७ वायवीयसंहिता, अध्याय 53: वायवीयसंहितायां वायुनैमिषेयर्षिसंवादे उत्तरखण्डे योगगतिवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 70 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.२.३७. सप्तत्रिंशोऽध्यायः ।
योगगतिवर्णनम् ।
श्रीकृष्ण उवाच ।
ज्ञाने क्रियायां चर्यायां सारमुद्धृत्य सङ्ग्रहात् ।
उक्तं भगवता सर्वं श्रुतं श्रुतिसमं मया ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
इदानीं श्रोतुमिच्छामि योगं परमदुर्लभम् ।
साधिकारं च साङ्गं च सविधिं सप्रयोजनम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
यद्यस्ति मरणं पूर्वं योगाद्यनुपमर्दतः ।
सद्यः साधयितुं शक्यं येन स्यान्नात्महा नरः ॥ ३॥
तच्च तत्कारणं चैव तत्कालकरणानि च ।
तद्भेदतारतम्यं च वक्तुमर्हसि तत्त्वतः ॥ ४॥
उपमन्युरुवाच ।
स्थाने पृष्टं त्वया कृष्ण सर्वप्रश्नार्थवेदिना ।
ततः क्रमेण तत्सर्वं वक्ष्ये शृणु समाहितः ॥ ५॥
निरुद्धवृत्त्यन्तरस्य शिवे चित्तस्य निश्चला ।
या वृत्तिः सा समासेन योगः स खलु पञ्चधा ॥ ६॥
मन्त्रयोगः स्पर्शयोगो भावयोगस्तथापरः ।
अभावयोगः सर्वेभ्यो महायोगः परो मतः ॥ ७॥
मन्त्राभ्यासवशेनैव मन्त्रवाच्यार्थगोचरः ।
अव्याक्षेपा मनोवृत्तिर्मन्त्रयोग उदाहृतः ॥ ८॥
प्राणायाममुखा सैव स्पर्शेयोगोऽभिधीयते ।
स मन्त्रस्पर्शनिर्मुक्तो भावयोगः प्रकीर्तितः ॥ ९॥
विलीनावयवं विश्वं रूपं सम्भाव्यते यतः ।
अभावयोगः सम्प्रोक्तोऽनाभासाद्वस्तुनः सतः ॥ १०॥
शिवस्वभाव एवैकश्चिन्त्यते निरुपाधिकः ।
यथा शैवमनोवृत्तिर्महायोग इहोच्यते ॥ ११॥
दृष्टे तथानुश्रविके विरक्तं विषये मनः ।
यस्य तस्याधिकारोऽस्ति योगे नान्यस्य कस्यचित् ॥ १२॥
विषयद्वयदोषाणां गुणानामीश्वरस्य च ।
दर्शनादेव सततं विरक्तं जायते मनः ॥ १३॥
अष्टाङ्गो वा षडङ्गो वा सर्वयोगः समासतः ।
यमश्च नियमश्चैव स्वस्तिकाद्यं तथासनम् ॥ १४॥
प्राणायामः प्रत्याहारो धारणा ध्यानमेव च ।
समाधिरिति योगाङ्गान्यष्टावुक्तानि सूरिभिः ॥ १५॥
आसनं प्राणसंरोधः प्रत्याहारोऽथ धारणा ।
ध्यानं समाधिर्योगस्य षडङ्गानि समासतः ॥ १६॥
पृथग्लक्षणमेतेषां शिवशास्त्रे समीरितम् ।
शिवागमेषु चान्येषु विशेषात् कामिकादिषु ॥ १७॥
योगशास्त्रेष्वपि तथा पुराणेष्वपि केषु च ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः ।
यम इत्युच्यते सद्भिः पञ्चावयवयोगतः ॥ १८॥
शौचं तुष्टिस्तपश्चैव जपः प्रणिधिरेव च ।
इति पञ्च प्रभेदः स्यान्नियमः स्वांशभेदतः ॥ १९॥
स्वस्तिकं पद्ममध्येन्दुं वीरं योगं प्रसाधितम् ।
पर्यङ्कं च यथेष्टं च प्रोक्तमासनमष्टधा ॥ २०॥
प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनम् ।
तद्रोचकं पूरकं च कुम्भकं च त्रिधोच्यते ॥ २१॥
नासिकापुटमङ्गुल्या पीड्यैकमपरेण तु ।
औदरं रेचयेद्वायुं तथायं रेचकः स्मृतः ॥ २२॥
बाह्येन मरुता देहं दृतिवत्परिपूरयेत् ।
नासापुटेनापरेण पूरणात्पूरकं मतम् ॥ २३॥
न मुञ्चति न गृह्णाति वायुमन्तर्बहिः स्थितम् ।
सम्पूर्णं कुम्भवत्तिष्ठेदचलः स तु कुम्भकः ॥ २४॥
रेचकाद्यं त्रयमिदं न द्रुतं न विलम्बितम् ।
तद्यतः क्रमयोगेन त्वभ्यसेद्योगसाधकः ॥ २५॥
रेचकादिषु योऽभ्यासो नाडीशोधनपूर्वकः ।
स्वेच्छोत्क्रमणपर्यन्तः प्रोक्तो योगानुशासने ॥ २६॥
कन्यकादिक्रमवशात् प्राणायामनिरोधनम् ।
तच्चतुर्द्धोपदिष्टं स्यान्मात्रागुणविभागतः ॥ २७॥