Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 1

७.२.३३. त्रयस्त्रिंशोऽध्यायः ।

आमुष्मिककर्मविधिवर्णनम् ।

उपमन्युरुवाच ।

अतः परं प्रवक्ष्यामि केवलामुष्मिकं विधिम् ।

नैतेन सदृशं किञ्चित्कर्मास्ति भुवनत्रये ॥ १॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 2

पुण्यातिशयसंयुक्तः सर्वैर्देवैरनुष्ठितः ।

ब्रह्मणा विष्णुना चैव रुद्रेण च विशेषतः ॥ २॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 3

इन्द्रादिलोकपारैश्च सूर्याद्यैर्नवभिर्ग्रहैः ।

विश्वामित्रवसिष्ठाद्यैर्ब्रह्मविद्भिर्महर्षिभिः ॥ ३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 4

श्वेतागस्त्यदधीचाद्यैरस्माभिश्च शिवाश्रितैः ।

नन्दीश्वरमहाकालभृङ्गीशाद्यैर्गणेश्वरैः ॥ ४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 5

पातालवासिभिर्दैत्यैः शेषाद्यैश्च महोरगैः ।

सिद्धैर्यक्षैश्च गन्धर्वै रक्षोभूतपिशाचकैः ॥ ५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 6

स्वं स्वं पदमनुप्राप्तं सर्वैरयमनुष्ठितः ।

अनेन विधिना सर्वे देवा देवत्वमागताः ॥ ६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 7

ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः ।

रुद्रो रुद्रत्वमापन्न इन्द्रश्चेन्द्रत्वमागतः ॥ ७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 8

गणेशश्च गणेशत्वमनेन विधिना गतः ।

सितचन्दनतोयेन लिङ्गं स्नाप्य शिवं शिवाम् ।

श्वेतैर्विकसितैः पद्मैः सम्पूज्य प्रणिपत्य च ॥ ८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 9

तत्र पद्मासनं रम्यं कृत्वा लक्षणसंयुतम् ।

विभवे सति हेमाद्यै रत्नाद्यैर्वा स्वशक्तितः ॥ ९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 10

मध्ये केसरजालास्य स्थाप्य लिङ्गं कनीयसम् ।

अङ्गुष्ठप्रतिमं रम्यं सर्वगन्धमयं शुभम् ॥ १०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 11

दक्षिणे स्थापयित्वा तु बिल्वपत्रैः समर्चयेत् ।

अगुरुं दक्षिणे पार्श्वे पश्चिमे तु मनःशिलाम् ॥ ११॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 12

उत्तरे चन्दनं दद्याद्धरितालं तु पूर्वतः ।

सुगन्धैः कुसुमै रम्यैर्विचित्रैश्चापि पूजयेत् ॥ १२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 13

धूपं कृष्णागुरुं दद्यात्सर्वतश्च सगुग्गुलम् ।

वासांसि चातिसूक्ष्माणि विकाशानि निवेदयेत् ॥ १३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 14

पायसं घृतसम्मिश्रं घृतदीपांश्च दापयेत् ।

सर्वं निवेद्य मन्त्रेण ततो गच्छेत्प्रदक्षिणाम् ॥ १४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 15

प्रणम्य भक्त्या देवेशं स्तुत्वा चान्ते क्षमापयेत् ।

सर्वोपहारसम्मिश्रं ततो लिङ्गं निवेदयेत् ॥ १५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 16

शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः ।

एवं योऽर्चयते नित्यं पञ्चगन्धमयं शुभम् ॥ १६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 17

सर्वपापविनिर्मुक्तः शिवलोके महीयते ।

एतद् व्रतोत्तमं गुह्यं शिवलिङ्गमहाव्रतम् ॥ १७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 49: वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं, Verse 18

भक्तस्य ते समाख्यातं न देयं यस्य कस्यचित् ।

देयं च शिवभक्तेभ्यः शिवेन कथितं पुरा ॥ १८॥