२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 7: रुद्रसंहितायां द्वितीये सतीखण्डे अरुन्धतीवसिष्ठविवाहवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
२.२.७. सप्तमोऽध्यायः ।
सन्ध्याया अरुन्धतीनामप्राप्तीर्वसिष्ठेन सह विवाहश्च ।
ब्रह्मोवाच ।
वरं दत्त्वा मुने तस्मिन् शम्भावन्तर्हिते तदा ।
सन्ध्याप्यगच्छत्तत्रैव यत्र मेधातिथिर्मुनिः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
तत्र शम्भोः प्रसादेन न केनाप्युपलक्षिता ।
सस्मार वर्णिनं तं वै स्वोपदेशकरं तपः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
वसिष्ठेन पुरा सा तु वर्णीभूत्वा महामुने ।
उपदिष्टा तपश्चर्तुं वचनात्परमेष्ठिनः ॥ ३॥
॥
द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
तमेव कृत्वा मनसा तपश्चर्योपदेशकम् ।
पतित्वेन तदा सन्ध्या ब्राह्मणं ब्रह्मचारिणम् ॥ ४॥
समिद्धेऽग्नौ महायज्ञे मुनिभिर्नोपलक्षिता ।
हृष्टा शम्भुप्रसादेन सा विवेश विधेः सुता ॥ ५॥
तस्याः पुरोडाशमयं शरीरं तत्क्षणात्ततः ।
दग्धं हव्यमयं गन्धं तस्तार यदलक्षितम् ॥ ६॥
वह्निस्तस्याः शरीरं तु दग्ध्वा सूर्यस्य मण्डलम् ।
शुद्धं प्रवेशयामास शम्भोरेवाज्ञया पुनः ॥ ७॥
सूर्यो द्वयर्धं विभज्याथ तच्छरीरं तदा रथे ।
स्वके संस्थापयामास प्रीतये पितृदेवयोः ॥ ८॥
तदूर्ध्वभागस्तस्यास्तु शरीरस्य मुनीश्वर ।
प्रातःसन्ध्याभवत्सा तु अहोरात्रादिमध्यगा ॥ ९॥
तच्छेषभागस्तस्यास्तु अहोरात्रान्तमध्यगा ॥
सा सायमभवत्सन्ध्या पितृप्रीतिप्रदा सदा ॥ १०॥
सूर्योदयात्तु प्रथमं यदा स्यादरुणोदयः ।
प्रातःसन्ध्या तदोदेति देवानां प्रीतिकारिणी ॥ ११॥
अस्तं गते ततः सूर्ये शोणपद्मनिभे सदा ।
उदेति सायंसन्ध्यापि पितॄणां मोदकारिणी ॥ १२॥
तस्याः प्राणास्तु मनसा शम्भुनाथ दयालुना ।
दिव्येन तु शरीरेण चक्रिरे हि शरीरिणः ॥ १३॥
मुनेर्यज्ञावसाने तु सम्प्राप्ते मुनिना तु सा ।
प्राप्ता पुत्री वह्निमध्ये तप्तकाञ्चनसुप्रभा ॥ १४॥
तां जग्राह तदा पुत्रीं मुनिरामोदसंयुतः ।
यज्ञार्थं तां तु संस्नाप्य निजक्रोडे दधौ मुने ॥ १५॥
अरुन्धतीति तस्यास्तु नाम चक्रे महामुनिः ।
शिष्यैः परिवृतस्तत्र महामोदमवाप ह ॥ १६॥
न रुणद्धि यतो धर्मं सा कस्मादपि कारणात् ।
अतस्त्रिलोके विदितं नाम सम्प्राप तत्स्वयम् ॥ १७॥
यज्ञं समाप्य स मुनिः कृतकृत्यभाव- मासाद्य सम्मदयुतस्तनयाप्रलम्भात् ।
तस्मिन्निजाश्रमपदे सह शिष्यवर्गै- स्तामेव सन्ततमसौ दयते सुरर्षे ॥ १८॥
अथ सा ववृधे देवी तस्मिन्मुनिवराश्रमे ।
चन्द्रभागानदीतीरे तापसारण्यसंज्ञके ॥ १९॥
सम्प्राप्ते पञ्चमे वर्षे चन्द्रभागां तदा गुणैः ।
तापसारण्यमपि सा पवित्रमकरोत्सती ॥ २०॥
विवाहं कारयामासुस्तस्या ब्रह्मसुतेन वै ।
वसिष्ठेन ह्यरुन्धत्या ब्रह्मविष्णुमहेश्वराः ॥ २१॥
तद्विवाहे महोत्साहो बभूव सुखवर्धनः ।
सर्वे सुराश्च मुनयः सुखमापुः परं मुने ॥ २२॥
ब्रह्मविष्णुमहेशानां करनिस्सृततोयतः ।
सप्तनद्यः समुत्पन्नाः शिप्राद्याः सुपवित्रकाः ॥ २३॥
अरुन्धती महासाध्वी साध्वीनां प्रवरोत्तमा ।
वसिष्ठं प्राप्य संरेजे मेधातिथिसुता मुने ॥ २४॥
यस्याः पुत्राः समुत्पन्नाः श्रेष्ठाः शक्त्यादयः शुभाः ।
वसिष्ठं प्राप्य तं कान्तं संरेजे मुनिसत्तम ॥ २५॥