Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 1

२.२.३४. चतुस्त्रिंशोऽध्यायः ।

यज्ञवाटे देवानां दुःशकुनदर्शनम् ।

ब्रह्मोवाच ।

एवं प्रचलिते चास्मिन् वीरभद्रे गणान्विते ।

दुष्टचिह्नानि दक्षेण दृष्टानि विबुधैरपि ॥ १॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 2

उत्पाता विविधाश्चासन् वीरभद्रे गणान्विते ।

त्रिविधा अपि देवर्षे यज्ञविध्वंससूचकाः ॥ २॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 3

दक्षवामाक्षिबाहूरुविस्पन्दः समजायत ।

नानाकष्टप्रदस्तात सर्वथाशुभसूचकः ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 4

॥

द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 4

भूकम्पः समभूत्तत्र दक्षयागस्थले तदा ।

दक्षोऽपश्यच्च मध्याह्ने नक्षत्राण्यद्भुतानि च ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 5

दिशश्चासन्सुमलिनाः कर्बुरोऽभूद्दिवाकरः ।

परिवेषसहस्रेण सङ्क्रान्तश्च भयङ्करः ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 6

नक्षत्राणि पतन्ति स्म विद्युदग्निप्रभाणि च ।

नक्षत्राणामभूद्वक्रा गतिश्चाधोमुखी तदा ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 7

गृध्रा दक्षशिरः स्पृष्ट्वा समुद्भूताः सहस्रशः ।

आसीद् गृध्रपक्षच्छायैः सच्छायो यागमण्डपः ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 8

ववाशिरे यागभूमौ क्रोष्टारो नेत्रकस्तदा ।

उल्कावृष्टिरभूत्तत्र श्वेतवृश्चिकसम्भवा ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 9

खरा वाता ववुस्तत्र पांशुवृष्टिसमन्विताः ।

शलभाश्च समुद्भूता विवर्तानिलकम्पिताः ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 10

नीतश्च पवनैरूर्ध्वं स दक्षाध्वरमण्डपः ।

दैवान्वितेन दक्षेण यः कृतो नूतनोऽद्भुतः ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 11

वेमुर्दक्षादयः सर्वे तदा शोणितमद्भुतम् ।

वेमुश्च मांसखण्डानि सशल्यानि मुहुर्मुहुः ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 12

सकम्पाश्च बभूवुस्ते दीपा वातहता इव ।

दुःखिताश्चाभवन्सर्वे शस्त्रधाराहता इव ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 13

तदा निनादजातानि बाष्पवर्षाणि तत्क्षणे ।

प्रातस्तुषारवर्षीणि पद्मानीव वनान्तरे ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 14

दक्षाद्यक्षीणि जातानि ह्यकस्माद्विशदान्यपि ।

निशायां कमलाश्चैव कुमुदानीव सङ्गवे ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 15

असृग्ववर्ष देवश्च तिमिरेणावृता दिशः ।

दिग्दाहोऽभूद्विशेषेण त्रासयन् सकलाञ्जनान् ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 16

एवंविधान्यरिष्टानि ददृशुर्विबुधादयः ।

भयमापेदिरेऽत्यन्तं मुने विष्ण्वादिकास्तदा ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 17

भुवि ते मूर्छिताः पेतुर्हा हताः स्म इतीरयन् ।

तरवस्तीरसञ्जाता नदीवेगहता इव ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 18

पतित्वा ते स्थिता भूमौ क्रूराः सर्पा हता इव ।

कन्दुका इव ते भूयः पतिताः पुनरुत्थिताः ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 19

ततस्ते तापसन्तप्ता रुरुदुः कुररी इव ।

रोदनध्वनिसङ्क्रातोरुक्तिप्रत्युक्तिका इव ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 20

सवैकुण्ठास्ततः सर्वे तदा कुण्ठितशक्तयः ।

स्वस्वोपकण्ठमाकण्ठं लुलुठुः कमठा इव ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 21

एतस्मिन्नन्तरे तत्र सञ्जाता चाशरीरवाक् ।

श्रावयत्यखिलान् देवान् दक्षं चैव विशेषतः ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 22

आकाशवाण्युवाच ।

धिक् जन्म तव दक्षाद्य महामूढोऽसि पापधीःस् ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 23

भविष्यति महद्दुःखमनिवार्यं हरोद्भवम् । २२॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 23

सहायिनोऽत्र ये मूढास्तव देवादयः स्थिताः ।

तेषामपि महद्दुःखं भविष्यति न संशयः ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 24

ब्रह्मोवाच ।

तच्छ्रुत्वाकाशवचनं दृष्ट्वारिष्टानि तानि च ।

दक्षः प्रापद्भयं चाति परे देवादयोऽपि ह ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 24: रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं, Verse 25

वेपमानस्तदा दक्षो विकलश्चाति चेतसि ।

अगच्छच्छरणं विष्णोः स्वप्रभोरिन्दिरापतेः ॥ २५॥