२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 20: रुद्रसंहितायां द्वितीये सतीखण्डे यज्ञप्रारम्भो, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
२.२.२७. सप्तविंशोऽध्यायः ।
दक्षयज्ञारम्भः ।
ब्रह्मोवाच ।
एकदा तु मुने तेन यज्ञः प्रारम्भितो महान् ।
तत्राहूतास्तदा सर्वे दीक्षितेन सुरर्षयः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
महर्षयोऽखिलास्तत्र निर्जराश्च समागताः ।
यद्यज्ञकरणार्थं हि शिवमायाविमोहिताः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
अगस्त्यः कश्यपोऽत्रिश्च वामदेवस्तथा भृगुः ।
दधीचिर्भगवान् व्यासो भारद्वाजोऽथ गौतमः ॥ ३॥
॥
द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
पैलः पराशरो गर्गो भार्गवः ककुभः सितः ।
सुमन्तुत्रिककङ्काश्च वैशम्पायन एव च ॥ ४॥
एते चान्ये च बहवो मुनयो हर्षिता ययुः ।
मम पुत्रस्य दक्षस्य सदाराः ससुता मखम् ॥ ५॥
तथा सर्वे सुरगणा लोकपाला महोदयाः ।
तथोपनिर्जराः सर्वे स्वोपकारबलान्विताः ॥ ६॥
सत्यलोकात्समानीतो नुतोऽहं विश्वकारकः ।
ससुतः सपरीवारो मूर्तवेदादिसंयुतः ॥ ७॥
वैकुण्ठाच्च तथा विष्णुः सम्प्रार्थ्य विविधादरात् ।
सपार्षदपरीवारः समानीतो मखं प्रति ॥ ८॥
एवमन्ये समायाता दक्षयज्ञं विमोहिताः ।
सत्कृतास्तेन दक्षेण सर्वे ते हि दुरात्मना ॥ ९॥
भवनानि महार्हाणि सुप्रभाणि महान्ति च ।
त्वष्ट्रा कृतानि दिव्यानि तेभ्यो दत्तानि तेन वै ॥ १०॥
तेषु सर्वेषु धिष्ण्येषु यथायोग्यं च संस्थिताः ।
सन्मानिता अराजंस्ते सकला विष्णुना मया ॥ ११॥
वर्तमाने महायज्ञे तीर्थे कनखले तदा ।
ऋत्विजश्च कृतास्तेन भृग्वाद्याश्च तपोधनाः ॥ १२॥
अधिष्ठाता स्वयं विष्णुः सह सर्वमरुद्गणैः ।
अहं तत्राभवं ब्रह्मा त्रयीविधिनिदर्शकः ॥ १३॥
तथैव सर्वे दिक्पाला द्वारपालाश्च रक्षकाः ।
सायुधाः सपरीवाराः कुतूहलकराः सदा ॥ १४॥
उपतस्थे स्वयं यज्ञः सुरूपस्तस्य चाध्वरे ।
सर्वे महामुनिश्रेष्ठाः स्वयं वेदधराभवन् ॥ १५॥
तनूनपादपि निजं चक्रे रूपं सहस्रशः ।
हविषां ग्रहणायाशु तस्मिन् यज्ञे महोत्सवे ॥ १६॥
अष्टाशीतिसहस्राणि जुह्वति सह ऋत्विजः ।
उद्गातारश्चतुःषष्टिसहस्राणि सुरर्षयः ॥ १७॥
अध्वर्यवोऽथ होतारस्तावन्तो नारदादयः ।
सप्तर्षयः समा गाथाः कुर्वन्ति स्म पृथक्पृथक् ॥ १८॥
गन्धर्वविद्याधरसिद्धसङ्घा- नादित्यसङ्घान् सगणान् सयज्ञान् ।
सङ्ख्यावतान्नागचरान् समस्तान् वव्रे स दक्षो हि महाध्वरे स्वे ॥ १९॥
द्विजर्षिराजर्षिसुरर्षिसङ्घा नृपाः समित्राः सचिवाः ससैन्याः ।
वसुप्रमुख्या गणदेवताश्च सर्वे वृतास्तेन मखोपवेत्त्रा ॥ २०॥
दीक्षायुक्तस्तदा दक्षः कृतकौतुकमङ्गलः ।
भार्यया सहितो रेजे कृतस्वस्त्ययनो भृशम् ॥ २१॥
तस्मिन् यज्ञे वृतः शम्भुर्न दक्षेण दुरात्मना ।
कपालीति विनिश्चित्य तस्य यज्ञार्हता न हि ॥ २२॥
कपालिभार्येति सती दयिता स्वसुतापि च ।
नाहूता यज्ञविषये दक्षेणागुणदर्शिना ॥ २३॥
एवं प्रवर्तमाने हि दक्षयज्ञे महोत्सवे ।
स्वकार्यलग्नास्तत्रासन् सर्वे तेऽध्वरसम्मताः ॥ २४॥
एतस्मिन्नन्तरेऽदृष्ट्वा तत्र वै शङ्करं प्रभुम् ।
प्रोद्विग्नमानसः शैवो दधीचो वाक्यमब्रवीत् ॥ २५॥
दधीच उवाच ।
सर्वे शृणुत मद्वाक्यं देवर्षिप्रमुखा मुदा ।
कस्मान्नैवागतः शम्भुरस्मिन् यज्ञे महोत्सवे ॥ २६॥