१ विद्येश्वरसंहिता, अध्याय 5: विद्येश्वरसंहितायां देवानां कैलासयात्रावर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
विद्येश्वरसंहिता १.६. षष्ठोऽध्यायः ।
कैलासयात्रावर्णनम् ।
नन्दिकेश्वर उवाच ।
पुरा कदाचिद्योगीन्द्र विष्णुर्विषधरासनः ।
सुष्वाप परया भूत्या स्वानुगैरपि संवृतः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
यदृच्छयागतस्तत्र ब्रह्मा ब्रह्मविदां वरः ।
अपृच्छत् पुण्डरीकाक्षं शयानं सर्वसुन्दरम् ॥ २॥
कस्त्वं पुरुषवच्छेषे दृष्ट्वा मामपि दृप्तवत् ।
उत्तिष्ठ वत्स मां पश्य तव नाथमिहागतम् ॥ ३॥
आगतं गुरुमाराध्यं दृष्ट्वा यो दृप्तवच्चरेत् ।
द्रोहिणस्तस्य मूढस्य प्रायश्चित्तं विधीयते ॥ ४॥
इति श्रुत्वा वचः क्रुद्धो बहिः शान्तवदाचरन् ।
स्वस्ति ते स्वागतं वत्स तिष्ठ पीठमितो विश ॥ ५॥
किमु ते व्यग्रवद्वक्त्रं विभाति विषमेक्षणम् ।
ब्रह्मोवाच - वत्स विष्णो महामानमागतं कालवेगतः ॥ ६॥
पितामहश्च जगतः पाता च तव वत्सक ।
विष्णुरुवाच - मत्स्थं जगदिदं वत्स मनुषे त्वं हि चोरवत् ॥ ७॥
मन्नाभिकमलाज्जातः पुत्रस्त्वं भाषसे वृथा ।
नन्दिकेश्वर उवाच ।
एवं हि वदतोस्तत्र मुग्धयोरजयोस्तदा ॥ ८॥
अहमेव वरो न त्वमहं प्रभुरहं प्रभुः ।
परस्परं हन्तुकामौ चक्रतुः समरोद्यमम् ॥ ९॥
युयुधातेऽमरौ वीरौ हंसपक्षीन्द्रवाहनौ ।
वैरञ्च्या वैष्णवाश्चैवं मिथो युयुधिरे तदा ॥ १०॥
तावद्विमानगतयः सर्वा वै देवजातयः ।
दिदृक्षवः समाजग्मुः समरं तं महाद्भुतम् ॥ ११॥
क्षिपन्तः पुष्पवर्षाणि पश्यन्तः स्वैरमम्बरे ।
सुपर्णवाहनस्तत्र क्रुद्धो वै ब्रह्मवक्षसि ॥ १२॥
मुमोच बाणानसहानस्त्रांश्च विविधान् बहून् ।
मुमोचाथ विधिः क्रुद्धो विष्णोरुरसि दुःसहान् ॥ १३॥
बाणाननलसङ्काशानस्त्रांश्च बहुशस्तदा ।
तदाश्चर्यमिति स्पष्टं तयोः समरगोचरम् ॥ १४॥
समीक्ष्य दैवतगणाः शशंसुर्भृशमाकुलाः ।
ततो विष्णुः सुसङ्क्रुद्धः श्वसन् व्यसनकर्शितः ॥ १५॥
माहेश्वरास्त्रं मतिमान् सन्दधे ब्रह्मणोपरि ।
ततो ब्रह्मा भृशं क्रुद्धः कम्पयन् विश्वमेव हि ॥ १६॥
अस्त्रं पाशुपतं घोरं सन्दधे विष्णुवक्षसि ।
ततस्तदुत्थितं व्योम्नि तपनायुतसन्निभम् ॥ १७॥
सहस्रमुखमत्युग्रं चण्डवातभयङ्करम् ।
अस्त्रद्वयमिदं तत्र ब्रह्मविष्ण्वोर्भयङ्करम् ॥ १८॥
इत्थं बभूव समरं ब्रह्मविष्ण्वोः परस्परम् ।
ततो देवगणाः सर्वे विषण्णा भृशमाकुलाः ।
ऊचुः परस्परं तात राजक्षोभे यथा द्विजाः ॥ १९॥
सृष्टिः स्थितिश्च संहारस्तिरोभावोऽप्यनुग्रहः ।
यस्मात् प्रवर्तते तस्मै ब्रह्मणे च त्रिशूलिने ॥ २०॥
अशक्यमन्यैर्यदनुग्रहं विना तृणक्षयोऽप्यत्र यदृच्छया क्वचित् ॥ २१॥
इति देवा भयं कृत्वा विचिन्वन्तः शिवक्षयम् ।
जग्मुः कैलासशिखरं यत्रास्ते चन्द्रशेखरः ॥ २२॥
दृष्ट्वैवममरा हृष्टाः पदं तत्पारमेश्वरम् ।
प्रणेमुः प्रणवाकारं प्रविष्टास्तत्र सद्मनि ॥ २३॥
तेऽपि तत्र सभामध्ये मण्डपे मणिविष्टरे ।
विराजमानमुमया ददृशुर्देवपुङ्गवम् ॥ २४॥
सव्योत्तरेतरपदं तदर्पितकराम्बुजम् ।
स्वगणैः सर्वतो जुष्टं सर्वलक्षणलक्षितम् ॥ २५॥
वीज्यमानं विशेषज्ञैः स्त्रीजनैस्तीव्रभावनैः ।
शंस्यमानं सदा वेदैरनुगृह्णन्तमीश्वरम् ॥ २६॥
दृष्ट्वैवमीशममराः सन्तोषसलिलेक्षणाः ।
दण्डवद् दूरतो वत्स नमश्चक्रुर्महागणाः ॥ २७॥
तानवेक्ष्य पतिर्देवान् समीपे चाह्वयद् गणैः ।
अथ संह्लादयन् देवान् देवो देवशिखामणिः ।
अवोचदथ गम्भीरं वचनं मधुमङ्गलम् ॥ २८॥