२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 30: रुद्रसंहितायां द्वितीये सतीखण्डे दक्षयज्ञानुसन्धानवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
२.२.४३. त्रिचत्वारिंशोऽध्यायः ।
दक्षयज्ञानुसन्धानम् ।
ब्रह्मोवाच ।
इति स्तुतो रमेशेन मया चैव सुरर्षिभिः ।
तथान्यैश्च महादेवः प्रसन्नः सम्बभूव ह ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
अथ शम्भुः कृपादृष्ट्या सर्वान् ऋषिसुरादिकान् ।
ब्रह्मविष्णू समाधाय दक्षमेतदुवाच ह ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
महादेव उवाच ।
शृणु दक्ष प्रवक्ष्यामि प्रसन्नोऽस्मि प्रजापते ।
भक्ताधीनः सदाहं वै स्वतन्त्रोऽप्यखिलेश्वरः ॥ ३॥
॥
द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
चतुर्विधा भजन्ते मां जनाः सुकृतिनः सदा ।
उत्तरोत्तरतः श्रेष्ठास्तेषां दक्ष प्रजापते ॥ ४॥
आर्तो जिज्ञासुरर्थार्थी ज्ञानी चैव चतुर्थकः ।
पूर्वे त्रयश्च सामान्याश्चतुर्थो हि विशिष्यते ॥ ५॥
तत्र ज्ञानी प्रियतरो मम रूपं च स स्मृतः ।
तस्मात्प्रियतरो नान्यः सत्यं सत्यं वदाम्यहम् ॥ ६॥
ज्ञानगम्योऽहमात्मज्ञो वेदान्तश्रुतिपारगैः ।
विना ज्ञानेन मां प्राप्तुं यतन्ते चाल्पबुद्धयः ॥ ७॥
न वेदैश्च न यज्ञैश्च न दानैस्तपसा क्वचित् ।
न शक्नुवन्ति मां प्राप्तुं मूढाः कर्मवशा नराः ॥ ८॥
केवलं कर्मणा त्वं स्म संसारं तर्तुमिच्छसि ।
अत एवाभवं रुष्टो यज्ञविध्वंसकारकः ॥ ९॥
इतः प्रभृति भो दक्ष मत्वा मां परमेश्वरम् ।
बुद्ध्या ज्ञानपरो भूत्वा कुरु कर्म समाहितः ॥ १०॥
अन्यच्च शृणु सद्बुद्ध्या वचनं मे प्रजापते ।
वच्मि गुह्यं धर्महेतोः सगुणत्वेऽप्यहं तव ॥ ११॥
अहं ब्रह्मा च विष्णुश्च जगतः कारणं परम् ।
आत्मेश्वर उपद्रष्टा स्वयन्दृगविशेषणः ॥ १२॥
आत्ममायां समाविश्य सोऽहं गुणमयीं मुने ।
सृजन् रक्षन्हरन्विश्वं दधे संज्ञाः क्रियोचिताः ॥ १३॥
अद्वितीये परे तस्मिन् ब्रह्मण्यात्मनि केवले ।
अज्ञः पश्यति भेदेन भूतानि ब्रह्म चेश्वरम् ॥ १४॥
शिरःकरादिस्वाङ्गेषु कुरुते न यथा पुमान् ।
पारक्यशेमुषीं क्वापि भूतेष्वेवं हि मत्परः ॥ १५॥
सर्वभूतात्मनामेकभावनां यो न पश्यति ।
त्रिसुराणां भिदां दक्ष स शान्तिमधिगच्छति ॥ १६॥
यः करोति त्रिदेवेषु भेदबुद्धिं नराधमः ।
नरके स वसेन्नूनं यावदाचन्द्रतारकम् ॥ १७॥
मत्परः पूजयेद्देवान् सर्वानपि विचक्षणः ।
स ज्ञानं लभते येन मुक्तिर्भवति शाश्वती ॥ १८॥
विधिभक्तिं विना नैव भक्तिर्भवति वैष्णवी ।
विष्णुभक्तिं विना मे न भक्तिः क्वापि प्रजायते ॥ १९॥
इत्युक्त्वा शङ्करः स्वामी सर्वेषां परमेश्वरः ।
सर्वेषां शृण्वतां तत्रोवाच वाणीं कृपाकरः ॥ २०॥
हरिभक्तो हि मां निन्देत्तथा शैवो भवेद्यदि ।
तयोः शापा भवेयुस्ते तत्त्वप्राप्तिर्भवेन्न हि ॥ २१॥
ब्रह्मोवाच ।
इत्याकर्ण्य महेशस्य वचनं सुखकारकम् ।
जहर्षुः सकलास्तत्र सुरमुन्यादयो मुने ॥ २२॥
दक्षोऽभवन्महाप्रीत्या शिवभक्तिरतस्तदा ।
सकुटुम्बः सुराद्यास्ते शिवं मत्वाखिलेश्वरम् ॥ २३॥
यथा येन कृता शम्भोः संस्तुतिः परमात्मनः ।
तथा तस्मै वरो दत्तः शम्भुना तुष्टचेतसा ॥ २४॥
ज्ञप्तः शिवेनाशु दक्षः शिवभक्तः प्रसन्नधीः ।
यज्ञं चकार सम्पूर्णं शिवानुग्रहतो मुने ॥ २५॥
ददौ भागान्सुरेभ्यो हि पूर्णभागं शिवाय सः ।
दानं ददौ द्विजेभ्यश्च प्राप्तः शम्भोरनुग्रहः ॥ २६॥