Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं

Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 1

२.२.६. षष्ठोऽध्यायः ।

सन्ध्याचरित्रवर्णनम् ।

ब्रह्मोवाच ।

सुतवर्य महाप्राज्ञ श‍ृणु सन्ध्यातपो महत् ।

यच्छ्रुत्वा नश्यते पापसमूहस्तत्क्षणाद् ध्रुवम् ॥ १॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 2

उपदिश्य तपोभावं वसिष्ठे स्वगृहं गते ।

सन्ध्यापि तपसो भावं ज्ञात्वा मोदमवाप ह ॥ २॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 3

ततः सानन्दमनसो वेषं कृत्वा तु यादृशम् ।

तपश्चर्तुं समारेभे बृहल्लोहिततीरगा ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 4

॥

द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 4

यथोक्तं तु वसिष्ठेन मन्त्रं तपसि साधनम् ।

मन्त्रेण तेन सद्भक्त्या पूजयामास शङ्करम् ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 5

एकान्तमनसस्तस्याः कुर्वन्त्याः सुमहत्तपः ।

शम्भौ विन्यस्तचित्ताया गतमेकं चतुर्युगम् ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 6

प्रसन्नोऽभूत्तदा शम्भुस्तपसा तेन तोषितः ।

अन्तर्बहिस्तथाकाशे दर्शयित्वा निजं वपुः ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 7

यद्रूपं चिन्तयन्ती सा तेन प्रत्यक्षतां गतः । ७॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 8

अथ सा पुरतो दृष्ट्वा मनसा चिन्तितं प्रभुम् ।

प्रसन्नवदनं शान्तं मुमोदातीव शङ्करम् ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 9

ससाध्वसमहं वक्ष्ये किं कथं स्तौमि वा हरम् ।

इति चिन्तापरा भूत्वा न्यमीलयत चक्षुषी ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 10

निमीलिताक्ष्यास्तस्यास्तु प्रविश्य हृदयं हरः ।

दिव्यं ज्ञानं ददौ तस्यै वाचं दिव्ये च चक्षुषी ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 11

दिव्यज्ञानं दिव्यचक्षुर्दिव्यां वाचमवाप सा ।

प्रत्यक्षं वीक्ष्य दुर्गेशं तुष्टाव जगतां पतिम् ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 12

सन्ध्योवाच ।

निराकारं ज्ञानगम्यं परं य- न्नैव स्थूलं नापि सूक्ष्मं न चोच्चम् ।

अन्तश्चिन्त्यं योगिभिस्तस्य रूपं तस्मै तुभ्यं लोककर्त्रे नमोऽस्तु ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 13

सर्वं शान्तं निर्मलं निर्विकारं ज्ञानागम्यं स्वप्रकाशेऽविकारम् ।

खाध्वप्रख्यं ध्वान्तमार्गात्परस्ताद्- रूपं यस्य त्वां नमामि प्रसन्नम् ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 14

एकं शुद्धं दीप्यमानं विनाजां चिदानन्दं सहजं चाविकारि ।

नित्यानन्दं सत्यभूतिप्रसन्नं यस्य श्रीदं रूपमस्मै नमस्ते ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 15

विद्याकारोद्भावनीयं प्रभिन्नं सत्त्वच्छन्दं ध्येयमात्मस्वरूपम् ।

सारं पारं पावनानां पवित्रं तस्मै रूपं यस्य चैवं नमस्ते ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 16

यत्त्वाकारं शुद्धरूपं मनोज्ञं रत्नाकल्पं स्वच्छकर्पूरगौरम् ।

इष्टाभीती शूलमुण्डं दधानं हस्तैर्नमो योगयुक्ताय तुभ्यम् ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 17

गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च ।

पुनः कालश्च रूपाणि यस्य तुभ्यं नमोऽस्तु ते ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 18

प्रधानपुरुषौ यस्य कायत्वेन विनिर्गतौ ।

तस्मादव्यक्तरूपाय शङ्कराय नमो नमः ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 19

यो ब्रह्मा कुरुते सृष्टिं यो विष्णुः कुरुते स्थितिम् ।

संहरिष्यति यो रुद्रस्तस्मै तुभ्यं नमो नमः ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 20

नमो नमः कारणकारणाय दिव्यामृतज्ञानविभूतिदाय ।

समस्तलोकान्तरभूतिदाय प्रकाशरूपाय परात्पराय ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 21

यस्यापरं नो जगदुच्यते पदात् क्षितिर्दिशः सूर्य इन्दुर्मनोजः ।

बहिर्मुखा नाभितश्चान्तरिक्षं तस्मै तुभ्यं शम्भवे मे नमोऽस्तु ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 22

त्वं परः परमात्मा च त्वं विद्या विविधा हरः ।

सद्ब्रह्म च परं ब्रह्म विचारणपरायणः ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 23

यस्य नादिर्न मध्यं च नान्तमस्ति जगद्यतः ।

कथं स्तोष्यामि तं देवं वाङ्मनोऽगोचरं हरम् ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 24

यस्य ब्रह्मादयो देव मुनयश्च तपोधनाः ।

न विवृण्वन्ति रूपाणि वर्णनीयः कथं स मे ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 25

स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभो ।

नैव जानन्ति यद्रूपं सेन्द्रा अपि सुरासुराः ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 6: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 26

नमस्तुभ्यं महेशान नमस्तुभ्यं तपोमय ।

प्रसीद शम्भो देवेश भूयो भूयो नमोऽस्तु ते ॥ २६॥