७ वायवीयसंहिता, अध्याय 55, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.२.४१. एकचत्वारिंशोऽध्यायः ।
श्रीशिवमहापुराणमाहात्म्यवर्णनम् ।
सूत उवाच ।
तत्र स्कन्दसरो नाम सरः सागरसन्निभम् ।
अमृतस्वादुशिशिरस्वच्छागाधलघूदकम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
समन्ततः सङ्घटितं स्फटिकोपलसञ्चयैः ।
सर्वर्तुकुसुमैः फुल्लैश्छादिताखिलदिङ्मुखम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
शैवलैरुत्पलैः पद्मैः कुमुदैस्तारकोपमैः ।
तरङ्गैरभ्रसङ्काशैराकाशमिव भूमिगम् ॥ ३॥
सुखावतरणारोहैः स्थलैर्नीलशिलामयैः ।
सोपानमार्गौ रुचिरैः शोभमानाष्टदिङ्मुखम् ॥ ४॥
तत्रावतीर्णैश्च यथा तत्रोत्तीर्णैश्च भूयसा ।
स्नातैः सितोपवीतैश्च शुक्लाकौपीनवल्कलैः ॥ ५॥
जटाशिखायनैर्मुण्डैस्त्रिपुण्ड्रकृतमण्डनैः ।
विरागविवशस्मेरमुखैर्मुनिकुमारकैः ॥ ६॥
घटैः कमलिनीपत्रपुटैश्च कलशैः शिवैः ।
कमण्डलुभिरन्यैश्च तादृशैः करकादिभिः ॥ ७॥
आत्मार्थं च परार्थं च देवतार्थं विशेषतः ।
आनीयमानसलिलमात्तपुष्पं च नित्यशः ॥ ८॥
अन्तर्जलशिलारूढैर्नीचानां स्पर्शशङ्कया ।
आचारवद्भिर्मुनिभिः कृतभस्माङ्गधूसरैः ॥ ९॥
इतस्ततोऽप्सु मज्जद्भिरिष्टशिष्टैः शिलागतैः ।
तिलैश्च साक्षतैः पुष्पैस्त्यक्तदर्भपवित्रकैः ॥ १०॥
देवाद्यमृषिमध्यं च निर्वर्त्य पितृतर्पणम् ।
निवेदयेदभिज्ञेभ्यो नित्यस्नानगतान् द्विजान् ॥ ११॥
स्थाने स्थाने कृतानेकबलिपुष्पसमीरणैः ।
सौरार्घ्यपूर्वं कुर्वद्भिः स्थण्डलेभ्यर्चनादिकम् ॥ १२॥
क्वचिन्निमज्जदुन्मज्जत्प्रस्रस्तगजयूथपम् ।
क्वचिच्च तृषयायातमृगीमृगतुरङ्गमम् ॥ १३॥
क्वचित्पीतजनोत्तीर्णमयूरवरवारणम् ।
क्वचित्कृततटाघातवृषप्रतिवृषोज्ज्वलम् ॥ १४॥
क्वचित्कारण्डवरवैः क्वचित्सारसकूजितैः ।
क्वचिच्च कोकनिनदैः क्वचिद्भ्रमरगीतिभिः ॥ १५॥
स्नानपानादिकरणैः स्वसम्पद्द्रुमजीविभिः ।
प्रणयात्प्राणिभिस्तैस्तैर्भाषमाणमिवासकृत् ॥ १६॥
कूलशाखिशिखालीनकोकिलाकुलकूजितैः ।
आतपोपहतान् सर्वान्नामन्त्रयदिवानिशम् ॥ १७॥
उत्तरे तस्य सरसस्तीरे कल्पतरोरधः ।
वेद्यां वज्रशिलामय्यां मृदुले मृगचर्मणि ॥ १८॥
सनत्कुमारमासीनं शश्वद्बालवपुर्धरम् ।
तत्कालमात्रोपरतं समाधेरचलात्मनः ॥ १९॥
उपास्यमानं मुनिभिर्योगीन्द्रैरपि पूजितम् ।
ददृशुर्नैमिषेयास्ते प्रणताश्चोपतस्थिरे ॥ २०॥
यावत्पृष्टवते तस्मै प्रोचुः स्वागतकारणम् ।
तुमुलः शुश्रुवे तावद्दिवि दुन्दुभिनिःस्वनः ॥ २१॥
ददृशे तत्क्षणे तस्मिन् विमानं भानुसन्निभम् ।
गणेश्वरैरसङ्ख्येयैः संवृतं च समन्ततः ॥ २२॥
अप्सरोगणसङ्कीर्णं रुद्रकन्याभिरावृतम् ।
मृदङ्गमुरजोद्घुष्टं वेणुवीणारवान्वितम् ॥ २३॥
चित्ररत्नवितानाढ्यं मुक्तादामविराजितम् ।
मुनिभिः सिद्धगन्धर्वैर्यक्षचारणकिन्नरैः ॥ २४॥
नृत्यद्भिश्चैव गायद्भिर्वादयद्भिश्च संवृतम् ।
वीरगोवृषचिह्नेन विद्रमद्रुमयष्टिना ॥ २५॥
कृतगोपुरसत्कारं केतुना मान्यहेतुना ।
तस्य मध्ये विमानस्य चामरद्वितयान्तरे ॥ २६॥
छत्त्रस्य मणिदण्डस्य चन्द्रस्येव शुचेरधः ।
दिव्यसिंहासनारूढं देव्या सुयशया सह ॥ २७॥