ववृधे देवी गिरिराजगृहे शिवा ।

गङ्गेव वर्षासमये शरदीवाथ चन्द्रिका ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 15

एवं सा कालिका देवी चार्वङ्गी चारुदर्शना ।

दध्रे चानुदिनं रम्यां चन्द्रबिम्बकलामिव ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 16

कुलोचितेन नाम्ना तां पार्वतीत्याजुहाव ह ।

बन्धुप्रियां बन्धुजनः सौशील्यगुणसंयुताम् ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 17

उमेति मात्रा तपसे निषिद्धा कालिका च सा ।

पश्चादुमाख्यां सुमुखी जगाम भुवने मुने ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 18

दृष्टिः पुत्रवतोऽप्यद्रेस्तस्मिंस्तृप्तिं जगाम न ।

अपत्ये पार्वतीत्याख्ये सर्वसौभाग्यसंयुते ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 19

मधोरनन्तपुष्पस्य चूते हि भ्रमरावलिः ।

विशेषसङ्गा भवति सहकारे मुनीश्वर ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 20

पूतो विभूषितश्चापि स बभूव तया गिरिः ।

संस्कारवत्यैव गिरा मनीषीव हिमालयः ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 21

प्रभामहत्या शिखयेव दीपो भवनस्य च ।

त्रिमार्गयेव सन्मार्गस्तद्वद् गिरिजया गिरिः ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 22

कन्दुकैः कृत्रिमैः पुत्रैः सखीमध्यगता च सा ।

गङ्गासैकतवेदीभिर्बाल्ये रेमे मुहुर्मुहुः ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 23

अथ देवी शिवा सा चोपदेशसमये मुने ।

पपाठ विद्याः सुप्रीत्या यतचित्ता च सद्गुरोः ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 24

प्राक्तना जन्मविद्यास्तां शरदीव प्रपेदिरे ।

हंसालिः स्वर्णदीं नक्तमात्मभासो महौषधिम् ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 6: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं, Verse 25

इत्थं सुवर्णिता लीला शिवायाः काचिदेव हि ।

अन्यलीलां प्रवक्ष्येऽहं श‍ृणु त्वं प्रेमतो मुने ॥ २५॥