Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं

Containing 73 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 1

२.२.५. पञ्चमोऽध्यायः ।

सन्ध्याचरित्रम् ।

सूत उवाच ।

इत्याकर्ण्य वचस्तस्य ब्रह्मणो मुनिसत्तमः ।

स मुदोवाच संस्मृत्य शङ्करं प्रीतमानसः ॥ १॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 2

नारद उवाच ।

ब्रह्मन् विधे महाभाग विष्णुशिष्य महामते ।

अद्भुता कथिता लीला त्वया च शशिमौलिनः ॥ २॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 3

गृहीतदारे मदने हृष्टे हि स्वगृहं गते ।

दक्षे च स्वगृहं याते तथा हि त्वयि कर्तरि ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 4

॥

द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 4

मानसेषु च पुत्रेषु गतेषु स्वस्वधामसु ।

सन्ध्या कुत्र गता सा च ब्रह्मपुत्री पितृप्रसूः ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 5

किं चकार च केनैव पुरुषेण विवाहिता ।

एतत्सर्वं विशेषेण सन्ध्यायाश्चरितं वद ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 6

सूत उवाच ।

इत्याकर्ण्य वचस्तस्य ब्रह्मपुत्रस्य धीमतः ।

संस्मृत्य शङ्करं भक्त्या ब्रह्मा प्रोवाच तत्त्ववित् ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 7

ब्रह्मोवाच ।

श‍ृणु त्वं च मुने सर्वं सन्ध्यायाश्चरितं शुभम् ।

यच्छ्रुत्वा सर्वकामिन्यःसाध्व्यः स्युः सर्वदा मुने ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 8

सा च सन्ध्या सुता मे हि मनोजाता पुराभवत् ।

तपस्तप्त्वा तनुं त्यक्त्वा सैव जाता त्वरुन्धती ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 9

मेधातिथेः सुता भूत्वा मुनिश्रेष्ठस्य धीमती ।

ब्रह्मविष्णुमहेशानवचनाच्चरितव्रता ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 10

वव्रे पतिं महात्मानं वसिष्ठं शंसितव्रतम् ।

पतिव्रता च मुख्याभूद्वन्द्या पूज्या त्वभीषणा ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 11

नारद उवाच ।

कथं तया तपस्तप्तं किमर्थं कुत्र सन्ध्यया ।

कथं शरीरं सा त्यक्त्वाभवन्मेधातिथेः सुता ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 12

कथं वा विहितं देवैर्ब्रह्मविष्णुशिवैः पतिम् ।

वसिष्ठं तु महात्मानं संवव्रे शंसितव्रतम् ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 13

एतन्मे श्रोष्यमाणाय विस्तरेण पितामह ।

कौतूहलमरुन्धत्याश्चरितं ब्रूहि तत्त्वतः ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 14

ब्रह्मोवाच ।

अहं स्वतनयां सन्ध्यां दृष्ट्वा पूर्वमथात्मनः ।

कामायाशु मनोऽकार्षं त्यक्त्वा शिवभयाच्च सा ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 15

सन्ध्यायाश्चलितं चित्तं कामबाणविलोडितम् ।

ऋषीणामपि संरुद्धमानसानां महात्मनाम् ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 16

भर्गस्य वचनं श्रुत्वा सोपहासं च मां प्रति ।

आत्मनश्चलितत्वं वै ह्यमर्यादमृषीन्प्रति ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 17

कामस्य तादृशं भावं मुनिमोहकरं मुहुः ।

दृष्ट्वा सन्ध्या स्वयं तत्रोपयमायातिदुःखिता ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 18

ततस्तु ब्रह्मणा शप्ते मदने च मया मुने ।

अन्तर्भूते मयि शिवे गते चापि निजास्पदे ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 19

आमर्षवशमापन्ना सा सन्ध्या मुनिसत्तम ।

मम पुत्री विचार्यैवं तदा ध्यानपराभवत् ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 20

ध्यायन्ती क्षणमेवाशु पूर्वं वृत्तं मनस्विनी ।

इदं विममृशे सन्ध्या तस्मिन्काले यथोचितम् ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 21

सन्ध्योवाच ।

उत्पन्नमात्रां मां दृष्ट्वा युवतीं मदनेरितः ।

अकार्षीत्सानुरागोऽयमभिलाषं पिता मम ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 22

पश्यतां मानसानां च मुनीनां भावितात्मनाम् ।

दृष्ट्वैव माममर्यादं सकाममभवन्मनः ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 23

ममापि मथितं चित्तं मदनेन दुरात्मना ।

येन दृष्ट्वा मुनीन्सर्वांश्चलितं मन्मनो भृशम् ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 24

फलमेतस्य पापस्य मदनः स्वयमाप्तवान् ।

यस्तं शशाप कुपितः शम्भोरग्रे पितामहः ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 25

प्राप्नुयां फलमेतस्य पापस्य स्वघकारिणी ।

तच्छोधनफलमहमाशु चेच्छामि साधनम् ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 5: रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं, Verse 26

यन्मां पिता भ्रातरश्च सकामामपरोक्षतः ।

दृष्ट्वा चक्रुः स्पृहां तस्मान्न मत्तः पापकृत्परा ॥ २६॥