२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 17: रुद्रसंहितायां द्वितीये सतीखण्डे रामपरीक्षावर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
२.२.२४. चतुर्विंशोऽध्यायः ।
रामपरीक्षावर्णनम् ।
नारद उवाच ।
ब्रह्मन् विधे प्रजानाथ महाप्राज्ञ कृपाकर ।
श्रावितं शङ्करयशः सतीशङ्करयोः शुभम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
इदानीं ब्रूहि सत्प्रीत्या परं तद्यश उत्तमम् ।
किमकार्ष्टां हि तत्स्थौ वै चरितं दम्पती शिवौ ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
ब्रह्मोवाच ।
सतीशिवचरित्रं च शृणु मे प्रेमतो मुने ।
लौकिकीं गतिमाश्रित्य चिक्रीडाते सदान्वहम् ॥ ३॥
॥
द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
ततः सती महादेवी वियोगमलभन्मुने ।
स्वपतः शङ्करस्येति वदन्त्येके सुबुद्धयः ॥ ४॥
वागर्थाविव सम्पृक्तौ शक्तीशौ सर्वदा चितौ ।
कथं घटेत च तयोर्वियोगस्तत्त्वतो मुने ॥ ५॥
लीलारुचित्वादथवा सङ्घटेताखिलं च तत् ।
कुरुते यद्यदीशौ च सतीशौ भवरीतिगौ ॥ ६॥
सा त्यक्ता दक्षजा दृष्ट्वा पतिना जनकाध्वरे ।
शम्भोरनादरात्तत्र देहं तत्याज सङ्गता ॥ ७॥
पुनर्हिमालये सैवाविर्भूता नामतः सती ।
पार्वतीति शिवं प्राप तप्त्वा भूरि विवाहतः ॥ ८॥
सूत उवाच ।
इत्याकर्ण्य वचस्तस्य ब्रह्मणः स तु नारदः ।
पप्रच्छ च विधातारं शिवाशिवमहद्यशः ॥ ९॥
नारद उवाच ।
विष्णुशिष्य महाभाग विधे मे वद विस्तरात् ।
शिवाशिवचरित्रं तद्भवाचारपरानुगम् ॥ १०॥
किमर्थं शङ्करो जायां तत्याज प्राणतः प्रियाम् ।
तस्मादाचक्ष्व मे तात विचित्रमिति मन्महे ॥ ११॥
कुतोऽध्वरेऽजः पुत्रस्यानादरोऽभूच्छिवस्य ते ।
कथं तत्याज सा देहं गत्वा तत्र पितुः क्रतौ ॥ १२॥
ततः किमभवत्तत्र किमकार्षीन्महेश्वरः ।
तत्सर्वं मे समाचक्ष्व श्रद्धायुक् तच्छ्रुतावहम् ॥ १३॥
ब्रह्मोवाच ।
शृणु तात परप्रीत्या मुनिभिः सह नारद ।
सुतवर्य महाप्राज्ञ चरितं शशिमौलिनः ॥ १४॥
नमस्कृत्य महेशानं हर्यादिसुरसेवितम् ।
परब्रह्म प्रवक्ष्यामि तच्चरित्रं महाद्भुतम् ॥ १५॥
सर्वेयं शिवलीला हि बहुलीलाकरः प्रभुः ।
स्वतन्त्रो निर्विकारी च सती सापि हि तद्विधा ॥ १६॥
अन्यथा कः समर्थो हि तत्कर्मकरणे मुने ।
परमात्मा परब्रह्म स एव परमेश्वरः ॥ १७॥
यं सदा भजते श्रीशोऽहं चापि सकलाः सुराः ।
मुनयश्च महात्मानः सिद्धाश्च सनकादयः ॥ १८॥
शेषः सदा यशो यस्य मुदा गायति नित्यशः ।
पारं न लभते तात स प्रभुः शङ्करः शिवः ॥ १९॥
तस्यैव लीलया सर्वोऽयमिति तत्त्वविभ्रमः ।
तत्र दोषो न कस्यापि सर्वव्यापी स प्रेरकः ॥ २०॥
एकस्मिन्समये रुद्रः सत्या त्रिभवने भवः ।
वृषमारुह्य पर्याटद्रसां लीलाविशारदः ॥ २१॥
आगत्य दण्डकारण्यं पर्यटन् सागराम्बराम् ।
दर्शयन् तत्रगां शोभां सत्यै सत्यपणः प्रभुः ॥ २२॥
तत्र रामं ददर्शासौ लक्ष्मणेनान्वितं हरः ।
अन्विष्यन्तं प्रियां सीतां रावणेन हृतां छलात् ॥ २३॥
हा सीतेति प्रोच्चरन्तं विरहाविष्टमानसम् ।
यतस्ततश्च पश्यन्तं रुदन्तं हि मुहुर्मुहुः ॥ २४॥
समिच्छन्तं च तत्प्राप्तिं पृच्छन्तं तद्गतिं हृदा ।
कुजादिभ्यो नष्टधियमत्रपं शोकविह्वलम् ॥ २५॥
सूर्यवंशोद्भवं वीरं भूपं दशरथात्मजम् ।
भरताग्रजमानन्दरहितं विगतप्रभम् ॥ २६॥