२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 3: रुद्रसंहितायां द्वितीये सतीखण्डे कामशापानुग्रहो, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 82 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
२.२.३. तृतीयोऽध्यायः ।
कामशापानुग्रहः ।
ब्रह्मोवाच ।
ततस्ते मुनयः सर्वे मदभिप्रायवेदिनः ।
चक्रुस्तदुचितं नाम मरीचिप्रमुखाः सुताः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
मुखावलोकनादेव ज्ञात्वा वृत्तान्तमन्यतः ।
दक्षादयश्च स्रष्टारः स्थानं पत्नीं च ते ददुः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
ततो निश्चित्य नामानि मरीचिप्रमुखा द्विजाः ।
ऊचुः सङ्गतमेतस्मै पुरुषाय ममात्मजाः ॥ ३॥
॥
द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
ऋषय ऊचुः ।
यस्मात्प्रमथसे तत्त्वं जातोऽस्माकं यथा विधेः ।
तस्मान्मन्मथनामा त्वं लोके ख्यातो भविष्यसि ॥ ४॥
जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते ।
अतस्त्वं कामनामापि ख्यातो भव मनोभव ॥ ५॥
मदनान्मदनाख्यस्त्वं जातो दर्पात्सदर्पकः ।
तस्मात्कन्दर्पनामापि लोके ख्यातो भविष्यसि ॥ ६॥
त्वत्समं सर्वदेवानां यद्वीर्यं न भविष्यति ।
ततः स्थानानि सर्वाणि सर्वव्यापी भवांस्ततः ॥ ७॥
दक्षोऽयं भवतः पत्नीं स्वयं दास्यति कामिनीम् ।
आद्यः प्रजापतिर्यो हि यथेष्टं पुरुषोत्तमः ॥ ८॥
एषा च कन्यका चारुरूपा ब्रह्ममनोभवा ।
सन्ध्या नाम्नेति विख्याता सर्वलोके भविष्यति ॥ ९॥
ब्रह्मणो ध्यायतो यस्मात्सम्यग्जाता वराङ्गना ।
अतः सन्ध्येति विख्याता क्रान्ताभा तुल्यमल्लिका ॥ १०॥
ब्रह्मोवाच ।
कौसुमानि तथास्त्राणि पञ्चादाय मनोभवः ।
प्रच्छन्नरूपी तत्रैव चिन्तयामास निश्चयम् ॥ ११॥
हर्षणं रोचनाख्यं च मोहनं शोषणं तथा ।
मारणं चेति प्रोक्तानि मुनेर्मोहकराण्यपि ॥ १२॥
ब्रह्मणा मम यत्कर्म समुद्दिष्टं सनातनम् ।
तदिहैव करिष्यामि मुनीनां सन्निधौ विधेः ॥ १३॥
तिष्ठन्ति मुनयश्चात्र स्वयं चापि प्रजापतिः ।
एतेषां साक्षिभूतं मे भविष्यत्यद्य निश्चयम् ॥ १४॥
सन्ध्यापि ब्रह्मणा प्रोक्ता चेदानीं प्रेषयेद्वचः ।
इह कर्म परीक्ष्यैव प्रयोगान्मोहयाम्यहम् ॥ १५॥
ब्रह्मोवाच ।
इति सञ्चिन्त्य मनसा निश्चित्य च मनोभवः ।
पुष्पजं पुष्पजातैश्च योजयामास मार्गणैः ॥ १६॥
आलीढस्थानमासाद्य धनुराकृष्य यत्नतः ।
चकार वलयाकारं कामो धन्विवरस्तदा ॥ १७॥
संहिते तेन कोदण्डे मारुताश्च सुगन्धयः ।
ववुस्तत्र मुनिश्रेष्ठ सम्यगाह्लादकारिणः ॥ १८॥
ततस्तानपि धात्रादीन् सर्वानेव च मानसान् ।
पृथक् पुष्पशरैस्तीक्ष्णैर्मोहयामास मोहनः ॥ १९॥
ततस्ते मुनयः सर्वे मोहिताश्चाप्यहं मुने ।
संहितो मनसा किञ्चिद्विकारं प्रापुरादितः ॥ २०॥
सन्ध्यां सर्वे निरीक्षन्तः सविकारं मुहुर्मुहुः ।
आसन् प्रवृद्धमदनाः स्त्री यस्मान्मदनैधिनी ॥ २१॥
ततः सर्वान्स मदनो मोहयित्वा पुनः पुनः ।
यथेन्द्रियविकारं ते प्रापुस्तानकरोत्तथा ॥ २२॥
उदीरितेन्द्रियो धाता वीक्ष्याहं स यदा च ताम् ।
तदैव चोनपञ्चाशद्भावा जाताः शरीरतः ॥ २३॥
सापि तैर्वीक्ष्यमाणाथ कन्दर्पशरपातनात् ।
चक्रे मुहुर्मुहुर्भावान् कटाक्षावरणादिकान् ॥ २४॥
निसर्गसुन्दरी सन्ध्या तान्भावान् मानसोद्भवान् ।
कुर्वन्त्यतितरां रेजे स्वर्णदीव तनूर्मिभिः ॥ २५॥
अथ भावयुतां सन्ध्यां वीक्ष्याकार्षं प्रजापतिः ।
धर्माभिपूरिततनुरभिलाषमहं मुने ॥ २६॥