Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो

Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 1

२.२.२६. षड्विंशोऽध्यायः ।

शिवसतीवियोगः ।

ब्रह्मोवाच ।

पुराभवच्च सर्वेषामध्वरो विधिना महान् ।

प्रयागे समवेतानां मुनीनां च महात्मनाम् ॥ १॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 2

तत्र सिद्धाः समायाताः सनकाद्याः सुरर्षयः ।

सप्रजापतयो देवा ज्ञानिनो ब्रह्मदर्शिनः ॥ २॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 3

अहं समागतस्तत्र परिवारसमन्वितः ।

निगमैरागमैर्युक्तो मूर्तिमद्भिर्महाप्रभैः ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 4

॥

द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 4

समाजोऽभूद्विचित्रो हि तेषामुत्सवसंयुतः ।

ज्ञानवादोऽभवत्तत्र नानाशास्त्रसमुद्भवः ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 5

तस्मिन्नवसरे रुद्रः सभवानीगणः प्रभुः ।

त्रिलोकहितकृत्स्वामी तत्रागात्सूतिकृन्मुने ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 6

दृष्ट्वा शिवं सुराः सर्वे सिद्धाश्च मुनयस्तथा ।

अनमंस्तं प्रभुं भक्त्या तुष्टुवुश्च तथा ह्यहम् ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 7

तस्थुः शिवाज्ञया सर्वे यथास्थानं मुदान्विताः ।

प्रभुदर्शनसन्तुष्टाः वर्णयन्तो निजं विधिम् ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 8

तस्मिन्नवसरे दक्षः प्रजापतिपतिः प्रभुः ।

आगमत्तत्र सुप्रीतः सुवर्चस्वी यदृच्छया ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 9

मां प्रणम्य स दक्षो हि न्युष्टस्तत्र मदाज्ञया ।

ब्रह्माण्डाधिपतिर्मान्यो मानी तत्त्वबहिर्मुखः ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 10

स्तुतिभिः प्रणिपातैश्च दक्षः सर्वैः सुरर्षिभिः ।

पूजितो वरतेजस्वी करौ वध्वा विनम्रकैः ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 11

नानाविहारकृन्नाथः स्वतन्त्रः परमोतिकृत् ।

नानामत्तं तदा दक्षं स्वासनस्थो महेश्वरः ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 12

दृष्ट्वानतं हरं तत्र स मे पुत्रोऽप्रसन्नधीः ।

अकुप्यत्सहसा रुद्रे तदा दक्षः प्रजापतिः ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 13

क्रूरदृष्ट्या महागर्वो दृष्ट्वा रुद्रं महाप्रभुम् ।

सर्वान्संश्रावयन्नुच्चैरवोचज्ज्ञानवर्जितः ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 14

दक्षवाच ।

एते हि सर्वे च सुरासुरा भृशं नमन्ति मां विप्रवरास्तथर्षयः ।

कथं ह्यसौ दुर्जनवन्महामना त्वभूत्तु यः प्रेतपिशाचसंवृतः ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 15

श्मशानवासी निरपत्रपो ह्ययं कथं प्रणामं न करोति मेऽधुना ।

लुप्तक्रियो भूतपिशाचसेवितो मत्तोऽविधो नीतिविदूषकः सदा ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 16

पाखण्डिनो दुर्जनपापशीला दृष्ट्वा द्विजं प्रोद्धतनिन्दकाञ्च ।

वध्वां सदासक्तरतिप्रवीण- स्तस्मादमुं शप्तुमहं प्रवृत्तः ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 17

ब्रह्मोवाच ।

इत्येवमुक्त्वा स महाखलस्तदा रुषान्वितो रुद्रमिदं ह्यवोचत् ।

श‍ृण्वन्त्वमी विप्रवरास्तथा सुरा वध्यं हि मे चार्हथ कर्तुमेतम् ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 18

दक्ष उवाच ।

रुद्रो ह्ययं यज्ञबहिष्कृतो मे वर्णेष्वतीतोऽथ विवर्णरूपः ।

देवैर्न भागं लभतां सहैव श्मशानवासी कुलजन्महीनः ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 19

ब्रह्मोवाच ।

इति दक्षोक्तमाकर्ण्य भृग्वाद्या बहवो जनाः ।

अगर्हयन् दुष्टसत्त्वं रुद्रं मत्त्वामरैः समम् ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 20

नन्दी निशम्य तद्वाक्यं लोलाक्षोऽतिरुषान्वितः ।

अब्रवीत् त्वरितं दक्षं शापं दातुमना गणः ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 21

नन्दीश्वर उवाच ।

रे रे शठ महामूढ दक्ष दुष्टमते त्वया ।

यज्ञबाह्यो हि मे स्वामी महेशो हि कृतः कथम् ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 22

यस्य स्मरणमात्रेण भवन्ति सफला मखाः ।

तीर्थानि च पवित्राणि सोऽयं शप्तो हरः कथम् ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 23

वृथा ते ब्रह्मचापल्याच्छप्तोऽयं दक्ष दुर्मते ।

वृथोपहसितश्चैवादुष्टो रुद्रो महाप्रभुः ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 24

येनेदं पाल्यते विश्वं सृष्टमन्ते विनाशितम् ।

शप्तोऽयं स कथं रुद्रो महेशो ब्राह्मणाधम ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 25

एवं निर्भत्सितस्तेन नन्दिना हि प्रजापतिः ।

नन्दिनं च शशापाथ दक्षो रोषसमन्वितः ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 19: रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो, Verse 26

दक्ष उवाच ।

यूयं सर्वे रुद्रगणा वेदबाह्या भवन्तु वै ।

वेदमार्गपरित्यक्तास्तथा त्यक्ता महर्षिभिः ॥ २६॥