७ वायवीयसंहिता, अध्याय 52: वायवीयसंहितायामुत्तरखण्डे प्रतिष्ठाविधिवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 73 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.२.३६. षट्त्रिंशोऽध्यायः ।
प्रतिष्ठाविधिवर्णनम् ।
श्रीकृष्ण उवाच ।
भगवन् श्रोतुमिच्छामि प्रतिष्ठाविधिमुत्तमम् ।
लिङ्गस्यापि च बेरस्य शिवेन विहितं यथा ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
उपमन्युरुवाच ।
अनात्मप्रतिकूले तु दिवसे शुक्लपक्षके ।
शिवशास्त्रोक्तमार्गेण कुर्याल्लिङ्गं प्रमाणवत् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
स्वीकृत्याथ शुभस्थानं भूपरीक्षां विधाय च ।
दशोपचारान्कुर्वीत लक्षणोद्धारपूर्वकान् ॥ ३॥
तेषां दशोपचाराणां पूर्वं पूज्य विनायकम् ।
स्थानशुद्ध्यादिकं कृत्वा लिङ्गं स्नानालयं नयेत् ॥ ४॥
शलाकया काञ्चनया कुङ्कुमादिरसाक्तया ।
लक्षितं लक्षणं शिल्पशास्त्रेण विलिखेत्ततः ॥ ५॥
अष्टमृत्सलिलैर्वाथ पञ्चमृत्सलिलैस्तथा ।
लिङ्गं पिण्डिकया सार्द्धं पञ्चगव्यैश्च शोधयेत् ॥ ६॥
सवेदिकं समभ्यर्च्य दिव्याद्यं तु जलाशयम् ।
नीत्वाधिवासयेत्तत्र लिङ्गं पिण्डिकया सह ॥ ७॥
अधिवासालये शुद्धे सर्वशोभासमन्विते ।
सतोरणे सावरणे दर्भमालासमावृते ॥ ८॥
दिग्गजाष्टकसम्पन्ने दिक्पालाष्टघटान्विते ।
अष्टमङ्गलकैर्युक्ते कृतदिक्पालकार्चिते ॥ ९॥
तैजसं दारवं वापि कृत्वा पद्मासनाङ्कितम् ।
विन्यसेन्मध्यतस्तत्र विपुलं पीठकालयम् ॥ १०॥
द्वारपालान् समभ्यर्च्य भद्रादींश्चतुरःक्रमात् ।
सुभद्रश्च विभद्रश्च सुनन्दश्च विनन्दकः ॥ ११॥
स्नापयित्वा समभ्यर्च्य लिङ्गं वेदिकया सह ।
सकूर्चाभ्यां तु वस्त्राभ्यां समावेष्ट्य समन्ततः ॥ १२॥
प्रापय्य शनकैस्तोयं पीठिकोपरि शाययेत् ।
प्राक् शिरस्कमधः सूत्रं पिण्डिकां चास्य पश्चिमे ॥ १३॥
सर्वमङ्गलसंयुक्तं लिङ्गं तत्राधिवासयेत् ।
पञ्चरात्रं त्रिरात्रं वाप्येकरात्रमथापि वा ॥ १४॥
विसृज्य पूजितं तत्र शोधयित्वा च पूर्ववत् ।
सम्पूज्योत्सवमार्गेण शयनालयमानयेत् ॥ १५॥
तत्रापि शयनस्थानं कुर्यात् मण्डलमध्यतः ।
शुद्धैर्जलैः स्नापयित्वा लिङ्गमभ्यर्चयेत्क्रमात् ॥ १६॥
ऐशान्यां पद्ममालिख्य शुद्धलिप्ते महीतले ।
शिवकुम्भं शोधयित्वा तत्रावाह्य शिवं यजेत् ॥ १७॥
वेदीमध्ये सितं पद्मं परिकल्प्य विधानतः ।
तस्य पश्चिमतश्चापि चण्डिकापद्ममालिखेत् ॥ १८॥
क्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा ।
प्रकल्प्य शयनं तस्मिन् हेमपुष्पं विनिक्षिपेत् ॥ १९॥
तत्र लिङ्गं समानीय सर्वमङ्गलनिःस्वनैः ।
रक्तेन वस्त्रयुग्मेन सकूर्चेन समन्ततः ॥ २०॥
सह पिण्डिकयावेष्ट्य शाययेच्च यथा पुरा ।
पुरस्तात्पद्ममालिख्य तद्दलेषु यथाक्रमम् ॥ २१॥
विद्येशकलशान्न्यस्येन्मध्ये शैवीं च वर्द्धनीम् ।
परीत्य पद्मत्रितयं जुहुयुर्द्विजसत्तमाः ॥ २२॥
ते चाष्टमूर्त्तयः कल्प्याः पूर्वादिपरितः स्थिताः ।
चत्वारश्चाथ वा दिक्षु स्वध्येतारः सजापकाः ॥ २३॥
जुहुयुस्ते विरञ्च्याद्याश्चतस्रो मूर्तयः स्मृताः ।
देशिकः प्रथमं तेषामैशान्यां पश्चिमेऽथ वा ॥ २४॥
प्रधानहोमं कुर्वीत सप्तद्रव्यैर्यथाक्रमम् ।
आचार्यात् पादमर्द्धं वा जुहुयुश्चापरे द्विजाः ॥ २५॥
प्रधानमेकमेवात्र जुहुयादथ वा गुरुः ।
पूर्वं पूर्णाहुतिं हुत्वा घृतेनाष्टोत्तरं शतम् ॥ २६॥
मूर्ध्नि मूलेन लिङ्गस्य शिवहस्तं प्रविन्यसेत् ।
शतमर्द्धं तदर्द्धं वा क्रमाद् द्रव्यैश्च सप्तभिः ॥ २७॥