Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं

Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 1

विद्येश्वरसंहिता १.४. चतुर्थोऽध्यायः ।

श्रवणकीर्तमननानां श्रेष्ठत्वम् ।

मुनय ऊचुः ।

मननं कीदृशं ब्रह्मञ्छ्रवणं चापि कीदृशम् ।

कीर्तनं वा कथं तस्य कीर्तयैतद्यथायथम् ॥ १॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 1

विद्येश्वरसंहिता १.५. पञ्चमोऽध्यायः ।

शिवल्लिङ्गमहिमवर्णनम् ।

सूत उवाच ।

श्रवणादित्रिकेऽशक्तो लिङ्गं वेरं च शाङ्करम् ।

संस्थाप्य नित्यमभ्यर्च्य तरेत् संसारसागरम् ॥ १॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 2

ब्रह्मोवाच ।

पूजाजपेशगुणरूपविलासनाम्नां युक्तिप्रियेण मनसा परिशोधनं यत् ।

तत्सन्ततं मननमीश्वरदृष्टिलभ्यं सर्वेषु साधनवरेष्वपि मुख्यमुख्यम् ॥ २॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 2

अपि द्रव्यं वहेदेव यथाबलमवञ्चयन् ।

अर्पयेल्लिङ्गवेरार्थमर्चयेदपि सन्ततम् ॥ २॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 3

गीतात्मना श्रुतिपदेन च भाषया वा शम्भुप्रतापगुणरूपविलासनाम्नाम् ।

वाचा स्फुटं तु रसवत् स्तवनं यदस्य तत्कीर्तनं भवति साधनमत्र मध्यम् ॥ ३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 3

मण्डपं गोपुरं तीर्थं मठं क्षेत्रं तथोत्सवम् ।

वस्त्रं गन्धं च माल्यं च धूपं दीपं च भक्तितः ॥ ३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 4

येनापि केन करणेन च शब्दपुञ्जं यत्र क्वचिच्छिवपरं श्रवणेन्द्रियेण ।

स्त्रीकेलिवद् दृढतरं प्रणिधीयते यत् तद्वै बुधाः श्रवणमत्र जगत्प्रसिद्धम् ॥ ४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 4

विविधान्नं च नैवेद्यमपूपव्यञ्जनैर्युतम् ।

छत्रं ध्वजं च व्यजनं चामरं चापि साङ्गकम् ॥ ४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 5

सत्सङ्गमेन भवति श्रवणं पुरस्तात् सङ्कीर्तनं पशुपतेरथ तद् दृढं स्यात् ।

सर्वोत्तमं भवति तन्मननं तदन्ते सर्वं हि सम्भवति शङ्करदृष्टिपाते ॥ ५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 5

राजोपचारवत् सर्वं धारयेल्लिङ्गवेरयोः ।

प्रदक्षिणां नमस्कारं यथाशक्ति जपं तथा ॥ ५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 6

सूत उवाच ।

अस्मिन् साधनमाहात्म्ये पुरा वृत्तं मुनीश्वराः ।

युष्मदर्थं प्रवक्ष्यामि श‍ृणुध्वमवधानतः ॥ ६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 6

आवाहनादि सर्गान्तं नित्यं कुर्यात् सुभक्तितः ।

इत्थमभ्यर्च्ययन् देवं लिङ्गे वेरे च शाङ्करे ॥ ६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 7

पुरा मम गुरुर्व्यासः पराशरमुनेः सुतः ।

तपश्चचार सम्भ्रान्तः सरस्वत्यास्तटे शुभे ॥ ७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 7

सिद्धिमेति शिवप्रीत्या हित्वापि श्रवणादिकम् ।

लिङ्गवेरार्चनामात्रान्मुक्ताः पुर्वे महाजनाः ॥ ७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 8

गच्छन् यदृच्छया तत्र विमानेनार्करोचिषा ।

सनत्कुमारो भगवान् ददर्श मम देशिकम् ॥ ८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 8

मुनय ऊचुः ।

वेरमात्रे तु सर्वत्र पूज्यन्ते देवतागणाः ।

लिङ्गे वेरे च सर्वत्र कथं सम्पूज्यते शिवः ॥ ८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 9

ध्यानारूढः प्रबुद्धोऽसौ ददर्श तमजात्मजम् ।

प्रणिपत्याह सम्भ्रान्तः परं कौतूहलं मुनिः ॥ ९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 9

सूत उवाच ।

अहो मुनीश्वराः पुण्यं प्रश्नमेतन्महाद्भुतम् ।

अत्र वक्ता महादेवो नान्योऽस्ति पुरुषः क्वचित् ॥ ९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 10

दत्त्वार्घ्यमस्मै प्रददौ देवयोग्यं च विष्टरम् ।

प्रसन्नः प्राह तं प्रह्वं प्रभुर्गम्भीरया गिरा ॥ १०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 10

शिवेनोक्तं प्रवक्ष्यामि क्रमाद् गुरुमुखाच्छ्रुतम् ।

शिवैको ब्रह्मरूपत्वान्निष्कलः परिकीर्तितः ॥ १०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 11

सनत्कुमार उवाच सत्यं वस्तु मुने दध्याः साक्षात्करणगोचरः ।

स शिवोऽथ सहायोऽत्र तपश्चरसि किङ्कृते ॥ ११॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 11

रूपित्वात् सकलस्तद्वत्तस्मात् सकलनिष्कलः ।

निष्कलत्वान्निराकारं लिङ्गं तस्य समागतम् ॥ ११॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 12

एवमुक्तः कुमारेण प्रोवाच स्वाशयं मुनिः ।

धर्मार्थकाममोक्षाश्च वेदमार्गे कृतादराः ॥ १२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 12

सकलत्वात् तथा वेरं साकारं तस्य सङ्गतम् ।

सकलाकलरूपत्वाद् ब्रह्मशब्दाभिधः परः ॥ १२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 13

बहुधा स्थापिता लोके मया त्वत्कृपया तथा ।

एवं भूतस्य मेऽप्येवं गुरुभूतस्य सर्वतः ॥ १३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 13

अपि लिङ्गे च वेरे च नित्यमभ्यर्च्यते जनैः ।

अब्रह्मत्वात्तदन्येषां निष्कलत्वं न हि क्वचित् ॥ १३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 14

मुक्तिसाधनकं ज्ञानं नोदेति परमाद्भुतम् ।

तपश्चरामि मुक्त्यर्थं न जाने तत्र कारणम् ॥ १४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 4: विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं, Verse 14

तस्मात्ते निष्कले लिङ्गे नाराध्यन्ते सुरेश्वराः ।

अब्रह्मत्वाच्च जीवत्वात्तथान्ये देवतागणाः ॥ १४॥