२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 26: रुद्रसंहितायां द्वितीये सतीखण्डे विष्णुवीरभद्रसंवादो, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 74 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
२.२.३६. षट्त्रिंशोऽध्यायः ।
विष्णुवीरभद्रसंवादः ।
ब्रह्मोवाच ।
इन्द्रोऽपि प्रहसन् विष्णुमात्मवादरतं तदा ।
वज्रपाणिः सुरैः सार्धं योद्धुकामोऽभवत्तदा ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
तदेन्द्रो गजमारूढो बस्तारूढोऽनलस्तथा ।
यमो महिषमारूढो निरृतिः प्रेतमेव च ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
पाशी च मकरारूढो मृगारूढः सदागतिः ।
कुबेरः पुष्पकारूढः सन्नद्धोऽभूदतन्द्रितः ॥ ३॥
॥
द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
तथान्ये सुरसङ्घाश्च यक्षचारणगुह्यकाः ।
आरुह्य वाहनान्येव स्वानि स्वानि प्रतापिनः ॥ ४॥
तेषामुद्योगमालोक्य दक्षश्चासृङ्मुखस्तथा ।
तदन्तिकं समागत्य सकलत्रोऽभ्यभाषत ॥ ५॥
दक्ष उवाच ।
युष्मद्बलेनैव मया यज्ञः प्रारम्भितो महान् ।
सत्कर्मसिद्धये यूयं प्रमाणाः स्युर्महाप्रभाः ॥ ६॥
ब्रह्मोवाच ।
तच्छ्रुत्वा दक्षवचनं सर्वे देवाः सवासवाः ।
निर्ययुस्त्वरितं तत्र युद्धं कर्तुं समुद्यताः ॥ ७॥
अथ देवगणाः सर्वे युयुधुस्ते बलान्विताः ।
शक्रादयो लोकपाला मोहिताः शिवमायया ॥ ८॥
देवानां च गणानां च तदासीत्समरो महान् ।
तीक्ष्णतोमरनाराचैर्युयुधुस्ते परस्परम् ॥ ९॥
नेदुः शङ्खाश्च भेर्यश्च तस्मिन् रणमहोत्सवे ।
महादुन्दुभयो नेदुः पटहा डिण्डिमादयः ॥ १०॥
तेन शब्देन महता श्लाघ्यमानास्तदा सुराः ।
लोकपालैश्च सहिता जघ्नुस्तान् शिवकिङ्करान् ॥ ११॥
इन्द्राद्यैर्लोकपालैश्च गणाः शम्भोः पराङ्मुखाः ।
कृताश्च मुनिशार्दूल भृगोर्मन्त्रबलेन च ॥ १२॥
उच्चाटनं कृतं तेषां भृगुणा यज्वना तदा ।
यजनार्थं च देवानां तुष्ट्यर्थं दीक्षितस्य च ॥ १३॥
पराजितान् स्वकान् दृष्ट्वा वीरभद्रो रुषान्वितः ।
भूतप्रेतपिशाचांश्च कृत्वा तानेव पृष्ठतः ॥ १४॥
वृषभस्थान् पुरस्कृत्य स्वयं चैव महाबलः ।
महात्रिशूलमादाय पातयामास निर्जरान् ॥ १५॥
देवान् यक्षान् साध्यगणान् गुह्यकान् चारणानपि ।
शूलघातैश्च ते सर्वे गणा वेगात् प्रजघ्निरे ॥ १६॥
केचिद् द्विधा कृताः खड्गैर्मुद्गरैश्च विपोथिताः ।
अन्यैः शस्त्रैरपि सुरा गणैर्भिन्नास्तदाभवन् ॥ १७॥
एवं पराजिताः सर्वे पलायनपरायणाः ।
परस्परं परित्यज्य गता देवास्त्रिविष्टपम् ॥ १८॥
केवलं लोकपालास्ते शक्राद्यास्तस्थुरुत्सुकाः ।
सङ्ग्रामे दारुणे तस्मिन् धृत्वा धैर्यं महाबलाः ॥ १९॥
सर्वे मिलित्वा शक्राद्या देवास्तत्र रणाजिरे ।
बृहस्पतिं च पप्रच्छुर्विनयावनतास्तदा ॥ २०॥
लोकपाला ऊचुः ।
गुरो बृहस्पते तात महाप्राज्ञ दयानिधे ।
शीघ्रं वद पृच्छतो नः कुतोऽस्माकं जयो भवेत् ॥ २१॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तेषां स्मृत्वा शम्भुं प्रयत्नवान् ।
बृहस्पतिरुवाचेदं महेन्द्रं ज्ञानदुर्बलम् ॥ २२॥
बृहस्पतिरुवाच ।
यदुक्तं विष्णुना पूर्वं तत्सर्वं जातमद्य वै ।
तदेव विवृणोमीन्द्र सावधानतया शृणु ॥ २३॥
अस्ति यश्चेश्वरः कश्चित् फलदः सर्वकर्मणाम् ।
कर्तारं भजते सोऽपि न स्वकर्तुः प्रभुर्हि सः ॥ २४॥
न मन्त्रौषधयः सर्वे नाभिचारा न लौकिकाः ।
न कर्माणि न वेदाश्च न मीमांसाद्वयं तथा ॥ २५॥
अन्यान्यपि च शास्त्राणि नानावेदयुतानि च ।
ज्ञातुं नेशं सम्भवन्ति वदन्त्येवं पुरातनाः ॥ २६॥