२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 11: रुद्रसंहितायां द्वितीये सतीखण्डे दक्षसृष्टौ नारदशापो, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
२.२.१३. त्रयोदशोऽध्यायः ।
दक्षसृष्टौ नारदशापः ।
नारद उवाच ।
ब्रह्मन् विधे महाप्राज्ञ वद नो वदतां वर ।
दक्षे गृहं गते प्रीत्या किमभूत्तदनन्तरम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
ब्रह्मोवाच ।
दक्षः प्रजापतिर्गत्वा स्वाश्रमं हृष्टमानसः ।
सर्गं चकार बहुधा मानसं मम चाज्ञया ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः ।
दक्षो निवेदयामास ब्रह्मणे जनकाय मे ॥ ३॥
॥
द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
दक्ष उवाच ।
ब्रह्मंस्तात प्रजानाथ वर्धन्ते न प्रजाः प्रभो मया विरचिताः सर्वास्तावत्यो हि स्थिताः खलु ॥ ४॥
किं करोमि प्रजानाथ वर्धेयुः कथमात्मना ।
तदुपायं समाचक्ष्व प्रजाः कुर्यां न संशयः ॥ ५॥
ब्रह्मोवाच ।
दक्ष प्रजापते तात शृणु मे परमं वचः ।
तत्कुरुष्व सुरश्रेष्ठ शिवस्ते शं करिष्यति ॥ ६॥
या च पञ्चजनस्याङ्गसुता रम्या प्रजापतेः ।
असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ ७॥
वामव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः ।
तद्विधायां च कामिन्यां भूरिशो भावयिष्यसि ॥ ८॥
ब्रह्मोवाच ततःसमुत्पादयितुं प्रजा मैथुनधर्मतः ।
उपयेमे वीरणस्य निदेशान्मे सुतां ततः ॥ ९॥
अथ तस्यां स्वपत्न्यां च वीरिण्यां स प्रजापतिः ।
हर्यश्वसंज्ञानयुतं दक्षः पुत्रानजीजनत् ॥ १०॥
अपृथग्धर्मशीलास्ते सर्व आसन् सुता मुने ।
पितृभक्तिरता नित्यं वेदमार्गपरायणाः ॥ ११॥
पितृप्रोक्ताः प्रजासर्गकरणार्थं ययुर्दिशम् ।
प्रतीचीं तपसे तात सर्वे दाक्षायणाः सुताः ॥ १२॥
तत्र नारायणसरस्तीर्थं परमपावनम् ।
सङ्गमो यत्र सञ्जातो दिव्यसिन्धुसमुद्रयोः ॥ १३॥
तदुपस्पर्शनादेव प्रोत्पन्नमतयोऽभवन् ।
धर्मे पारमहंसे च विनिर्धूतमलाशयाः ॥ १४॥
प्रजाविवृद्धये ते वै तेपिरे तत्र सत्तमाः ।
दाक्षायणा दृढात्मानः पित्रादेशेसुयन्त्रिता ॥ १५॥
त्वं च तान् नारद ज्ञात्वा तपतः सृष्टिहेतवे ।
अगमस्तत्र भूरीणि हार्दमाज्ञाय मापतेः ॥ १६॥
अदृष्ट्वा तं भुवः सृष्टिं कथं कर्तुं समुद्यताः ।
हर्यश्वा दक्षतनया इत्यवोचंस्तमादरत् ॥ १७॥
ब्रह्मोवाच तं निशम्याथ हर्यश्वास्ते त्वदुक्तमतन्द्रिताः ।
औत्पत्तिकधियः सर्वे स्वयं विममृशुर्भृशम् ॥ १८॥
सुशास्त्रजनकादेशं यो न वेद निवर्तकम् ।
स कथं गुणविश्रम्भी कर्तुं सर्गमुपक्रमेत् ॥ १९॥
इति निश्चित्य ते पुत्राः सुधियश्चैकचेतसः ।
प्रणम्य तं परिक्रम्यायुर्मार्गमनिवर्तकम् ॥ २०॥
नारद त्वं मनः शम्भोर्लोकानन्यचरो मुने ।
निर्विकारो महेशानमनोवृत्तिकरस्तदा ॥ २१॥
काले गते बहुतरे मम पुत्रः प्रजापतिः ।
नाशं निशम्य पुत्राणां नारदादन्वतप्यत ॥ २२॥
मुहुर्मुहुरुवाचेति सुप्रजत्वं शुचां पदम् ।
शुशोच बहुशो दक्षः शिवमायाविमोहितः ॥ २३॥
अहमागत्य सुप्रीत्या सान्त्वयं दक्षमात्मजम् ।
शान्तिभावं प्रदर्श्यैव दैवं प्रबलमित्युत ॥ २४॥
अथ दक्षः पञ्चजन्यां मया स परिसान्त्वितः ।
सबलाश्वाभिधान् पुत्रान् सहस्रं चाप्यजीजनत् ॥ २५॥
तेऽपि जग्मुस्तत्र सुताः पित्रादिष्टा दृढव्रताः ।
प्रजासर्गे यत्र सिद्धाः स्वपूर्वभ्रातरो ययुः ॥ २६॥