२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 9: रुद्रसहितायां द्वितीये सतीखण्डे ब्रह्मविष्णुसंवादो, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
२.२.१०. दशमोऽध्यायः ।
ब्रह्मविष्णुसंवादः ।
नारद उवाच ।
ब्रह्मन् विधे महाभाग धन्यस्त्वं शिवसक्तधीः ।
कथितं सुचरित्रं ते शङ्करस्य परात्मनः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
निजाश्रमे गते कामे सगणे सरतौ ततः ।
किमासीत्किमकार्षीस्त्वं तश्चरित्रं वदाधुना ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
ब्रह्मोवाच ।
शृणु नारद सुप्रीत्या चरित्रं शशिमौलिनः ।
यस्य श्रवणमात्रेण निर्विकारो भवेन्नरः ॥ ३॥
॥
द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
निजाश्रमं गते कामे परिवारसमन्विते ।
यद् बभूव तदा जातं तच्चरित्रं निबोध मे ॥ ४॥
नष्टोऽभून्नारद मदो विस्मयोऽभूच्च मे हृदि ।
निरानन्दस्य च मुनेऽपूर्णे निजमनोरथे ॥ ५॥
अशोचं बहुधा चित्ते गृह्णीयात्स कथं स्त्रियम् ।
निर्विकारो जितात्मा स शङ्करो योगतत्परः ॥ ६॥
इत्थं विचार्य बहुधा तदाहं विमदो मुने ।
हरिं तं सोऽस्मरं भक्त्या शिवात्मानं स्वदेहदम् ॥ ७॥
अस्तवं च शुभस्तोत्रैर्दीनवाक्यसमन्वितैः ।
तच्छ्रुत्वा भगवानाशु बभूवाविर्हि मे पुरा ॥ ८॥
चतुर्भुजोऽरविन्दाक्षः शङ्खपद्मगदाधरः ।
लसत्पीतपटः श्यामतनुर्भक्तप्रियो हरिः ॥ ९॥
तं दृष्ट्वा तादृशमहं सुशरण्यं मुहुर्मुहुः ।
अस्तवं च पुनः प्रेम्णा बाष्पगद्गदया गिरा ॥ १०॥
हरिराकर्ण्य तत्स्तोत्रं सुप्रसन्न उवाच माम् ।
दुःखहा निजभक्तानां ब्रह्माणं शरणं गतम् ॥ ११॥
हरिरुवाच ।
विधे ब्रह्मन् महाप्राज्ञ धन्यस्त्वं लोककारक ।
किमर्थं स्मरणं मेऽद्य कृतं च क्रियते नुतिः ॥ १२॥
किं जातं ते महद्दुःखं मदग्रे तद्वदाधुना ।
शमयिष्यामि तत्सर्वं नात्र कार्या विचारणा ॥ १३॥
ब्रह्मोवाच ।
इति विष्णोर्वचः श्रुत्वा किञ्चिदुच्छ्वसिताननः ।
अवोचं वचनं विष्णुं प्रणम्य सुकृताञ्जलिः ॥ १४॥
देवदेव रमानाथ मद्वार्तां शृणु मानद ।
श्रुत्वा च करुणां कृत्वा हर दुःखं कमावह ॥ १५॥
रुद्रसम्मोहनार्थं हि कामं प्रेषितवानहम् ।
परिवारयुतं विष्णो समारमधुबान्धवम् ॥ १६॥
चक्रुस्ते विविधोपायान् निष्फला अभवंश्च ते ।
नाभवत्तस्य सम्मोहो योगिनः समदर्शिनः ॥ १७॥
इत्याकर्ण्य वचो मे स हरिर्मां प्राह विस्मितः ।
विज्ञाताखिलदो ज्ञानी शिवतत्त्वविशारदः ॥ १८॥
विष्णुरुवाच ।
कस्माद्धेतोरिति मतिस्तव जाता पितामह ।
सर्वं विचार्य सुधिया ब्रह्मन् सत्यं हि तद्वद ॥ १९॥
ब्रह्मोवाच ।
शृणु तात चरित्रं तत् तव माया विमोहिनी ।
तदधीनं जगत्सर्वं सुखदुःखादितत्परम् ॥ २०॥
ययैव प्रेषितश्चाहं पापं कर्तुं समुद्यतः ।
आसं तच्छृणु देवेश वदामि तव शासनात् ॥ २१॥
सृष्टिप्रारम्भसमये दश पुत्रा हि जज्ञिरे ।
दक्षाद्यास्तनया चैका वाग्भवाप्यतिसुन्दरी ॥ २२॥
धर्मो वक्षःस्थलात्कामो मनसोऽन्योऽपि देहतः ।
जातास्तत्र सुतां दृष्ट्वा मम मोहोऽभवद्धरे ॥ २३॥
कुदृष्ट्या तां समद्राक्षं तव मायाविमोहितः ।
तत्क्षणाद्धर आगत्य मामनिन्दत्सुतानपि ॥ २४॥
धिक्कारं कृतवान् सर्वान् निजं मत्वा परं प्रभुम् ।
ज्ञानिनं योगिनं नाथं भोगिनं विजितेन्द्रियम् ॥ २५॥
पुत्रो भूत्वा मम हरेऽनिन्दन्मां च समक्षतः ।
इति दुःखं महन्मे हि तदुक्तं तव सन्निधौ ॥ २६॥