Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं

Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.५. पञ्चमोऽध्यायः ।

मेनकया वरप्राप्तिः ।

नारद उवाच ।

अन्तर्हितायां देव्यां तु दुर्गायां स्वगृहेषु च ।

गतेष्वमरवृन्देषु किमभूत्तदनन्तरम् ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 2

कथं मेनागिरीशौ च तेपाते परमं तपः ।

कथं सुताभवत्तस्य मेनायां तात तद्वद ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 3

ब्रह्मोवाच विप्रवर्य सुतश्रेष्ठ श‍ृणु तच्चरितं महत् ।

प्रणम्य शङ्करं भक्त्या वच्मि भक्तिविवर्धनम् ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 4

उपदिश्य गते तात सुरवृन्दे गिरीश्वरः ।

हर्यादौ मेनका चापि तेपाते परमं तपः ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 5

अहर्निशं शिवां शम्भुं चिन्तयन्तौ च दम्पती ।

सम्यगारेधतुर्नित्यं भक्तियुक्तेन चेतसा ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 6

गिरिप्रियातीव मुदानर्च देवीं शिवेन सा ।

दानं ददौ द्विजेभ्यश्च सदा तत्तोषहेतवे ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 7

चैत्रमासं समारभ्य सप्तविंशतिवत्सरान् ।

शिवां सम्पूजयामासापत्यार्थिन्यन्वहं रता ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 8

अष्टम्यामुपवासं तु कृत्वादान्नवमीतिथौ ।

मोदकैर्बलिपिष्टैश्च पायसैर्गन्धपुष्पकैः ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 9

गङ्गायामौषधिप्रस्थे कृत्वा मूर्तिं महीमयीम् ।

उमायाः पूजयामास नानावस्तुसमर्पणैः ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 10

कदाचित्सा निराहारा कदाचित्सा धृतव्रता ।

कदाचित्पवनाहारा कदाचिज्जलभुघ्यभूत् ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 11

शिवाविन्यस्तचेतस्का सप्तविंशतिवत्सरान् ।

निनाय मेनका प्रीत्या परं सा मृष्टवर्चसा ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 12

सप्तविंशतिवर्षान्ते जगन्माता जगन्मयी ।

सुप्रीताभवदत्यर्थमुमा शङ्करकामिनी ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 13

अनुग्रहाय मेनायाः पुरतः परमेश्वरी ।

आविर्बभूव सा देवी सन्तुष्टा तत्सुभक्तितः ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 14

दिव्यावयवसंयुक्ता तेजोमण्डलमध्यगा ।

उवाच विहसन्ती सा मेनां प्रत्यक्षतां गता ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 15

देव्युवाच ।

वरं ब्रूहि महासाध्वि यत्ते मनसि वर्तते ।

सुप्रसन्ना च तपसा तवाहं गिरिकामिनि ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 16

यत्प्रार्थितं त्वया मेने तपोव्रतसमाधिना ।

दास्ये तेऽहं च तत्सर्वं वाञ्छितं यद्यदा भवेत् ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 17

ततःसा मेनका देवीं प्रत्यक्षां कालिकां तदा ।

दृष्ट्वा च प्रणनामाथ वचनं चेदमब्रवीत् ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 18

मेनोवाच देवि प्रत्यक्षतो रूपं दृष्टं तव मयाधुना ।

त्वामहं स्तोतुमिच्छामि प्रसन्ना भव कालिके ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 19

ब्रह्मोवाच अथ सा मेनयेत्युक्ता कालिका सर्वमोहिनी ।

बाहुभ्यां सुप्रसन्नात्मा मेनकां परिषस्वजे ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 20

ततः प्राप्तमहाज्ञाना मेनका कालिकां शिवम् ।

तुष्टाव वाग्भिरिष्टाभिर्भक्त्या प्रत्यक्षतां गताम् ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 21

मेनोवाच ।

महामायां जगद्धात्रीं चण्डिकां लोकधारिणीम् ।

प्रणमामि महादेवीं सर्वकामार्थदायिनीम् ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 22

नित्यानन्दकरीं मायां योगनिद्रां जगत्प्रसूम् ।

प्रणमामि सदा सिद्धां शुभसारसमालिनीम् ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 23

मातामहीं सदानन्दां भक्तशोकविनाशिनीम् ।

आकल्पं वनितानां च प्राणिनां बुद्धिरूपिणीम् ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 24

सा त्वं बन्धच्छेदहेतुर्यतीनां कस्ते गेयो मादृशीभिः प्रभावः ।

हिंसां या वाथर्ववेदस्य सा त्वं नित्यं कामं त्वं ममेष्टं विधेहि ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 25

नित्यानित्यैर्भावहीनैः परास्तै- स्तत्तन्मात्रैर्योज्यते भूतवर्गः ।

तेषां शक्तिस्त्वं सदा नित्यरूपा काले योषा योगयुक्ता समर्था ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 26

योनिर्धरित्री जगतां त्वमेव त्वमेव नित्या प्रकृतिः परस्तात् ।

यया वशं क्रियते ब्रह्मरूपं सा त्वं नित्या मे प्रसीदाद्य मातः ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 4: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं, Verse 27

त्वं जातवेदोगतशक्तिरुग्रा त्वं दाहिका सूर्यकरस्य शक्तिः ।

आह्लादिका त्वं बहुचन्द्रिका या तां त्वामहं स्तौमि नमामि चण्डीम् ॥ २७॥