२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 12: रुद्रसंहितायां सतीखण्डे सतीजन्मबाललीलावर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
२.२.१४. चतुर्दशोऽध्यायः ।
सतीजन्म तस्या बाललीला च ।
ब्रह्मोवाच ।
एतस्मिन्नन्तरे देवमुने लोकपितामहः ।
तत्रागममहं प्रीत्या ज्ञात्वा तच्चरितं द्रुतम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
असान्त्वयमहं दक्षं पूर्ववत्सुविचक्षणः ।
अकार्षं तेन सुस्नेहं तव सुप्रीतिमावहन् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
स्वात्मजं मुनिवर्यं त्वां सुप्रीत्या देववल्लभम् ।
समाश्वास्य समादाय प्रत्यपद्ये स्वधाम ह ॥ ३॥
॥
द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
ततः प्रजापतिर्दक्षोऽनुनीतो मे निजस्त्रियाम् ।
जनयामास दुहितॄः सुभगाः षष्टिसम्मिताः ॥ ४॥
तासां विवाहं कृतवान् धर्मादिभिरतन्द्रितः ।
तदेव शृणु सुप्रीत्या प्रवदामि मुनीश्वर ॥ ५॥
ददौ दश सुता दक्षो धर्माय विधिवन्मुने ।
त्रयोदश कश्यपाय मुनये त्रिनवेन्दवे ॥ ६॥
भूताङ्गिरः कृशाश्श्वाभ्यां द्वे द्वे पुत्र्यौ प्रदत्तवान् ।
तार्क्ष्याय चापराः कन्याः प्रसूतिप्रसवैर्यतः ॥ ७॥
त्रिलोकाः पूरितास्तन्नो वर्ण्यते व्यासतो भयात् । ८॥
केचिद्वदन्ति तां ज्येष्ठां मध्यमां चापरे शिवाम् ।
सर्वानन्तरजां केचित्कल्पभेदात् त्रयं च सत् ॥ ९॥
अनन्तरं सुतोत्पत्तेः सपत्नीकः प्रजापतिः ।
दक्षो दधौ सुप्रीत्या तां मनसा जगदम्बिकाम् ॥ १०॥
अतः प्रेम्णा च तुष्टाव गिरा गद्गदया हि सः ।
भूयो भूयो नमस्कृत्य साञ्जलिर्विनयान्वितः ॥ ११॥
सन्तुष्टा सा तदा देवी विचारं मनसीति च ।
चक्रेऽवतारं वीरिण्यां कुर्यां पणविपूर्तये ॥ १२॥
अथ सोवास मनसि दक्षस्य जगदम्बिका ।
विललास तदातीव स दक्षो मुनिसत्तम ॥ १३॥
सुमुहूर्तेन दक्षोऽपि स्वपत्न्यां निदधे मुदा ।
दक्षपत्न्यास्तदा चित्ते शिवोवास दयान्विता ॥ १४॥
आविर्बभूव चिह्नानि दोहदस्याखिलानि वै । १५॥
विरेजे वीरिणी तात हृष्टचित्ताधिकं च सा ।
शिवावासप्रभावात्तु महामङ्गलरूपिणी ॥ १६॥
कुलस्य सम्प्रदायैश्च श्रुतेश्चित्तसमुन्नतेः ।
व्यधत्त सुक्रिया दक्षः प्रीत्या पुंसवनादिकाः ॥ १७॥
उत्सवोऽतीव सञ्जातस्तदा तेषु च कर्मसु ।
वित्तं ददौ द्विजातिभ्यो यथाकामं प्रजापतिः ॥ १८॥
अथ तस्मिन्नवसरे सर्वे हर्यादयः सुराः ।
ज्ञात्वा गर्भगतां देवीं वीरिण्यां ते मुदं ययुः ॥ १९॥
तत्रागत्य च सर्वे ते तुष्टुवुर्जगदम्बिकाम् ।
लोकोपकारकरिणीं प्रणम्य च मुहुर्मुहुः ॥ २०॥
कृत्वा ततस्ते बहुधा प्रशंसां हृष्टमानसाः ।
दक्षप्रजापतेश्चैव वीरिण्याः स्वगृहं ययुः ॥ २१॥
गतेषु नवमासेषु कारयित्वा च लौकिकीम् ।
गतिं शिवा च पूर्णे सा दशमे मासि नारद ॥ २२॥
आविर्बभूव पुरतो मातुः सद्यस्तदा मुने ।
मुहूर्ते सुखदे चन्द्रग्रहतारानुकूलके ॥ २३॥
तस्यां तु जातमात्रायां सुप्रीतोऽसौ प्रजापतिः ।
शैवदेवीति तां मेने दृष्ट्वा तां तेजसोल्बणाम् ॥ २४॥
तदाभूत्पुष्पसद्वृष्टिर्मेघाश्च ववृषुर्जलम् ।
दिशः शान्ता द्रुतं तस्यां जातायां च मुनीश्वर ॥ २५॥
अवादयन्त त्रिदशाः शुभवाद्यानि खे गताः ।
जज्ज्वलुश्चाग्नयः शान्ताः सर्वमासीत्सुमङ्गलम् ॥ २६॥