Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं

Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 1

७.२.३४. चतुस्त्रिंशोऽध्यायः ।

हरिविधिमोहवर्णनम् ।

उपमन्युरुवाच ।

नित्यनैमित्तिकात्काम्याद्या सिद्धिरिह कीर्तिता ।

सा सर्वा लभ्येत सद्यो लिङ्गबेरप्रतिष्ठया ॥ १॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 2

सर्वो लिङ्गमयो लोकः सर्वं लिङ्गे प्रतिष्ठितम् ।

तस्मात्प्रतिष्ठिते लिङ्गे भवेत्सर्वं पतिष्ठितम् ॥ २॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 3

ब्रह्मणा विष्णुना वापि रुद्रेणान्येन केन वा ।

लिङ्गप्रतिष्ठामुत्सृज्य क्रियते स्वपदस्थितिः ॥ ३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 4

किमन्यदिह वक्तव्यं प्रतिष्ठां प्रति कारणम् ।

पर्तिष्ठितं शिवेनापि लिङ्गं वैश्वेश्वरं यतः ॥ ४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 5

तस्मात्सर्वप्रयत्नेन परत्रेह च शर्मणे ।

स्थापयेत्परमेशस्य लिङ्गं बेरमथापि वा ॥ ५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 6

श्रीकृष्ण उवाच ।

किमिदं लिङ्गमाख्यातं कथं लिङ्गी महेश्वरः ।

कथं च लिङ्गभावोऽस्य कस्मादस्मिञ्छिवोऽर्च्यते ॥ ६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 7

उपमन्युरुवाच ।

अव्यक्तं लिङ्गमाख्यातं त्रिगुणप्रभवाप्ययम् ।

अनाद्यनन्तं विश्वस्य यदुपादानकारणम् ॥ ७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 8

तदेव मूलप्रकृतिर्माया च गगनात्मिका ।

तत एव समुत्पन्नं जगदेतच्चराचरम् ॥ ८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 9

अशुद्धं चैव शुद्धं यच्छुद्धाशुद्धं च तत्त्रिधा ।

ततः शिवो महेशश्च रुद्रो विष्णुः पितामहः ॥ ९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 10

भूतानि चेन्द्रियैर्जाता लीयन्तेऽत्र शिवाज्ञया ।

अत एव शिवो लिङ्गो लिङ्गमाज्ञापयेद्यतः ॥ १०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 11

यतो न तदनाज्ञातं कार्याय प्रभवेत्स्वतः ।

ततो जातस्य विश्वस्य तत्रैव विलयो यतः ॥ ११॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 12

अनेन लिङ्गता तस्य भवेन्नान्येन केनचित् ।

लिङ्गं च शिवयोर्देहस्ताभ्यां यस्मादधिष्ठितम् ॥ १२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 13

अतस्तत्र शिवः साम्बो नित्यमेव समर्चयेत् ।

लिङ्गवेदी महादेवी लिङ्गं साक्षान्महेश्वरः ॥ १३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 14

तयोः सम्पूजनादेव स च सा च समर्चितौ ।

न तयोर्लिङ्गदेहत्वं विद्यते परमार्थतः ॥ १४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 15

यतस्त्वेतौ विशुद्धौ तौ देहस्तदुपचारतः ।

तदेव परमा शक्तिः शिवस्य परमात्मनः ॥ १५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 16

शक्तिराज्ञां यदादत्ते प्रसूते तच्चराचरम् ।

न तस्य महिमा शक्यो वक्तुं वर्षशतैरपि ॥ १६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 17

येनादौ मोहितौ स्यातां ब्रह्मनारायणावपि ।

पुरा त्रिभुवनस्यास्य प्रलये समुपस्थिते ॥ १७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 18

वारिशय्यागतो विष्णुः सुष्वापानाकुलः सुखम् ।

यदृच्छया गतस्तत्र ब्रह्मा लोकपितामहः ॥ १८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 19

ददर्श पुण्डरीकाक्षं स्वपन्तं तमनाकुलम् ।

मायया मोहितः शम्भोर्विष्णुमाह पितामहः ॥ १९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 20

कस्त्वं वदेत्यमर्षेण प्रहृत्योत्थाप्य माधवम् ।

स तु हस्तप्रहारेण तीव्रेणाभिहतः क्षणात् ॥ २०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 21

प्रबुद्धोत्थाय शयनाद्ददर्श परमेष्ठिनम् ।

तमाह चान्तः सङ्क्रुद्धः स्वयमक्रुद्धवद्धरिः ॥ २१॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 22

कुतस्त्वमागतो वत्स कस्मात्त्वं व्याकुलो वद ।

इति विष्णुवचः श्रुत्वा प्रभुत्वगुणसूचकम् ॥ २२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 23

रजसा बद्धवैरस्तं ब्रह्मा पुनरभाषत ।

वत्सेति मां कुतो ब्रूषे गुरुः शिष्यमिवात्मनः ॥ २३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 24

मां न जानासि किं नाथं प्रपञ्चो यस्य मे कृतिः ।

त्रिधात्मानं विभज्येदं सृष्ट्वाथ परिपाल्यते ॥ २४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 25

संहरामि नमे कश्चित्स्रष्टा जगति विद्यते ।

इत्युक्ते सति सोऽप्याह ब्रह्माणं विष्णुरव्ययः ॥ २५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 26

अहमेवादिकर्तास्य हर्ता च परिपालकः ।

भवानपि ममैवाङ्गादवतीर्णः पुराव्ययात् ॥ २६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 50: वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं, Verse 27

मन्नियोगात्त्वमात्मानं त्रिधा कृत्वा जगत्त्रयम् ।

सृजस्यवसि चान्ते तत्पुनः प्रतिसृजस्यपि ॥ २७॥