२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 2: रुद्रसंहितायां तृतीये पार्वतीखण्डे पूर्वगतिवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.२. द्वितीयोऽध्यायः ।
मेनकादीनां सनकादिभ्यः शापप्राप्तिः ।
नारद उवाच ।
विधे प्राज्ञ वदेदानीं मेनोत्पत्तिं समादरात् ।
अपि शापं समाचक्ष्व कुरु सन्देहभञ्जनम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
ब्रह्मोवाच ।
शृणु नारद सुप्रीत्या मेनोत्पत्तिं विवेकतः ।
मुनिभिः सह वक्ष्येऽहं सुतवर्य महाबुध ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
दक्षनामा मम सुतो यः पुरा कथितो मुने ।
तस्य जाताः सुताः षष्टिप्रमिताः सृष्टिकारणाः ॥ ३॥
तासां विवाहमकरोत्स वरैः कश्यपादिभिः ।
विदितं ते समस्तं तत्प्रस्तुतं शृणु नारद ॥ ४॥
तासां मध्ये स्वधानाम्नीं पितृभ्यो दत्तवान्सुताम् ।
तिस्रोऽभवन्सुतास्तस्याः सुभगा धर्ममूर्तयः ॥ ५॥
तासां नामानि शृणु मे पावनानि मुनीश्वर ।
सदा विघ्नहराण्येव महामङ्गलदानि च ॥ ६॥
मेनानाम्नी सुता ज्येष्ठा मध्या धन्या कलावती ।
अन्त्या एताः सुताः सर्वाः पितॄणां मानसोद्भवाः ॥ ७॥
अयोनिजाः स्वधायाश्च लोकतस्तत्सुता मताः ।
आसां प्रोच्य सुनामानि सर्वान्कामान् जनो लभेत् ॥ ८॥
जगद्वन्द्याः सदा लोकमातरः परमोददाः ।
योगिन्यः परमा ज्ञाननिधानास्तास्त्रिलोकगाः ॥ ९॥
एकस्मिन्समये तिस्रो भगिन्यस्ता मुनीश्वर ।
श्वेतद्वीपं विष्णुलोकं जग्मुर्दर्शनहेतवे ॥ १०॥
कृत्वा प्रणामं विष्णोश्च संस्तुतिं भक्तिसंयुताः ।
तस्थुस्तदाज्ञया तत्र सुसमाजो महानभूत् ॥ ११॥
तदैव सनकाद्यास्तु सिद्धा ब्रह्मसुता मुने ।
गतास्तत्र हरिं नत्वा स्तुत्वा तस्थुस्तदाज्ञया ॥ १२॥
सनकाद्यान्मुनीन् दृष्ट्वोत्तस्थुस्ते सकला द्रुतम् ।
तत्रस्थान्संस्थितान्नत्वा देवाद्याँल्लोकवन्दितान् ॥ १३॥
तिस्रो भगिन्यस्तास्तत्र नोत्तस्थुर्मोहिता मुने ।
मायया दैवविवशाः शङ्करस्य परात्मनः ॥ १४॥
मोहिनी सर्वलोकानां शिवमाया गरीयसी ।
तदधीनं जगत्सर्वं शिवेच्छा सा प्रकीर्त्यते ॥ १५॥
प्रारब्धं प्रोच्यते सैव तन्नामानि ह्यनेकशः ।
शिवेच्छया भवत्येव नात्र कार्या विचारणा ॥ १६॥
भूत्वा तद्वशगास्ता वै न चक्रुरपि तन्नतिम् ।
विस्मिताः सम्प्रदृश्यैव संस्थितास्तत्र केवलम् ॥ १७॥
तादृशीं तद्गतिं दृष्ट्वा सनकाद्या मुनीश्वराः ।
ज्ञानिनोऽपि परं चक्रुः क्रोधं दुर्विषहं च ते ॥ १८॥
शिवेच्छामोहितस्तत्र सक्रोधस्ता उवाच ह ।
सनत्कुमारो योगीशः शापं दण्डकरं ददत् ॥ १९॥
सनत्कुमार उवाच ।
यूयं तिस्रो भगिन्यश्च मूढाः सद्वयुनोज्झिताः ।
अज्ञातश्रुतितत्त्वा हि पितृकन्या अपि ध्रुवम् ॥ २०॥
अभ्युत्थानं कृतं नो यो नमस्कारोऽपि गर्विताः ।
मोहिता नरभावत्वात्स्वर्गाद् दूरा भवन्तु हि ॥ २१॥
नरस्त्रियः सम्भवन्तु तिस्रोऽप्य ज्ञानमोहिताः ।
स्वकर्मणः प्रभावेण लभध्वं फलमीदृशम् ॥ २२॥
ब्रह्मोवाच ।
इत्याकर्ण्य च साध्व्यस्तास्तिस्रोऽपि चकिता भृशम् ।
पतित्वा पादयोस्तस्य समूचूर्नतमस्तकाः ॥ २३॥
पितृतनया ऊचुः मुनिवर्य दयासिन्धो प्रसन्नो भव चाधुना ।
त्वत्प्रणामं वयं मूढाः कुर्महे स्म न भावतः ॥ २४॥
प्राप्तं च तत्फलं विप्र न ते दोषो महामुने ।
अनुग्रहं कुरुष्वात्र लभेम स्वर्गतिं पुनः ॥ २५॥
ब्रह्मोवाच श्रुत्वा तद्वचनं तात प्रोवाच स मुनिस्तदा ।
शापोद्धारं प्रसन्नात्मा प्रेरितः शिवमायया ॥ २६॥
सनत्कुमार उवाच पितॄणां तनयास्तिस्रः शृणुत प्रीतमानसाः ।
वचनं मम शोकघ्नं सुखदं सर्वदैव वः ॥ २७॥