Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं

Containing 72 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 1

२.२.१५. पञ्चदशोऽध्यायः ।

नन्दाव्रतविधानं शिवस्तुतिकथनञ्च ।

ब्रह्मोवाच ।

अथैकदा पितुः पार्श्वे तिष्ठन्तीं तां सतीमहम् ।

त्वया सह मुनेऽद्राक्षं सारभूतां त्रिलोकके ॥ १॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 2

पित्रा नमस्कृतं वीक्ष्य सत्कृतं त्वां च मां सती ।

प्रणनाम मुदा भक्त्या लोकलीलानुसारिणी ॥ २॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 3

प्रणामान्ते सतीं वीक्ष्य दक्षदत्तशुभासने ।

स्थितोऽहं नारद त्वं च विनतामहमागदम् ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 4

॥

द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 4

त्वामेव यः कामयते यं तु कामयसे सति ।

तमाप्नुहि पतिं देवं सर्वज्ञं जगदीश्वरम् ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 5

यो नान्यां जगृहे नापि गृह्णाति न ग्रहीष्यति ।

जायां स ते पतिर्भूयादनन्यसदृशः शुभे ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 6

इत्युक्त्वा सुचिरं तां वै स्थित्वा दक्षालये पुनः ।

विसृष्टौ तेन संयातौ स्वस्थानं तौ च नारद ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 7

दक्षोऽभवच्च सुप्रीतस्तदाकर्ण्य गतज्वरः ।

आददे तनयां स्वां तां मत्वा हि परमेश्वरीम् ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 8

इत्थं विहारै रुचिरैः कौमारैर्भक्तवत्सला ।

जहाववस्थां कौमारीं स्वेच्छाधृतनराकृतिः ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 9

बाल्यं व्यतीत्य सा प्राप किञ्चिद्यौवनतां सती ।

अतीव तपसाङ्गेन सर्वाङ्गेषु मनोहरा ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 10

दक्षस्तां वीक्ष्य लोकेशः प्रोद्भिन्नान्तर्वयःस्थिताम् ।

चिन्तयामास भर्गाय कथं दास्य इमां सुताम् ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 11

अथ सापि स्वयं भर्गं प्राप्तुमैच्छत्तदान्वहम् ।

पितुर्मनोगतिं ज्ञात्वा मातुर्निकटमागता ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 12

पप्रच्छाज्ञां तपोहेतोः शङ्करस्य विशालधीः ।

मातुः शिवाथ वीरिण्याः सा सती परमेश्वरी ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 13

ततः सती महेशानं पतिं प्राप्तुं दृढव्रता ।

सा तमाराधयामास गृहे मातुरनुज्ञया ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 14

आश्विने मासि नन्दायां तिथावानर्च भक्तितः ।

गुडौदनैः सलवणैर्हरं नत्वा निनाय तम् ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 15

कार्तिकस्य चतुर्दश्यामपूपैः पायसैरपि ।

समाकीर्णैः समाराध्य सस्मार परमेश्वरम् ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 16

मार्गशीर्षेऽसिताष्टम्यां सतिलैः सयवौदनैः ।

पूजयित्वा हरं कीलैर्निनाय दिवसान् सती ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 17

पौषे तु शुक्लसप्तम्यां कृत्वा जागरणं निशि ।

अपूजयच्छिवं प्रातः कृशरान्नेन सा सती ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 18

माघे तु पौर्णमास्यां सा कृत्वा जागरणं निशि ।

आर्द्रवस्त्रा नदीतीरेऽकरोच्छङ्करपूजनम् ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 19

तपस्यासितभूतायां कृत्वा जागरणं निशि ।

विशेषतः समानर्च शैलूषैः सर्वयामसु ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 20

चैत्रे शुक्लचतुर्दश्यां पलाशैर्दमनैः शिवम् ।

अपूजयद्दिवारात्रौ संस्मरन् सा निनाय तम् ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 21

माघशुक्लतृतीयायां तिलाहारयवौदनैः ।

पूजयित्वा सती रुद्रं गव्यैर्मासं निनाय तम् ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 22

ज्येष्ठस्य पूर्णिमायां वै रात्रौ सम्पूज्य शङ्करम् ।

वसनैर्बृहतीपुष्पैर्निराहारा निनाय तम् ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 23

आषाढस्य चतुर्दश्यां शुक्लायां कृष्णवाससा ।

बृहतीकुसुमैः पूजा रुद्रस्याकारि वै तथा ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 24

श्रावणस्य सिताष्टम्यां चतुर्दश्यां च सा शिवम् ।

यज्ञोपवीतैर्वासोभिः पवित्रैरप्यपूजयत् ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 25

भाद्रे कृष्णत्रयोदश्यां पुष्पैर्नानाविधैः फलैः ।

सम्पूज्य च चतुर्दश्यां चकार जलभोजनम् ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 13: रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं, Verse 26

नानाविधैः फलैः पुष्पैः सस्यैस्तत्कालसम्भवैः ।

चक्रे सुनियताहारा जपन्मासे शिवार्चनम् ॥ २६॥