२ रुद्रसंहिता - २ सतीखण्डः, अध्याय 1: रुद्रसंहितायां द्वितीये सतीखण्डे सतीसङ्क्षेपचरित्रवर्णनं, Verse 1
श्रीशिवमहापुराणम् २२ रुद्रसंहितायां सतीखण्डः ॥
श्रीगणेशाय नमः ॥
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रीशिवमहापुराणम् २२ रुद्रसंहितायां सतीखण्डः ॥
श्रीगणेशाय नमः ॥
२.२.१. प्रथमोऽध्यायः ।
सतीसङ्क्षेपचरित्रवर्णनम् ।
सतीसङ्क्षेपचरित्रवर्णनं नारद उवाच ।
विधे सर्वं विजानासि कृपया शङ्करस्य च ।
त्वयाद्भुता हि कथिताः कथा मे शिवयोः शुभाः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
त्वन्मुखाम्भोजसंवृत्तां श्रुत्वा शिवकथां पराम् ।
अतृप्तो हि पुनस्तां वै श्रोतुमिच्छाम्यहं प्रभो ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
पूर्णांशः शङ्करस्यैव यो रुद्रो वर्णितः पुरा ।
विधे त्वया महेशानः कैलासनिलयो वशी ॥ ३॥
॥
द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
स योगी सर्वविष्ण्वादिसुरसेव्यः सतां गतिः ।
निर्द्वन्द्वः क्रीडति सदा निर्विकारो महाप्रभुः ॥ ४॥
सोऽभूत्पुनर्गृहस्थश्च विवाह्य परमां स्त्रियम् ।
हरिप्रार्थनया प्रीत्या मङ्गलां सुतपस्विनीम् ॥ ५॥
प्रथमं दक्षपुत्री सा पश्चात्सा पर्वतात्मजा ।
कथमेकशरीरेण द्वयोरप्यात्मजा मता ॥ ६॥
कथं सती पार्वती सा पुनः शिवमुपागता ।
एतत्सर्वं तथान्यच्च ब्रह्मन् गदितुमर्हसि ॥ ७॥
सूत उवाच ।
इति तस्य वचः श्रुत्वा सुरर्षेः शङ्करात्मनः ।
प्रसन्नमानसो भूत्वा ब्रह्मा वचनमब्रवीत् ॥ ८॥
ब्रह्मोवाच ।
शृणु तात मुनिश्रेष्ठ कथयामि कथां शुभाम् ।
यां श्रुत्वा सफलं जन्म भविष्यति न संशयः ॥ ९॥
पुराहं स्वसुतां दृष्ट्वा सन्ध्याह्वां तनयैः सह ।
अभवं विकृतस्तात कामबाणप्रपीडितः ॥ १०॥
धर्मः स्मृतस्तदा रुद्रो महायोगी परः प्रभुः ।
धिक्कृत्य मां सुतैस्तात स्वस्थानं गतवानयम् ॥ ११॥
यन्मायामोहितश्चाहं वेदवक्ता च मूढधीः ।
तेनाकार्षं सहाकार्यं परमेशेन शम्भुना ॥ १२॥
तदीर्षयाहमाकार्षं बहूपायान्सुतैः सह ।
कर्तुं तन्मोहनं मूढः शिवमायाविमोहितः ॥ १३॥
अभवंस्तेऽथ वै सर्वे तस्मिन् शम्भौ परप्रभौ ।
उपाया निष्फलास्तेषां मम चापि मुनीश्वर ॥ १४॥
तदास्मरं रमेशानं व्यर्थोपायः सुतैः सह ।
अबोधयत्स आगत्य शिवभक्तिरतः सुधीः ॥ १५॥
प्रबोधितो रमेशेन शिवतत्त्वप्रदर्शिना ।
तदीर्षामत्यजं सोऽहं तं हठं न विमोहितः ॥ १६॥
शक्तिं संसेव्य तत्प्रीत्योत्पादयामास तां तदा ।
दक्षादसिक्न्यां वीरिण्यां स्वपुत्राद्धरमोहने ॥ १७॥
सोमा भूत्वा दक्षसुता तपः कृत्वा तु दुःसहम् ।
रुद्रपत्न्यभवद्भक्त्या स्वभक्तहितकारिणी ॥ १८॥
सोमो रुद्रो गृही भूत्वाकार्षील्लीलां परां प्रभुः ।
मोहयित्वाथ मां तत्र स्वविवाहेऽविकारधीः ॥ १९॥
विवाह्य तां स आगत्य स्वगिरौ सूतिकृत्तया ।
रेमे बहुविमोहो हि स्वतन्त्रः स्वात्तविग्रहः ॥ २०॥
तया विहरतस्तस्य व्यतीयाय महान् मुने ।
कालः सुखकरः शम्भोर्निर्विकारस्य सद्रतेः ॥ २१॥
ततो रुद्रस्य दक्षेण स्पर्धा जाता निजेच्छया ।
महामूढस्य तन्मायामोहितस्य सुगर्विणः ॥ २२॥
तत्प्रभावाद्धरं दक्षो महागर्वी विमूढधीः ।
महाशान्तं निर्विकारं निनिन्द बहुमोहितः ॥ २३॥
ततो दक्षः स्वयं यज्ञं कृतवान्गर्वितोऽहरम् ।
सर्वानाहूय देवादीन् विष्णुं मां चाखिलाधिपः ॥ २४॥
नाजुहाव तथाभूतो रुद्रं रोषसमाकुलः ।
तथा तत्र सतीं नाम्नीं स्वपुत्रीं विधिमोहितः ॥ २५॥
यदा नाकारिता पित्रा मायामोहित चेतसा ।
लीलां चकार सुज्ञाना महासाध्वी शिवा तदा ॥ २६॥