Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 1

विद्येश्वरसंहिता १.३. तृतीयोऽध्यायः ।

साध्यसाधनविचारः ।

व्यास उवाच ।

इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः ।

वेदान्तसारसर्वस्वं पुराणं श्रावयाद्भुतम् ॥ १॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 2

इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः ।

संस्मरञ्छङ्करं सूतः प्रोवाच मुनिसत्तमान् ॥ २॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 3

सूत उवाच ।

श‍ृण्वन्तु ऋषयः सर्वे स्मृत्वा शिवमनामयम् ।

पुराणप्रवणं शैवं पुराणं वेदसारजम् ॥ ३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 4

यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम् ॥ ४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 5

वेदान्तवेद्यं सद्वस्तु विशेषेण प्रवर्णितम् ॥ ५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 6

श‍ृण्वन्तु ऋषयः सर्वे पुराणं वेदसारजम् ।

पुरा कालेन महता कल्पेऽतीते पुनः पुनः ॥ ६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 7

अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि ।

मुनीनां षट्कुलीनानां ब्रुवतामितरेतरम् ॥ ७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 8

इदं परमिदं नेति विवादः सुमहानभूत् ।

तेऽभिजग्मुर्विधातारं ब्रह्माणं प्रष्टुमव्ययम् ॥ ८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 9

वाग्भिर्विनयगर्भाभिः सर्वे प्राञ्जलयोऽब्रुवन् ।

त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ ९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 10

कः पुमान् सर्वतत्त्वेभ्यः पुराणः परतः परः ।

ब्रह्मोवाच ।

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ १०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 11

यस्मात् सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ।

सह भूतेन्द्रियैः सर्वैः प्रथमं सम्प्रसूयते ॥ ११॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 12

एष देवो महादेवः सर्वज्ञो जगदीश्वरः ।

अयं तु परया भक्त्या दृश्यते नान्यथा क्वचित् ॥ १२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 13

रुद्रो हरिर्हरश्चैव तथान्ये च सुरेश्वराः ।

भक्त्या परमया तस्य नित्यं दर्शनकाङ्क्षिणः ॥ १३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 14

बहुनात्र किमुक्तेन शिवे भक्त्या विमुच्यते ।

प्रसादाद्देवताभक्तिः प्रसादो भक्तिसम्भवः ।

यथेहाङ्कुरतो बीजं बीजतो वा यथाङ्कुरः ॥ १४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 15

तस्मादीशप्रसादार्थं यूयं गत्वा भुवं द्विजाः ।

दीर्घसत्रं समाकृध्वं यूयं वर्षसहस्रकम् ॥ १५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 16

अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः ।

वेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनम् ॥ १६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 17

मुनयः ऊचुः ।

अथ किं परमं साध्यं किं वा तत्साधनं परम् ।

साधकः कीदृशस्तत्र तदिदं ब्रूहि तत्त्वतः ॥ १७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 18

ब्रह्मोवाच ।

साध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम् ।

साधकस्तत्प्रसादाद्यो नित्यादिफलनिस्पृहः ॥ १८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 19

कर्म कृत्वा तु वेदोक्तं तदर्पितमहाफलम् ।

परमेशपदप्राप्तिः सालोक्यादिक्रमात्ततः ॥ १९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 20

तत्तद्भक्त्यनुसारेण सर्वेषां परमं फलम् ।

तत्साधनं बहुविधं साक्षादीशेन बोधितम् ॥ २०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 21

सङ्क्षिप्य तत्र वः सारं साधनं प्रब्रवीम्यहम् ।

श्रोत्रेण श्रवणं तस्य वचसा कीर्तनं तथा ॥ २१॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 22

मनसा मननं तस्य महासाधनमुच्यते ।

श्रोतव्यः कीर्तितव्यश्च मन्तव्यश्च महेश्वरः ॥ २२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 23

इति श्रुतिः प्रमाणं नः साधनेनामुना परम् ।

साध्यं व्रजत सर्वार्थसाधनैकपरायणाः ॥ २३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 24

प्रत्यक्षं चक्षुषा दृष्ट्वा तत्र लोकः प्रवर्तते ।

अप्रत्यक्षं हि सर्वत्र ज्ञात्वा श्रोत्रेण चेष्टते ॥ २४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 25

तस्माच्छ्रवणमेवादौ श्रुत्वा गुरुमुखाद् बुधः ।

ततः संसाधयेदन्यत् कीर्तनं मननं सुधीः ॥ २५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 26

क्रमान्मननपर्यन्ते साधनेऽस्मिन् सुसाधिते ।

शिवयोगो भवेत्तेन सालोक्यादिक्रमाच्छनैः ॥ २६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 3: विद्येश्वरसंहितायां साध्यसाधनविचारं, Verse 27

सर्वाङ्गव्याधयः पश्चात् सर्वानन्दश्च लीयते ।

अभ्यासात् क्लेशमेतद् वै पश्चादाद्यन्तमङ्गलम् ॥ २७॥