Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं

Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 1

२.२.३५. पञ्चत्रिंशोऽध्यायः ।

विष्णुवचनम् ।

दक्ष उवाच ।

देवदेव हरे विष्णो दीनबन्धो कृपानिधे ।

मम रक्षा विधातव्या भवता साध्वरस्य च ॥ १॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 2

रक्षकस्त्वं मखस्यैव मखकर्मा मखात्मकः ।

कृपा विधेया यज्ञस्य भङ्गो भवतु न प्रभो ॥ २॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 3

ब्रह्मोवाच ।

इत्थं बहुविधां दक्षः कृत्वा विज्ञप्तिमादरात् ।

पपात पादयोस्तस्य भयव्याकुलमानसः ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 4

॥

द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 4

उत्थाप्य तं ततो विष्णुर्दक्षं विक्लिन्नमानसम् ।

श्रुत्वा च तस्य तद्वाक्यं कुमतेरस्मरच्छिवम् ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 5

स्मृत्वा शिवं महेशानं स्वप्रभुं परमेश्वरम् ।

अवदच्छिवतत्त्वज्ञो दक्षं सम्बोधयन्हरिः ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 6

हरिरुवाच ।

श‍ृणु दक्ष प्रवक्ष्यामि तत्त्वतः श‍ृणु मे वचः ।

सर्वथा ते हितकरं महामन्त्रसुखप्रदम् ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 7

अवज्ञा हि कृता दक्ष त्वया तत्त्वमजानता ।

सकलाधीश्वरस्यैव शङ्करस्य परात्मनः ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 8

ईश्वरावज्ञया सर्वं कार्यं भवति सर्वथा ।

विफलं केवलं नैव विपत्तिश्च पदे पदे ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 9

अपूज्या यत्र पूज्यन्ते पूजनीयो न पूज्यते ।

त्रीणि तत्र भविष्यन्ति दारिद्र्यं मरणं भयम् ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 10

तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः ।

अमानितान्महेशाच्च महद्भयमुपस्थितम् ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 11

अद्यापि न वयं सर्वे प्रभवः प्रभवामहे ।

भवतो दुर्नयेनैव मया सत्यमुदीर्यते ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 12

ब्रह्मोवाच ।

विष्णोस्तद्वचनं श्रुत्वा दक्षश्चिन्तापरोऽभवत् ।

विवर्णवदनो भूत्वा तूष्णीमासीद्भुवि स्थितः ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 13

एतस्मिन्नन्तरे वीरभद्रः सैन्यसमन्वितः ।

अगच्छदध्वरं रुद्रप्रेरितो गणनायकः ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 14

पृष्ठे केचित्समायाता गगने केचिदागताः ।

दिशश्च विदिशः सर्वे समावृत्य तथापरे ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 15

शर्वाज्ञया गणाः शूरा निर्भया रुद्रविक्रमाः ।

असङ्ख्याः सिंहनादान्वै कुर्वन्तो वीरसत्तमाः ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 16

तेन नादेन महता नादितं भुवनत्रयम् ।

रजसा चावृतं व्योम तमसा चावृता दिशः ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 17

सप्तद्वीपान्विता पृथ्वी चचालाति भयाकुला ।

सशैलकानना तत्र चुक्षुभुः सकलाब्धयः ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 18

एवम्भूतं च तत्सैन्यं लोकक्षयकरं महत् ।

दृष्ट्वा च विस्मिताः सर्वे बभूवुरमरादयः ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 19

सैन्योद्योगमथालोक्य दक्षश्चासृङ्मुखाकुलः ।

दण्डवत्पतितो विष्णुं सकलत्रोऽभ्यभाषत ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 20

दक्ष उवाच ।

भवद्बलेनैव मया यज्ञः प्रारम्भितो महान् ।

सत्कर्मसिद्धये विष्णो प्रमाणं त्वं महाप्रभो ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 21

विष्णो त्वं कर्मणां साक्षी यज्ञानां प्रतिपालकः ।

धर्मस्य वेदगर्भस्य ब्रह्मणस्त्वं महाप्रभो ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 22

तस्माद्रक्षा विधातव्या यज्ञस्यास्य मम प्रभो ।

त्वदन्यः कः समर्थोऽस्ति यतस्त्वं सकलप्रभुः ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 23

ब्रह्मोवाच ।

दक्षस्य वचनं श्रुत्वा विष्णुर्दीनतरं तदा ।

अवोचद् बोधयंस्तं वै शिवतत्त्वपराङ्मुखम् ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 24

विष्णुरुवाच ।

मया रक्षा विधातव्या तव यज्ञस्य दक्ष वै ।

ख्यातो मम पणः सत्यो धर्मस्य परिपालनम् ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 25

तत्सत्यं तु त्वयोक्तं हि किं तत्तस्य व्यतिक्रमः ।

श‍ृणु त्वं वच्म्यहं दक्ष क्रूरबुद्धिं त्यजाधुना ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 25: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं, Verse 26

नैमिषेऽनिमिषक्षेत्रे यज्जातं वृत्तमद्भुतम् ।

तत् किं न स्मर्यते दक्ष विस्मृतं किं कुबुद्धिना ॥ २६॥