२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 23: रुद्रसंहितायां द्वितीये सतीखण्डे वीरभद्रयात्रावर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
२.२.३३. त्रयस्त्रिंशोऽध्यायः ।
वीरभद्रयात्रा ।
ब्रह्मोवाच ।
इत्युक्तं श्रीमहेशस्य श्रुत्वा वचनमादरात् ।
वीरभद्रोऽतिसन्तुष्टः प्रणनाम महेश्वरम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
॥
श्रीशिवमहापुराणम् ॥
शिवोऽथ प्रेषयामास शोभार्थं कोटिशो गणान् ।
तेन सार्धं महावीरान्प्रलयानलसन्निभान् ॥ ३॥
॥
द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
अथ ते वीरभद्रस्य पुरतः प्रबला गणाः ।
पश्चादपि ययुर्वीराः कुतूहलकरा गणाः ॥ ४॥
शासनं शिरसा धृत्वा देवदेवस्य शूलिनः ।
प्रचचाल ततः शीघ्रं वीरभद्रो मखं प्रति । २॥
वीरभद्रसमेता ये गणाः शतसहस्रशः ।
पार्षदाः कालकालस्य सर्वे रुद्रस्वरूपिणः ॥ ५॥
गणैः समेतः किल तैर्महात्मा स वीरभद्रो हरवेषभूषणः ।
सहस्रबाहुर्भुजगाधिपाढ्यो ययौ रथस्थः प्रबलोऽतिभीकरः ॥ ६॥
नल्वानं च सहस्रे द्वे प्रमाणं स्यन्दनस्य हि ।
अयुतेनैव सिंहानां वाहनानां प्रयत्नतः ॥ ७॥
तथैव प्रबलाः सिंहा बहवः पार्श्वरक्षकाः ।
शार्दूला मकरा मत्स्या गजास्तत्र सहस्रशः ॥ ८॥
वीरभद्रे प्रचलिते दक्षनाशाय सत्वरम् ।
कल्पवृक्षसमुत्सृष्टा पुष्पवृष्टिरभूत्तदा ॥ ९॥
तुष्टुवुश्च गणा वीरं शिपिविष्टे प्रचेष्टितम् ।
चक्रुः कुतूहलं सर्वे तस्मिंश्च गमनोत्सवे ॥ १०॥
काली कात्यायनीशानी चामुण्डा मुण्डमर्दिनी ।
भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा ॥ ११॥
एताभिर्नवदुर्गाभिर्महाकाली समन्विता ।
ययौ दक्षविनाशाय सर्वभूतगणैः सह । १२॥
डाकिनी शाकिनी चैव भूतप्रमथगुह्यकाः ।
कूष्माण्डाः पर्पटाश्चैव चटका ब्रह्मराक्षसाः ॥ १३॥
भैरवाः क्षेत्रपालाश्च दक्षयज्ञविनाशकाः ।
निर्ययुस्त्वरितं वीराः शिवाज्ञाप्रतिपालकाः ॥ १४॥
तथैव योगिनीचक्रं चतुःषष्टिगणान्वितम् ।
निर्ययौ सहसा क्रुद्धं दक्षयज्ञं विनाशितुम् ॥ १५॥
तेषां गणानां सर्वेषां सङ्ख्यानं शृणु नारद ।
महाबलवतां सङ्घो मुख्यानां धैर्यशालिनाम् ॥ १६॥
अभ्ययाच्छङ्कुकर्णश्च दशकोट्या गणेश्वरः ।
दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ॥ १७॥
चतुःषष्ट्या विशाखश्च नवभिः पारियात्रिकः ।
षड्भिः सर्वाङ्कको वीरस्तथैव विकृताननः ॥ १८॥
ज्वालकेशो द्वादशभिः कोटिभिर्गणपुङ्गवः ।
सप्तभिः समदज्जीमान् दुद्रभोऽष्टाभिरेव च ॥ १९॥
पञ्चभिश्च कपालीशः षड्भिः सन्दारको गणः ।
कोटिकोटिभिरेवेह कोटिकुण्डस्तथैव च ॥ २०॥
विष्टम्भोऽष्टाष्टभिर्वीरैः कोटिभिर्गणसत्तमः ।
सहस्रकोटिभिस्तात सन्नादः पिप्पलस्तथा ॥ २१॥
आवेशनस्तथाष्टाभिरष्टाभिश्चन्द्रतापनः ।
महावेशः सहस्रेण कोटिना गणपो वृतः ॥ २२॥
कुण्डी द्वादशकोटीभिस्तथा पर्वतको मुने ।
विनाशितुं दक्षयज्ञं निर्ययौ गणसत्तमः ॥ २३॥
कालश्च कालकश्चैव महाकालस्तथैव च ।
कोटीनां शतकेनैव दक्षयज्ञं ययौ प्रति ॥ २४॥
अग्निकृच्छतकोट्या च कोट्याग्निमुख एव च ।
आदित्यमूर्धा कोट्या च तथा चैव घनावहः ॥ २५॥
सन्नाहः शतकोट्या च कोट्या च कुमुदो गणः ।
अमोघः कोकिलश्चैव कोटिकोट्या गणाधिपः ॥ २६॥