Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 1

२.२.४. चतुर्थोऽध्यायः ।

कामविवाहः ।

नारद उवाच ।

विष्णुशिष्य महाप्राज्ञ विधे लोककर प्रभो ।

अद्भुतेयं कथा प्रोक्ता शिवलीलामृतान्विता ॥ १॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 2

ततः किमभवत्तात चरितं तद् वदाधुना ।

अहं श्रद्धान्वितः श्रोतुं यदि शम्भुकथाश्रयम् ॥ २॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 3

ब्रह्मोवाच ।

शम्भौ गते निजस्थाने वेधस्यन्तर्हिते मयि ।

दक्षः प्राहाथ कन्दर्पं संस्मरन् मम तद्वचः ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 4

॥

द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 4

दक्ष उवाच ।

मद्देहजेयं कन्दर्प सद्रूपगुणसंयुता ।

एनां गृह्णीष्व भार्यार्थं भवतः सदृशीं गुणैः ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 5

एषा तव महातेजाः सर्वदा सहचारिणी ।

भविष्यति यथाकामं धर्मतो वशवर्तिनी ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 6

ब्रह्मोवाच ।

इत्युक्त्वा प्रददौ तस्यै देहस्वेदाम्बुसम्भवाम् ।

कन्दर्पायाग्रतः कृत्वा नाम कृत्वा रतीति ताम् ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 7

विवाह्य तां स्मरः सोऽपि मुमोदातीव नारद ।

दक्षजां तनयां रम्यां मुनीनामपि मोहिनीम् ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 8

अथ तां वीक्ष्य मदनो रत्याख्यां स्वस्त्रियं शुभाम् ।

आत्मागुणेन विद्धोऽसौ मुमोह रतिरञ्जितः ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 9

क्षणप्रदाभवत्कान्ता गौरी मृगदृशी मुदा ।

लोलापाङ्ग्यथ तस्यैव भार्या च सदृशी रतौ ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 10

तस्या भ्रूयुगलं वीक्ष्य संशयं मदनोऽकरोत् ।

उत्सादनं मत्कोदण्डं विधात्रास्यां निवेशितम् ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 11

गतिं दृष्ट्वा कटाक्षाणामाशु तस्या द्विजोत्तम ।

आशु गन्तुं निजास्त्राणां श्रद्दधे न च चारुताम् ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 12

तस्याः स्वभावसौरभ्यं धीरश्वासानिलं तथा ।

आघ्राय मदनः श्रद्धां त्यक्तवान् मलयानिले ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 13

पूर्णेन्दुसदृशं वक्त्रं दृष्ट्वा लक्ष्मसुलक्षितम् ।

न निश्चिकाय मदनो भेदं तन्मुखचन्द्रयोः ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 14

सुवर्णपद्मकलिकातुल्यं तस्याः कुचद्वयम् ।

रेजे चूचुकयुग्मेन भ्रमरेणेव वेष्टितम् ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 15

दृढपीनोन्नतं तस्याः स्तनमध्यं विलम्बिनीम् ।

आनाभिलम्बिनीं मालां तन्वीं चन्द्रायितां शुभाम् ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 16

ज्यां पुष्पधनुषः कामः षट्पदावलिसम्भ्रमाम् ।

विसस्मार च यस्मात्तां विसृज्यैनां निरीक्षते ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 17

गम्भीरनाभिरन्ध्रान्तश्चतुःपार्श्वत्वगावृतम् ।

आननाब्जेक्षणद्वन्द्वमारक्तकमलं यथा ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 18

क्षीणमध्येन वपुषा निसर्गाष्टापदप्रभा ।

रुक्मवेदीव ददृशे कामेन रमणी हि सा ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 19

रम्भास्तम्भायतं स्निग्धं यदूरुयुगलं मृदु ।

निजशक्तिसमं कामो वीक्षाञ्चक्रे मनोहरम् ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 20

आरक्तपार्ष्णिपादाग्रं प्रान्तभागं पदद्वयम् ।

अनुरागमिवानेन मित्रं तस्या मनोभवः ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 21

तस्याः करयुगं रक्तं नखरैः किंशुकोपमैः ।

वृत्ताभिरङ्गुलीभिश्च सूक्ष्माग्राभिर्मनोहरम् ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 22

तद् बाहुयुगुलं कान्तं मृणालयुगलायतम् ।

मृदु स्निग्धं चिरं राजत्कान्तिलोहप्रवालवत् ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 23

नीलनीरदसङ्काशः केशपाशो मनोहरः ।

चमरीबालभरवद्विभाति स्म स्मरप्रिया ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 24

एतादृशीं रतिं नाम्नीं प्रालेयाद्रिसमुद्भवाम् ।

गङ्गामिव महादेवो जग्राहोत्फुल्ललोचनः ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 25

चक्रपद्मां चारुबाहुं मृणालशकलान्विताम् ।

भ्रूयुग्मविभ्रमव्राततनूर्मिपरिराजिताम् ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 4: रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं, Verse 26

कटाक्षपाततुङ्गौघां स्वीयनेत्रोत्पलान्विताम् ।

तनुलोमाम्बुशैवालां मनोद्रुमविलासिनीम् ॥ २६॥