२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 1: रुद्रसंहितायां तृतीये पार्वतीखण्डे हिमाचलविवाहवर्णनं, Verse 1
श्रीशिवमहापुराणम् २३ रुद्रसंहितायां पार्वतीखण्डः ॥
श्रीः ॥
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रीशिवमहापुराणम् २३ रुद्रसंहितायां पार्वतीखण्डः ॥
श्रीः ॥
२.३.१. प्रथमोऽध्यायः ।
हिमाचलविवाहवर्णनम् ।
नारद उवाच ।
दाक्षायणी सती देवी त्यक्तदेहा पितुर्मखे ।
कथं गिरिसुता ब्रह्मन् बभूव जगदम्बिका ॥ १॥
॥
श्रीसाम्बसदाशिवार्पणमस्तु ॥
कथं कृत्वा तपोऽत्युग्रं पतिमाप शिवं च सा ।
एतन्मे पृच्छते सम्यक् कथय त्वं विशेषतः ॥ २॥
॥
श्रीगणेशाय नमः ॥
ब्रह्मोवाच ।
शृणु त्वं मुनिशार्दूल शिवाचरितमुत्तमम् ।
पावनं परमं दिव्यं सर्वपापहरं शुभम् ॥ ३॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
यदा दाक्षायणी देवी हरेण सहिता मुदा ।
हिमाचले सुचिक्रीडे लीलया परमेश्वरी ॥ ४॥
॥
श्रीशिवमहापुराणम् ॥
मत्सुतेयमिति ज्ञात्वा सिषेवे मातृवर्चसा ।
हिमाचलप्रिया मेना सर्वर्द्धिभिरनिर्भरा ॥ ५॥
॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
यदा दाक्षायणी रुष्टा नादृता स्वतनुं जहौ ।
पित्रा दक्षेण तद्यज्ञे सङ्गता परमेश्वरी ॥ ६॥
तदैव मेनका तां सा हिमाचलप्रिया मुने ।
शिवलोकस्थितां देवीमारिराधयिषुस्तदा ॥ ७॥
तस्यामहं सुता स्यामित्यवधार्य सती हृदा ।
त्यक्तदेहा मनो दध्रे भवितुं हिमवत्सुता ॥ ८॥
समयं प्राप्य सा देवी सर्वदेवस्तुता पुनः ।
सती त्यक्ततनुः प्रीत्या मेनकातनयाभवत् ॥ ९॥
नाम्ना सा पार्वती देवी तपः कृत्वा सुदुस्सहम् ।
नारदस्योपदेशाद्वै पतिं प्राप शिवं पुनः ॥ १०॥
नारद उवाच ।
ब्रह्मन् विधे महाप्राज्ञ वद मे वदतां वर ।
मेनकायाः समुत्पत्तिं विवाहचरितं तथा ॥ ११॥
धन्या हि मेनका देवी यस्यां जाता सुता सती ।
अतो मान्या च धन्या च सर्वेषां सा पतिव्रता ॥ १२॥
ब्रह्मोवाच ।
शृणु त्वं नारद मुने पार्वतीमातुरुद्भवम् ।
विवाहं चरितं चैव पावनं भक्तिवर्धनम् ॥ १३॥
अस्त्युत्तरस्यां दिशि वै गिरीशो हिमवान्महान् ।
पर्वतो हि मुनिश्रेष्ठ महातेजाः समृद्धिभाक् ॥ १४॥
द्वैरूप्यं तस्य विख्यातं जङ्गमस्थिरभेदतः ।
वर्णयामि समासेन तस्य सूक्ष्मस्वरूपकम् ॥ १५॥
पूर्वापरौ तोयनिधी सुविगाह्य स्थितो हि यः ।
नानारत्नाकरो रम्यो मानदण्ड इव क्षितेः ॥ १६॥
नानावृक्षसमाकीर्णो नानाशृङ्गसुचित्रितः ।
सिंहव्याघ्रादिपशुभिः सेवितः सुखिभिः सदा ॥ १७॥
तुषारनिधिरत्युग्रो नानाश्चर्यविचित्रितः ।
देवर्षिसिद्धमुनिभिः संश्रितः शिवसम्प्रियः ॥ १८॥
तपःस्थानोऽतिपूतात्मा पावनश्च महात्मनाम् ।
तपस्सिद्धिप्रदोऽत्यन्तं नानाधात्वाकरः शुभः ॥ १९॥
स एव दिव्यरूपो हि रम्यः सर्वाङ्गसुन्दरः ।
विष्ण्वंशोऽविकृतः शैलराजराजः सतां प्रियः ॥ २०॥
कुलस्थित्यै च स गिरिर्धर्मवर्द्धनहेतवे ।
स्वविवाहं कर्तुमैच्छत्पितृदेवहितेच्छया ॥ २१॥
तस्मिन्नवसरे देवाः स्वार्थमाचिन्त्य कृत्स्नशः ।
ऊचुः पितॄन्समागत्य दिव्यान्प्रीत्या मुनीश्वर ॥ २२॥
देवा ऊचुः सर्वे शृणुत नो वाक्यं पितरः प्रीतमानसाः ।
कर्तव्यं तत्तथैवाशु देवकार्येप्सवो यदि ॥ २३॥
मेना नाम सुता या वो ज्येष्ठा मङ्गलरूपिणी ।
तां विवाह्य च सुप्रीत्या हिमाख्येन महीभृता ॥ २४॥