Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो

Containing 73 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 1

२.२.२५. पञ्चविंशोऽध्यायः ।

शिवसतीवियोगः ।

श्रीराम उवाच ।

एकदा हि पुरा देवि शम्भुः परमसूतिकृत् ।

विश्वकर्माणमाहूय स्वलोके परतः परे ॥ १॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 2

तेन स्वधेनुशालायां कारयामास विस्तृतम् ।

रम्यं च भवनं सम्यक् तत्र सिंहासनं वरम् ॥ २॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 3

तत्र च्छत्रं महादिव्यं सर्वदाद्भुतमुत्तमम् ।

कारयामास विघ्नार्थं शङ्करो विश्वकर्मणा ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 4

॥

द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 4

शक्रादीनां जुहावाशु समस्तान् देवतागणान् ।

सिद्धगन्धर्वनागादीनुपदेवांश्च कृत्स्नशः ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 5

देवान् सर्वानागमांश्च विधिपुत्रान् मुनीनपि ।

देवीः सर्वा अप्सरोभिर्नानावस्तुसमन्विताः ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 6

देवानां च तथर्षीणां सिद्धानां फणिनामपि ।

आनयन् मङ्गलकराः कन्याः षोडश षोडश ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 7

वीणामृदङ्गप्रमुखवाद्यान्नानाविधान् मुने ।

उत्सवं कारयामास वादयित्वा सुगायनैः ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 8

राजाभिषेकयोग्यानि द्रव्याणि सकलौषधैः प्रत्यक्षतीर्थपाथोभिः पञ्चकुम्भांश्च पूरितान् । ८॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 9

तथान्याः संविधा दिव्या आनयत्स्वगणैस्तदा ।

ब्रह्मघोषं महारावं कारयामास शङ्करः ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 10

अथो हरिं समाहूय वैकुण्ठात्प्रीतमानसः ।

तद्भक्त्या पूर्णया देवि मोदति स्म महेश्वरः ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 11

सुमुहूर्ते महादेवस्तत्र सिंहासने वरे ।

उपवेश्य हरिं प्रीत्या भूषयामास सर्वशः ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 12

आबद्धरम्यमुकुटं कृतकौतुकमङ्गलम् ।

अभ्यषिञ्चन्महेशस्तु स्वयं ब्रह्माण्डमण्डपे ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 13

दत्तवान्निखिलैश्वर्यं यन्नैजं नान्यगामि यत् ।

ततस्तुष्टाव तं शम्भुः स्वतन्त्रो भक्तवत्सलः ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 14

ब्रह्माणं लोककर्तारमवोचद्वचनं त्विदम् ।

व्यापयन्स्वं वराधीनं स्वतन्त्रं भक्तवत्सलः ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 15

महेश उवाच ।

अतः प्रभृति लोकेश मन्निदेशादयं हरिः ।

मम वन्द्यः स्वयं विष्णुर्जातः सर्वः श‍ृणोति हि ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 16

सर्वैर्देवादिभिस्तात प्रणम त्वममुं हरिम् ।

वर्णयन्तु हरिं वेदा ममैते मामिवाज्ञया ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 17

श्रीराम उवाच ।

इत्युक्त्वाथ स्वयं रुद्रोऽनमद्वै गरुडध्वजम् ।

विष्णुभक्तिप्रसन्नात्मा वरदो भक्तवत्सलः ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 18

ततो ब्रह्मादिभिर्देवैः सर्वरूपसुरैस्तथा ।

मुनिसिद्धादिभिश्चैव वन्दितोऽभूद्धरिस्तदा ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 19

ततो महेशो हरयेऽशंसद्दिविषदां पुरः ।

महावरान् सुप्रसन्नो दत्तवान् भक्तवत्सलः ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 20

महेश उवाच ।

त्वं कर्ता सर्वलोकानां भर्ता हर्ता मदाज्ञया ।

दाता धर्मार्थकामानां शास्ता दुर्णयकारिणाम् ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 21

जगदीशो जगत्पूज्यो महाबलपराक्रमः ।

अजेयस्त्वं रणे क्वापि ममापि हि भविष्यसि ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 22

शक्तित्रयं गृहाण त्वमिच्छादि प्रापितं मया ।

नानालीलाप्रभावत्वं स्वतन्त्रत्वं भवत्रये ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 23

त्वद्द्वेष्टारो हरे नूनं मया शास्याः प्रयत्नतः ।

त्वद्भक्तानां मया विष्णो देयं निर्वाणमुत्तमम् ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 24

मायां चापि गृहाणेमां दुःप्रणोद्यां सुरादिभिः ।

यया सम्मोहितं विश्वमचिद्रूपं भविष्यति ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 25

मम बाहुर्मदीयस्त्वं दक्षिणोऽसौ विधिर्हरे ।

अस्यापि हि विधेः पाता जनितापि भविष्यसि ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 18: रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो, Verse 26

हृदयं मम यो रुद्रः स एवाहं न संशयः ।

पूज्यस्तव सदा सोऽपि ब्रह्मादीनामपि ध्रुवम् ॥ २६॥