२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 27: रुद्रसहितायां द्वितीये सतीखण्डे यज्ञविध्वंसवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 72 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
२.२.३७. सप्तत्रिंशोऽध्यायः ।
दक्षयज्ञविध्वंसः ।
ब्रह्मोवाच ।
वीरभद्रोऽथ युद्धे वै विष्णुना स महाबलः ।
संस्मृत्य शङ्करं चित्ते सर्वापद्विनिवारणम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
आरुह्य स्यन्दनं दिव्यं सर्ववैरिविमर्दनः ।
गृहीत्वा परमास्त्राणि सिंहनादं जगर्ज ह ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
विष्णुश्चापि महाघोषं पाञ्चजन्याभिधं निजम् ।
दध्मौ बली महाशङ्खं स्वकीयान् हर्षयन्निव ॥ ३॥
॥
द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
तच्छ्रुत्वा शङ्खनिर्ह्रादं देवा ये च पलायिताः ।
रणं हित्वा गताः पूर्वं ते द्रुतं पुनराययुः ॥ ४॥
वीरभद्रगणैस्ते तु लोकपालाः सवासवाः ।
युद्धं चक्रुस्तथा सिंहनादं कृत्वा बलान्विताः ॥ ५॥
गणानां लोकपालानां द्वन्द्वयुद्धं भयावहम् ।
अभवत्तत्र तुमुलं गर्जतां सिंहनादतः ॥ ६॥
नन्दिना युयुधे शक्रोऽनलो वै चाश्मना तथा ।
कुबेरोऽपि हि कूष्माण्डपतिना युयुधे बली ॥ ७॥
तदेन्द्रेण हतो नन्दी वज्रेण शतपर्वणा ॥ ८॥
नन्दिना च हतः शक्रस्त्रिशूलेन स्तनान्तरे ॥ ९॥
बलिनौ द्वावपि प्रीत्या युयुधाते परस्परम् ।
नानाघातांश्च कुर्वन्तौ नन्दिशक्रौ जिगीषया ॥ १०॥
शक्त्या जघान चाश्मानं शुचिः परमकोपनः ।
सोऽपि शूलेन तं वेगाच्छितधारेण पावकम् ॥ ११॥
यमेन सह सङ्ग्रामं महालोको गणाग्रणीः ।
चकार तुमुलं वीरो महादेवं स्मरन्मुदा ॥ १२॥
नैरृतेन समागम्य चण्डश्च बलवत्तरः ।
युयुधे परमास्त्रैश्च नैरृतिं निविडम्बयन् ॥ १३॥
वरुणेन समं वीरो मुण्डश्चैव महाबलः ।
युयुधे परया शक्त्या त्रिलोकीं विस्मयन्निव ॥ १४॥
वायुना च हतो भृङ्गी स्वास्त्रेण परमौजसा ।
भृङ्गिणा च हतो वायुस्त्रिशूलेन प्रतापिना ॥ १५॥
कुबेरेणैव सङ्गम्य कूष्माण्डपतिरादरात् ।
युयुधे बलवान् वीरो ध्यात्वा हृदि महेश्वरम् ॥ १६॥
योगिनीचक्रसंयुक्तो भैरवीनायको महान् ।
विदार्य देवानखिलान् पपौ शोणितमद्भुतम् ॥ १७॥
क्षेत्रपालास्तथा तत्र बुभुक्षुः सुरपुङ्गवान् ।
काली चापि विदार्यैव तान्पपौ रुधिरं बहु ॥ १८॥
अथ विष्णुर्महातेजा युयुधे तैश्च शत्रुहा ।
चक्रं चिक्षेप वेगेन दहन्निव दिशो दश ॥ १९॥
क्षेत्रपालः समायान्तं चक्रमालोक्य वेगतः ।
तत्रागत्यागतो वीरश्चाग्रसत्सहसा बली ॥ २०॥
चक्रं ग्रसितमालोक्य विष्णुः परपुरञ्जयः ।
मुखं तस्य परामृज्य तमुद्गालितवानरिम् ॥ २१॥
स्वचक्रमादाय महानुभावः चुकोप चातीव भवैकभर्ता ।
महाबली तैर्युयुधे प्रवीरैः सङ्क्रुद्धनानायुधधारकोऽस्त्रैः ॥ २२॥
चक्रे महारणं विष्णुः तैः सार्धं युयुधे मुदा ।
नानायुधानि सङ्क्षिप्य तुमुलं भीमविक्रमम् ॥ २३॥
अथ ते भैरवाद्याश्च युयुधुस्तेन भूरिशः ।
नानास्त्राणि विमुञ्चन्तः सङ्कुद्धाः परमौजसा ॥ २४॥
इत्थं तेषां रणं दृष्ट्वा हरिणातुलतेजसा ।
विनिवृत्य समागम्य तान्स्वयं युयुधे बली ॥ २५॥
अथ विष्णुर्महातेजाश्चक्रमुद्यम्य मूर्च्छितः ।
युयुधे भगवांस्तेन वीरभद्रेण माधवः ॥ २६॥