२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 5: रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीजन्मवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.६. षष्ठोऽध्यायः ।
पार्वतिजन्मवर्णनम् ।
ब्रह्मोवाच अथ सस्मरतुर्भक्त्या दम्पती तौ भवाम्बिकाम् ।
प्रसूतिहेतवे तत्र देवकार्यार्थमादरात् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
ततः सा चण्डिका योगात्त्यक्तदेहा पुरा पितुः ।
ईहया भवितुं भूयः समैच्छद् गिरिदारतः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
सत्यं विधातुं स्ववचः प्रसन्नाखिलकामदा ।
पूर्णांशाच्छैलचित्ते सा विवेशाथ महेश्वरी ॥ ३॥
विरराज ततः सोऽति प्रमदोऽपूर्वसुद्युतिः ।
हुताशन इवाधृष्यस्तेजोराशिर्महामनाः ॥ ४॥
ततो गिरिः स्वप्रियायां परिपूर्णं शिवांशकम् ।
समाधिमत्वात्समये समधत्त सुशङ्करे ॥ ५॥
समधत्त गिरेः पत्नी गर्भं देव्याः प्रसादतः ।
चित्ते स्थितायाः करुणाकरायाः सुखदं गिरेः ॥ ६॥
गिरिप्रिया सर्वजगन्निवासासंश्रयाधिकम् ।
विरेजे सुतरां मेना तेजोमण्डलगा सदा ॥ ७॥
सुखोदयं स्वभर्तुश्च मेना दौर्हृदलक्षणम् ।
दधौ निदानं देवानामानन्दस्येप्सितं शुभम् ॥ ८॥
देहसादादसम्पूर्णभूषणा लोध्रसम्मुखा ।
स्वल्पभेन्दुक्षयेकासौ विचेष्यर्क्षा विभावरी ॥ ९॥
तदाननं मृत्सुरभि नायं तृप्तिं गिरीश्वरः ।
मुने रहस्युपाघ्राय प्रेमाधिक्यं बभूव तत् ॥ १०॥
मेना स्पृहावती केषु न मे शंसति वस्तुषु ।
किञ्चिदिष्टं ह्रियापृच्छदनुवेलं सखीर्गिरिः ॥ ११॥
उपेत्य दौर्हृदं शैल्यं यद्वव्रेऽपश्यदाशु तत् ।
आनीतं नेष्टमस्याद्धा नासाध्यं त्रिदिवेऽपि हि ॥ १२॥
प्रचीयमानावयवा निस्तीर्य दौर्हृदव्यथाम् ।
रेजे मेना बाललता नद्धपत्राधिका यथा ॥ १३॥
गिरिः सगर्भां महिषीममंस्त धरणीमिव ।
निधानगर्भामभ्यन्तर्लीनवह्निशमीमिव ॥ १४॥
प्रियाप्रीतेश्च मनसः स्वार्जितद्रविणस्य च ।
समुन्नतेः श्रुतेः प्राज्ञः क्रियाश्चक्रे यथोचिताः ॥ १५॥
ददर्श काले मेनां स प्रतीतः प्रसवोन्मुखीम् ।
अभ्रितां च दिवं गर्भगृहे भिषगधिष्ठिते ॥ १६॥
दृष्ट्वा प्रियां शुभाङ्गीं वै मुमोदाति गिरीश्वरः ।
गर्भस्थजगदम्बां हि महातेजोवतीं तदा ॥ १७॥
तस्मिन्नवसरे देवा मुने विष्ण्वादयस्तथा ।
मुनयश्च समागम्य गर्भस्थां तुष्टुवुः शिवाम् ॥ १८॥
देवा ऊचुः दुर्गे जय जय प्राज्ञे जगदम्ब महेश्वरि ।
सत्यव्रते सत्यपरे त्रिसत्ये सत्यरूपिणी ॥ १९॥
सत्यस्थे सत्यसुप्रीते सत्ययोने च सत्यतः ।
सत्यवक्त्रे सत्यनेत्रे प्रपन्नाः शरणं च ते ॥ २०॥
शिवप्रिये महेशानि देवदुःखक्षयङ्करि ।
त्रैलोक्यमाता शर्वाणी व्यापिनी भक्तवत्सला ॥ २१॥
आविर्भूय त्रिलोकेशि देवकार्यं कुरुष्व ह ।
सनाथाः कृपया ते हि वयं सर्वे महेश्वरि ॥ २२॥
त्वत्तः सर्वे च सुखिनो लभन्ते सुखमुत्तमम् ।
त्वां विना न हि किञ्चिद्वै शोभते त्रिभवेष्वपि ॥ २३॥
ब्रह्मोवाच इत्थं कृत्वा महेशान्या गर्भस्थाया बहुस्तुतिम् ।
प्रसन्नमनसो देवाः स्वं स्वं धाम ययुस्तदा ॥ २४॥
व्यतीते नवमे मासे दशमे मासि पूर्णतः ।
गर्भस्था सा गतिं दध्रे कालिका जगदम्बिका ॥ २५॥
तदा सुसमयश्चासीच्छान्तभग्रहतारकः ।
नभः प्रसन्नतां यातं प्रकाशः सर्वदिक्षु हि ॥ २६॥
मही मङ्गलभूयिष्ठा सवनग्रामसागरा ।
सरःस्रवन्तीवापीषु पुफुल्लुः पङ्कजानि वै ॥ २७॥