Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं

Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 1

२.१.१५. पञ्चदशोऽध्यायः ।

रुद्रावताराविर्भाववर्णनम् ।

नारद उवाच ।

विधे विधे महाभाग धन्यस्त्वं सुरसत्तम ।

श्राविताद्याद्भुता शैवकथा परमपावनी ॥ १॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 2

तत्राद्भुता महादिव्या लिङ्गोत्पत्तिः श्रुता शुभा ।

श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह ॥ २॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 3

अनन्तरं च यज्जातं माहात्म्यं चरितं तथा ।

सृष्टेश्चैव प्रकारं च कथय त्वं विशेषतः ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 4

॥

द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डेः

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 4

ब्रह्मोवाच ।

सम्यक् पृष्टं च भवता यज्जातं तदनन्तरम् ।

कथयिष्यामि सङ्क्षेपाद्यथा पूर्वं श्रुतं मया ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 5

अन्तर्हिते तदा देवे शिवरूपे सनातने ।

अहं विष्णुश्च विप्रेन्द्र अधिकं सुखमाप्तवान् ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 6

मया च विष्णुना रूपं हंसवाराहयोस्तदा ।

संवृतं तु ततस्ताभ्यां लोकसर्गावनेच्छया ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 7

नारद उवाच ।

विधे ब्रह्मन् महाप्राज्ञ संशयो हृदि मे महान् ।

कृपां कृत्वातुलां शीघ्रं तं नाशयितुमर्हसि ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 8

हंसवाराहयो रूपं युवाभ्यां च धृतं कथम् ।

अन्यद्रूपं विहायैव किमत्र वद कारणम् ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 9

सूत उवाच ।

इत्येतद्वचनं श्रुत्वा नारदस्य महात्मनः ।

स्मृत्वा शिवपदाम्भोजं ब्रह्मा सादरमब्रवीत् ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 10

ब्रह्मोवाच ।

हंसस्य चोर्ध्वगमने गतिर्भवति निश्चला ।

तत्त्वातत्त्वविवेकोऽस्ति जलदुग्धविभागवत् ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 11

अज्ञानज्ञानयोस्तत्त्वं विवेचयति हंसकः ।

हंसरूपं धृतं तेन ब्रह्मणा सृष्टिकारिणा ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 12

विवेको नैव लब्धश्च यतो हंसो व्यलीयत ।

शिवस्वरूपतत्त्वस्य ज्योतिरूपस्य नारद ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 13

सृष्टिप्रवृत्तिकामस्य कथं ज्ञानं प्रजायते ।

यतो लब्धो विवेकोऽपि न मया हंसरूपिणा ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 14

गमनेऽधो वराहस्य गतिर्भवति निश्चला ।

धृतं वाराहरूपं हि विष्णुना वनचारिणा ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 15

अथवा भवकल्पार्थं तद्रूपं हि प्रकल्पितम् ।

विष्णुना च वराहस्य भुवनावनकारिणा ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 16

यद्दिनं हि समारभ्य तद्रूपं धृतवान्हरिः ।

तद्दिनं प्रतिकल्पोऽसौ कल्पो वाराहसंज्ञकः ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 17

तदिच्छा वा यदा जाता तस्य रूपस्य धारणे ।

तद्दिनं प्रतिकल्पोऽसौ कल्पो वाराहसंज्ञकः ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 18

इति प्रश्नोत्तरं दत्तं प्रस्तुतं श‍ृणु नारद ।

स्मृत्वा शिवपदाम्भोजं वक्ष्ये सृष्टिविधिं मुने ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 19

अन्तर्हिते महादेवे त्वहं लोकपितामहः ।

तदीयं वचनं कर्तुमध्यायन्ध्यानतत्परः ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 20

नमस्कृत्य तदा शम्भुं ज्ञानं प्राप्य हरेस्तदा ।

आनन्दं परमं गत्वा सृष्टिं कर्तुं मनो दधे ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 21

विष्णुश्चापि तदा तत्र प्रणिपत्य सदाशिवम् ।

उपदिश्य च मां तात ह्यन्तर्धानमुपागतः ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 22

ब्रह्माण्डाच्च बहिर्गत्वा प्राप्य शम्भोरनुग्रहम् ।

वैकुण्ठनगरं गत्वा तत्रोवास हरिः सदा ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 23

अहं स्मृत्वा शिवं तत्र विष्णुं वै सृष्टिकाम्यया ।

पूर्वं सृष्टं जलं यच्च तत्राञ्जलिमुदाक्षिपम् ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 24

अतोऽण्डमभवत्तत्र चतुर्विंशतिसंज्ञकम् ।

विराड्रूपमभूद्विप्र जलरूपमपश्यतः ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 25

ततः संशयमापन्नस्तपस्तेपे सुदारुणम् ।

द्वादशाब्दमहं तत्र विष्णुध्यानपरायणः ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 13: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनं, Verse 26

तस्मिंश्च समये तात प्रादुर्भूतो हरिः स्वयम् ।

मामुवाच महाप्रीत्या मदङ्गं संस्पृशन्मुदा ॥ २६॥